Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनामावली

ओं ओङ्काराचलसिंहेन्द्राय नमः ।

ओं ओङ्कारोद्यानकोकिलाय नमः ।

ओं ओङ्कारनीडशुकराजे नमः ।

ओं ओङ्कारारण्यकुञ्जराय नमः ।

ओं नगराजसुताजानये नमः ।

ओं नगराजनिजालयाय नमः ।

ओं नवमाणिक्यमालाढ्याय नमः ।

ओं नवचन्द्रशिखामणये नमः ।

ओं नन्दिताशेषमौनीन्द्राय नमः । ९

ओं नन्दीशादिमदेशिकाय नमः ।

ओं मोहानलसुधाधाराय नमः ।

ओं मोहाम्बुजसुधाकराय नमः ।

ओं मोहान्धकारतरणये नमः ।

ओं मोहोत्पलनभोमणये नमः ।

ओं भक्तज्ञानाब्धिशीतांशवे नमः ।

ओं भक्ताज्ञानतृणानलाय नमः ।

ओं भक्ताम्भोजसहस्रांशवे नमः ।

ओं भक्तकेकिघनाघनाय नमः । १८

ओं भक्तकैरवराकेन्दवे नमः ।

ओं भक्तकोकदिवाकराय नमः ।

ओं गजाननादिसम्पूज्याय नमः ।

ओं गजचर्मोज्ज्वलाकृतये नमः ।

ओं गङ्गाधवलदिव्याङ्गाय नमः ।

ओं गङ्गाभङ्गलसज्जटाय नमः ।

ओं गगनाम्बरसंवीताय नमः ।

ओं गगनामुक्तमूर्धजाय नमः ।

ओं वदनाब्जजितश्रिये नमः । २७

ओं वदनेन्दुस्फुरद्दिशाय नमः ।

ओं वरदानैकनिपुणाय नमः ।

ओं वरवीणोज्ज्वलत्कराय नमः ।

ओं वनवाससमुल्लासिने नमः ।

ओं वनलीलैकलोलुपाय नमः ।

ओं तेजःपुञ्जघनाकाराय नमः ।

ओं तेजसामविभासकाय नमः ।

ओं विधेयानां तेजःप्रदाय नमः ।

ओं तेजोमयनिजाश्रमाय नमः । ३६

ओं दमितानङ्गसङ्ग्रामाय नमः ।

ओं दरहासोज्ज्वलन्मुखाय नमः ।

ओं दयारससुधासिन्धवे नमः ।

ओं दरिद्रधनशेवधये नमः ।

ओं क्षीरेन्दुस्फटिकाकाराय नमः ।

ओं क्षितीन्द्रमकुटोज्ज्वलाय नमः ।

ओं क्षीरोपहाररसिकाय नमः ।

ओं क्षिप्रैश्वर्यफलप्रदाय नमः ।

ओं नानाभरणमुक्ताङ्गाय नमः । ४५

ओं नारीसम्मोहनाकृतये नमः ।

ओं नादब्रह्मरसास्वादिने नमः ।

ओं नागभूषणभूषिताय नमः ।

ओं मूर्तिनिन्दितकन्दर्पाय नमः ।

ओं मूर्तामूर्तजगद्वपुषे नमः ।

ओं मूकाज्ञानतमोभानवे नमः ।

ओं मूर्तिमत्कल्पपादपाय नमः ।

ओं तरुणादित्यसङ्काशाय नमः ।

ओं तन्त्रीवादनतत्पराय नमः । ५४

ओं तरुमूलैकनिलयाय नमः ।

ओं तप्तजाम्बूनदप्रभाय नमः ।

ओं तत्त्वपुस्तोल्लसत्पाणये नमः ।

ओं तपनोडुपलोचनाय नमः ।

ओं यमसन्नुतसत्कीर्तये नमः ।

ओं यमसम्यमसम्युताय नमः ।

ओं यतिरूपधराय नमः ।

ओं मौनमुनीन्द्रोपास्यविग्रहाय नमः ।

ओं मन्दारहाररुचिराय नमः । ६३

ओं मदनायुतसुन्दराय नमः ।

ओं मन्दस्मितलसद्वक्त्राय नमः ।

ओं मधुराधरपल्लवाय नमः ।

ओं मञ्जीरमञ्जुपादाब्जाय नमः ।

ओं मणिपट्टोलसत्कटये नमः ।

ओं हस्ताङ्कुरितचिन्मुद्राय नमः ।

ओं हंसयोगपटूत्तमाय नमः ।

ओं हंसजप्याक्षमालाढ्याय नमः ।

ओं हंसेन्द्राराध्यपादुकाय नमः । ७२

ओं मेरुशृङ्गसमुल्लासिने नमः ।

ओं मेघश्याममनोहराय नमः ।

ओं मेघाङ्कुरालवालाग्र्याय नमः ।

ओं मेधापक्वफलद्रुमाय नमः ।

ओं धार्मिकान्तकृतावासाय नमः ।

ओं धर्ममार्गप्रवर्तकाय नमः ।

ओं धामत्रयनिजारामाय नमः ।

ओं धरोत्तममहारथाय नमः ।

ओं प्रबोधोदारदीपश्रिये नमः । ८१

ओं प्रकाशितजगत्त्रयाय नमः ।

ओं प्रज्ञाचन्द्रशिलाचन्द्राय नमः ।

ओं प्रज्ञामणिलसत्कराय नमः ।

ओं ज्ञानिहृद्भासमानात्मने नमः ।

ओं ज्ञातॄणामविदूरगाय नमः ।

ओं ज्ञानायादृतदिव्याङ्गाय नमः ।

ओं ज्ञातिजातिकुलातिगाय नमः ।

ओं प्रपन्नपारिजाताग्र्याय नमः ।

ओं प्रणतार्त्यब्धिबाडबाय नमः । ९०

ओं भूतानां प्रमाणभूताय नमः ।

ओं प्रपञ्चहितकारकाय नमः ।

ओं यमिसत्तमसंसेव्याय नमः ।

ओं यक्षगेयात्मवैभवाय नमः ।

ओं यज्ञाधिदेवतामूर्तये नमः ।

ओं यजमानवपुर्धराय नमः ।

ओं छत्राधिपदिगीशाय नमः ।

ओं छत्रचामरसेविताय नमः ।

ओं छन्दः शास्त्रादिनिपुणाय नमः । ९९

ओं छलजात्यादिदूरगाय नमः ।

ओं स्वाभाविकसुखैकात्मने नमः ।

ओं स्वानुभूतिरसोदधये नमः ।

ओं स्वाराज्यसम्पदध्यक्षाय नमः ।

ओं स्वात्माराममहामतये नमः ।

ओं हाटकाभजटाजूटाय नमः ।

ओं हासोदस्तारिमण्डलाय नमः ।

ओं हालाहलोज्ज्वलगलाय नमः ।

ओं हारायितभुजङ्गमाय नमः । १०८

इति श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनामावली ।

sri dakshinamurthy mantrarna ashtottara shatanamavali