Skip to main content
पडताळणी प्रलंबित

श्री गायत्र्यष्टोत्तरशतनामावली १

ओं श्रीगायत्र्यै नमः ।

ओं जगन्मात्रे नमः ।

ओं परब्रह्मस्वरूपिण्यै नमः ।

ओं परमार्थप्रदायै नमः ।

ओं जप्यायै नमः ।

ओं ब्रह्मतेजोविवर्धिन्यै नमः ।

ओं ब्रह्मास्त्ररूपिण्यै नमः ।

ओं भव्यायै नमः ।

ओं त्रिकालध्येयरूपिण्यै नमः । ९

ओं त्रिमूर्तिरूपायै नमः ।

ओं सर्वज्ञायै नमः ।

ओं वेदमात्रे नमः ।

ओं मनोन्मन्यै नमः ।

ओं बालिकायै नमः ।

ओं तरुण्यै नमः ।

ओं वृद्धायै नमः ।

ओं सूर्यमण्डलवासिन्यै नमः ।

ओं मन्देहदानवध्वंसकारिण्यै नमः । १८

ओं सर्वकारणायै नमः ।

ओं हंसारूढायै नमः ।

ओं वृषारूढायै नमः ।

ओं गरुडारोहिण्यै नमः ।

ओं शुभायै नमः ।

ओं षट्कुक्ष्यै नमः ।

ओं त्रिपदायै नमः ।

ओं शुद्धायै नमः ।

ओं पञ्चशीर्षायै नमः । २७

ओं त्रिलोचनायै नमः ।

ओं त्रिवेदरूपायै नमः ।

ओं त्रिविधायै नमः ।

ओं त्रिवर्गफलदायिन्यै नमः ।

ओं दशहस्तायै नमः ।

ओं चन्द्रवर्णायै नमः ।

ओं विश्वामित्रवरप्रदायै नमः ।

ओं दशायुधधरायै नमः ।

ओं नित्यायै नमः । ३६

ओं सन्तुष्टायै नमः ।

ओं ब्रह्मपूजितायै नमः ।

ओं आदिशक्त्यै नमः ।

ओं महाविद्यायै नमः ।

ओं सुषुम्नाख्यायै नमः ।

ओं सरस्वत्यै नमः ।

ओं चतुर्विंशत्यक्षराढ्यायै नमः ।

ओं सावित्र्यै नमः ।

ओं सत्यवत्सलायै नमः । ४५

ओं सन्ध्यायै नमः ।

ओं रात्र्यै नमः ।

ओं प्रभाताख्यायै नमः ।

ओं साङ्ख्यायनकुलोद्भवायै नमः ।

ओं सर्वेश्वर्यै नमः ।

ओं सर्वविद्यायै नमः ।

ओं सर्वमन्त्रादये नमः ।

ओं अव्ययायै नमः ।

ओं शुद्धवस्त्रायै नमः । ५४

ओं शुद्धविद्यायै नमः ।

ओं शुक्लमाल्यानुलेपनायै नमः ।

ओं सुरसिन्धुसमायै नमः ।

ओं सौम्यायै नमः ।

ओं ब्रह्मलोकनिवासिन्यै नमः ।

ओं प्रणवप्रतिपाद्यार्थायै नमः ।

ओं प्रणतोद्धरणक्षमायै नमः ।

ओं जलाञ्जलिसुसन्तुष्टायै नमः ।

ओं जलगर्भायै नमः । ६३

ओं जलप्रियायै नमः ।

ओं स्वाहायै नमः ।

ओं स्वधायै नमः ।

ओं सुधासंस्थायै नमः ।

ओं श्रौषड्वौषड्वषट्क्रियायै नमः ।

ओं सुरभ्यै नमः ।

ओं षोडशकलायै नमः ।

ओं मुनिबृन्दनिषेवितायै नमः ।

ओं यज्ञप्रियायै नमः । ७२

ओं यज्ञमूर्त्यै नमः ।

ओं स्रुक्स्रुवाज्यस्वरूपिण्यै नमः ।

ओं अक्षमालाधरायै नमः ।

ओं अक्षमालासंस्थायै नमः ।

ओं अक्षराकृत्यै नमः ।

ओं मधुच्छन्दऋषिप्रीतायै नमः ।

ओं स्वच्छन्दायै नमः ।

ओं छन्दसां निधये नमः ।

ओं अङ्गुलीपर्वसंस्थानायै नमः । ८१

ओं चतुर्विंशतिमुद्रिकायै नमः ।

ओं ब्रह्ममूर्त्यै नमः ।

ओं रुद्रशिखायै नमः ।

ओं सहस्रपरमायै नमः ।

ओं अम्बिकायै नमः ।

ओं विष्णुहृद्गायै नमः ।

ओं अग्निमुख्यै नमः ।

ओं शतमध्यायै नमः ।

ओं दशावरायै नमः । ९०

ओं सहस्रदलपद्मस्थायै नमः ।

ओं हंसरूपायै नमः ।

ओं निरञ्जनायै नमः ।

ओं चराचरस्थायै नमः ।

ओं चतुरायै नमः ।

ओं सूर्यकोटिसमप्रभायै नमः ।

ओं पञ्चवर्णमुख्यै नमः ।

ओं धात्र्यै नमः ।

ओं चन्द्रकोटिशुचिस्मितायै नमः । ९९

ओं महामायायै नमः ।

ओं विचित्राङ्ग्यै नमः ।

ओं मायाबीजनिवासिन्यै नमः ।

ओं सर्वयन्त्रात्मिकायै नमः ।

ओं सर्वतन्त्ररूपायै नमः ।

ओं जगद्धितायै नमः ।

ओं मर्यादापालिकायै नमः ।

ओं मान्यायै नमः ।

ओं महामन्त्रफलप्रदायै नमः । १०८

इति श्री गायत्र्यष्टोत्तरशतनामावली ।

sri gayatri ashtottara shatanamavali 1