Skip to main content
पडताळणी प्रलंबित

श्री शिव अष्टोत्तरशतनामावली

श्री शिवाष्टोत्तर शतनाम स्तोत्रम् >>

ओं शिवाय नमः ।

ओं महेश्वराय नमः ।

ओं शम्भवे नमः ।

ओं पिनाकिने नमः ।

ओं शशिशेखराय नमः ।

ओं वामदेवाय नमः ।

ओं विरूपाक्षाय नमः ।

ओं कपर्दिने नमः ।

ओं नीललोहिताय नमः । ९

ओं शङ्कराय नमः ।

ओं शूलपाणिने नमः ।

ओं खट्वाङ्गिने नमः ।

ओं विष्णुवल्लभाय नमः ।

ओं शिपिविष्टाय नमः ।

ओं अम्बिकानाथाय नमः ।

ओं श्रीकण्ठाय नमः ।

ओं भक्तवत्सलाय नमः ।

ओं भवाय नमः । १८

ओं शर्वाय नमः ।

ओं त्रिलोकेशाय नमः ।

ओं शितिकण्ठाय नमः ।

ओं शिवाप्रियाय नमः ।

ओं उग्राय नमः ।

ओं कपालिने नमः ।

ओं कामारये नमः ।

ओं अन्धकासुरसूदनाय नमः ।

ओं गङ्गाधराय नमः । २७

ओं ललाटाक्षाय नमः ।

ओं कालकालाय नमः ।

ओं कृपानिधये नमः ।

ओं भीमाय नमः ।

ओं परशुहस्ताय नमः ।

ओं मृगपाणये नमः ।

ओं जटाधराय नमः ।

ओं कैलासवासिने नमः ।

ओं कवचिने नमः । ३६

ओं कठोराय नमः ।

ओं त्रिपुरान्तकाय नमः ।

ओं वृषाङ्काय नमः ।

ओं वृषभारूढाय नमः ।

ओं भस्मोद्धूलितविग्रहाय नमः ।

ओं सामप्रियाय नमः ।

ओं स्वरमयाय नमः ।

ओं त्रयीमूर्तये नमः ।

ओं अनीश्वराय नमः । ४५

ओं सर्वज्ञाय नमः ।

ओं परमात्मने नमः ।

ओं सोमसूर्याग्निलोचनाय नमः ।

ओं हविषे नमः ।

ओं यज्ञमयाय नमः ।

ओं सोमाय नमः ।

ओं पञ्चवक्त्राय नमः ।

ओं सदाशिवाय नमः ।

ओं विश्वेश्वराय नमः । ५४

ओं वीरभद्राय नमः ।

ओं गणनाथाय नमः ।

ओं प्रजापतये नमः ।

ओं हिरण्यरेतसे नमः ।

ओं दुर्धर्षाय नमः ।

ओं गिरीशाय नमः ।

ओं गिरिशाय नमः ।

ओं अनघाय नमः ।

ओं भुजङ्गभूषणाय नमः । ६३

ओं भर्गाय नमः ।

ओं गिरिधन्वने नमः ।

ओं गिरिप्रियाय नमः ।

ओं कृत्तिवाससे नमः ।

ओं पुरारातये नमः ।

ओं भगवते नमः ।

ओं प्रमथाधिपाय नमः ।

ओं मृत्युञ्जयाय नमः ।

ओं सूक्ष्मतनवे नमः । ७२

ओं जगद्व्यापिने नमः ।

ओं जगद्गुरुवे नमः ।

ओं व्योमकेशाय नमः ।

ओं महासेनजनकाय नमः ।

ओं चारुविक्रमाय नमः ।

ओं रुद्राय नमः ।

ओं भूतपतये नमः ।

ओं स्थाणवे नमः ।

ओं अहिर्बुध्न्याय नमः । ८१

ओं दिगम्बराय नमः ।

ओं अष्टमूर्तये नमः ।

ओं अनेकात्मने नमः ।

ओं सात्त्विकाय नमः ।

ओं शुद्धविग्रहाय नमः ।

ओं शाश्वताय नमः ।

ओं खण्डपरशवे नमः ।

ओं अजाय नमः ।

ओं पाशविमोचकाय नमः । ९०

ओं मृडाय नमः ।

ओं पशुपतये नमः ।

ओं देवाय नमः ।

ओं महादेवाय नमः ।

ओं अव्ययाय नमः ।

ओं हरये नमः ।

ओं पूषदन्तभिदे नमः ।

ओं अव्यग्राय नमः ।

ओं दक्षाध्वरहराय नमः । ९९

ओं हराय नमः ।

ओं भगनेत्रभिदे नमः ।

ओं अव्यक्ताय नमः ।

ओं सहस्राक्षाय नमः ।

ओं सहस्रपदे नमः ।

ओं अपवर्गप्रदाय नमः ।

ओं अनन्ताय नमः ।

ओं तारकाय नमः ।

ओं परमेश्वराय नमः । १०८

sri shiva ashtottara satanamavali in hindi