Skip to main content
पडताळणी प्रलंबित

श्री वाराही अष्टोत्तरशतनामावली २

ओं किरिचक्ररथारूढायै नमः ।

ओं शत्रुसंहारकारिण्यै नमः ।

ओं क्रियाशक्तिस्वरूपायै नमः ।

ओं दण्डनाथायै नमः ।

ओं महोज्ज्वलायै नमः ।

ओं हलायुधायै नमः ।

ओं हर्षदात्र्यै नमः ।

ओं हलनिर्भिन्नशात्रवायै नमः ।

ओं भक्तार्तितापशमन्यै नमः । ९

ओं मुसलायुधशोभिन्यै नमः ।

ओं कुर्वन्त्यै नमः ।

ओं कारयन्त्यै नमः ।

ओं कर्ममालातरङ्गिण्यै नमः ।

ओं कामप्रदायै नमः ।

ओं भगवत्यै नमः ।

ओं भक्तशत्रुविनाशिन्यै नमः ।

ओं उग्ररूपायै नमः ।

ओं महादेव्यै नमः । १८

ओं स्वप्नानुग्रहदायिन्यै नमः ।

ओं कोलास्यायै नमः ।

ओं चन्द्रचूडायै नमः ।

ओं त्रिनेत्रायै नमः ।

ओं हयवाहनायै नमः ।

ओं पाशहस्तायै नमः ।

ओं शक्तिपाण्यै नमः ।

ओं मुद्गरायुधधारिण्यै नमः ।

ओं हस्ताङ्कुशायै नमः । २७

ओं ज्वलन्नेत्रायै नमः ।

ओं चतुर्बाहुसमन्वितायै नमः ।

ओं विद्युद्वर्णायै नमः ।

ओं वह्निनेत्रायै नमः ।

ओं शत्रुवर्गविनाशिन्यै नमः ।

ओं करवीरप्रिया मात्रे नमः ।

ओं बिल्वार्चनवरप्रदायै नमः ।

ओं वार्ताल्यै नमः ।

ओं वाराह्यै नमः । ३६

ओं वराहास्यायै नमः ।

ओं वरप्रदायै नमः ।

ओं अन्धिन्यै नमः ।

ओं रुन्धिन्यै नमः ।

ओं जम्भिन्यै नमः ।

ओं मोहिन्यै नमः ।

ओं स्तम्भिन्यै नमः ।

ओं इतिविख्यातायै नमः ।

ओं देव्यष्टकविराजितायै नमः । ४५

ओं उग्ररूपायै नमः ।

ओं महादेव्यै नमः ।

ओं महावीरायै नमः ।

ओं महाद्युतये नमः ।

ओं किरातरूपायै नमः ।

ओं सर्वेश्यै नमः ।

ओं अन्तःशत्रुविनाशिन्यै नमः ।

ओं परिणामक्रमा वीरायै नमः ।

ओं परिपाकस्वरूपिण्यै नमः । ५४

ओं नीलोत्पलतिलैः प्रीतायै नमः ।

ओं शक्तिषोडशसेवितायै नमः ।

ओं नारिकेलोदकप्रीतायै नमः ।

ओं शुद्धोदकसमादरायै नमः ।

ओं उच्चाटन्यै नमः ।

ओं उच्चाटनेश्यै नमः ।

ओं शोषण्यै नमः ।

ओं शोषणेश्वर्यै नमः ।

ओं मारण्यै नमः । ६३

ओं मारणेश्यै नमः ।

ओं भीषण्यै नमः ।

ओं भीषणेश्वर्यै नमः ।

ओं त्रासन्यै नमः ।

ओं त्रासनेश्यै नमः ।

ओं कम्पन्यै नमः ।

ओं कम्पनीश्वर्यै नमः ।

ओं आज्ञाविवर्तिन्यै नमः ।

ओं आज्ञाविवर्तिनीश्वर्यै नमः । ७२

ओं वस्तुजातेश्वर्यै नमः ।

ओं सर्वसम्पादनीश्वर्यै नमः ।

ओं निग्रहानुग्रहदक्षायै नमः ।

ओं भक्तवात्सल्यशोभिन्यै नमः ।

ओं किरातस्वप्नरूपायै नमः ।

ओं बहुधाभक्तरक्षिण्यै नमः ।

ओं वशङ्करीमन्त्ररूपायै नमः ।

ओं हुम्बीजेनसमन्वितायै नमः ।

ओं रंशक्त्यै नमः । ८१

ओं क्लीं कीलकायै नमः ।

ओं सर्वशत्रुविनाशिन्यै नमः ।

ओं जपध्यानसमाराध्यायै नमः ।

ओं होमतर्पणतर्पितायै नमः ।

ओं दंष्ट्राकरालवदनायै नमः ।

ओं विकृतास्यायै नमः ।

ओं महारवायै नमः ।

ओं ऊर्ध्वकेश्यै नमः ।

ओं उग्रधरायै नमः । ९०

ओं सोमसूर्याग्निलोचनायै नमः ।

ओं रौद्रीशक्त्यै नमः ।

ओं परायै अव्यक्तायै नमः ।

ओं ईश्वर्यै नमः ।

ओं परदेवतायै नमः ।

ओं विधिविष्णुशिवाद्यर्च्यायै नमः ।

ओं मृत्युभीत्यपनोदिन्यै नमः ।

ओं जितरम्भोरुयुगलायै नमः ।

ओं रिपुसंहारताण्डवायै नमः । ९९

ओं भक्तरक्षणसंलग्नायै नमः ।

ओं शत्रुकर्मविनाशिन्यै नमः ।

ओं तार्क्ष्यारूढायै नमः ।

ओं सुवर्णाभायै नमः ।

ओं शत्रुमारणकारिण्यै नमः ।

ओं अश्वारूढायै नमः ।

ओं रक्तवर्णायै नमः ।

ओं रक्तवस्त्राद्यलङ्कृतायै नमः ।

ओं जनवश्यकरी मात्रे नमः । १०८

[* अधिक नामानि –

ओं भक्तानुग्रहदायिन्यै नमः ।

ओं दंष्ट्राधृतधरायै देव्यै नमः ।

ओं सदा प्राणवायुप्रदायै नमः ।

ओं दूर्वास्यायै नमः ।

ओं भूप्रदायै नमः ।

ओं सर्वाभीष्टफलप्रदायै नमः ।

ओं त्रिलोचनऋषिप्रीतायै नमः ।

ओं पञ्चम्यै नमः ।

ओं परमेश्वर्यै नमः ।

ओं सेनाधिकारिण्यै नमः ।

ओं उग्रायै नमः ।

ओं वाराह्यै नमः ।

ओं शुभप्रदायै नमः ।

*]

इति श्री वाराही अष्टोत्तरशतनामावली ॥

sri varahi ashtottara shatanamavali 2