Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती अष्टोत्तरशतनामावली

ओं सरस्वत्यै नमः ।

ओं महाभद्रायै नमः ।

ओं महामायायै नमः ।

ओं वरप्रदायै नमः ।

ओं श्रीप्रदायै नमः ।

ओं पद्मनिलयायै नमः ।

ओं पद्माक्ष्यै नमः ।

ओं पद्मवक्त्रकायै नमः ।

ओं शिवानुजायै नमः । ९

ओं पुस्तकभृते नमः ।

ओं ज्ञानमुद्रायै नमः ।

ओं रमायै नमः ।

ओं परायै नमः ।

ओं कामरूपायै नमः ।

ओं महाविद्यायै नमः ।

ओं महापातकनाशिन्यै नमः ।

ओं महाश्रयायै नमः ।

ओं मालिन्यै नमः । १८

ओं महाभोगायै नमः ।

ओं महाभुजायै नमः ।

ओं महाभागायै नमः ।

ओं महोत्साहायै नमः ।

ओं दिव्याङ्गायै नमः ।

ओं सुरवन्दितायै नमः ।

ओं महाकाल्यै नमः ।

ओं महापाशायै नमः ।

ओं महाकारायै नमः । २७

ओं महाङ्कुशायै नमः ।

ओं पीतायै नमः ।

ओं विमलायै नमः ।

ओं विश्वायै नमः ।

ओं विद्युन्मालायै नमः ।

ओं वैष्णव्यै नमः ।

ओं चन्द्रिकायै नमः ।

ओं चन्द्रवदनायै नमः ।

ओं चन्द्रलेखाविभूषितायै नमः । ३६

ओं सावित्र्यै नमः ।

ओं सुरसायै नमः ।

ओं देव्यै नमः ।

ओं दिव्यालङ्कारभूषितायै नमः ।

ओं वाग्देव्यै नमः ।

ओं वसुदायै नमः ।

ओं तीव्रायै नमः ।

ओं महाभद्रायै नमः ।

ओं महाबलायै नमः । ४५

ओं भोगदायै नमः ।

ओं भारत्यै नमः ।

ओं भामायै नमः ।

ओं गोविन्दायै नमः ।

ओं गोमत्यै नमः ।

ओं शिवायै नमः ।

ओं जटिलायै नमः ।

ओं विन्ध्यवासायै नमः ।

ओं विन्ध्याचलविराजितायै नमः । ५४

ओं चण्डिकायै नमः ।

ओं वैष्णव्यै नमः ।

ओं ब्राह्म्यै नमः ।

ओं ब्रह्मज्ञानैकसाधनायै नमः ।

ओं सौदामिन्यै नमः ।

ओं सुधामूर्त्यै नमः ।

ओं सुभद्रायै नमः ।

ओं सुरपूजितायै नमः ।

ओं सुवासिन्यै नमः । ६३

ओं सुनासायै नमः ।

ओं विनिद्रायै नमः ।

ओं पद्मलोचनायै नमः ।

ओं विद्यारूपायै नमः ।

ओं विशालाक्ष्यै नमः ।

ओं ब्रह्मजायायै नमः ।

ओं महाफलायै नमः ।

ओं त्रयीमूर्तये नमः ।

ओं त्रिकालज्ञायै नमः । ७२

ओं त्रिगुणायै नमः ।

ओं शास्त्ररूपिण्यै नमः ।

ओं शुम्भासुरप्रमथिन्यै नमः ।

ओं शुभदायै नमः ।

ओं स्वरात्मिकायै नमः ।

ओं रक्तबीजनिहन्त्र्यै नमः ।

ओं चामुण्डायै नमः ।

ओं अम्बिकायै नमः ।

ओं मुण्डकायप्रहरणायै नमः । ८१

ओं धूम्रलोचनमर्दनायै नमः ।

ओं सर्वदेवस्तुतायै नमः ।

ओं सौम्यायै नमः ।

ओं सुरासुरनमस्कृतायै नमः ।

ओं कालरात्र्यै नमः ।

ओं कलाधारायै नमः ।

ओं रूपसौभाग्यदायिन्यै नमः ।

ओं वाग्देव्यै नमः ।

ओं वरारोहायै नमः । ९०

ओं वाराह्यै नमः ।

ओं वारिजासनायै नमः ।

ओं चित्राम्बरायै नमः ।

ओं चित्रगन्धायै नमः ।

ओं चित्रमाल्यविभूषितायै नमः ।

ओं कान्तायै नमः ।

ओं कामप्रदायै नमः ।

ओं वन्द्यायै नमः ।

ओं विद्याधरसुपूजितायै नमः । ९९

ओं श्वेताननायै नमः ।

ओं नीलभुजायै नमः ।

ओं चतुर्वर्गफलप्रदायै नमः ।

ओं चतुराननसाम्राज्यायै नमः ।

ओं रक्तमध्यायै नमः ।

ओं निरञ्जनायै नमः ।

ओं हंसासनायै नमः ।

ओं नीलजङ्घायै नमः ।

ओं ब्रह्मविष्णुशिवात्मिकायै नमः । १०८

इति श्री सरस्वत्यष्टोत्तरशतनामावली ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri saraswathi ashtottara satanamavali