Skip to main content
पडताळणी प्रलंबित

श्री गणपति गकाराष्टोत्तरशतनामावली

श्री गणपति गकार अष्टोत्तरशतनाम स्तोत्रम् >>

ओं गकाररूपाय नमः ।

ओं गम्बीजाय नमः ।

ओं गणेशाय नमः ।

ओं गणवन्दिताय नमः ।

ओं गणनीयाय नमः ।

ओं गणाय नमः ।

ओं गण्याय नमः ।

ओं गणनातीतसद्गुणाय नमः ।

ओं गगनादिकसृजे नमः । ९

ओं गङ्गासुताय नमः ।

ओं गङ्गासुतार्चिताय नमः ।

ओं गङ्गाधरप्रीतिकराय नमः ।

ओं गवीशेड्याय नमः ।

ओं गदापहाय नमः ।

ओं गदाधरनुताय नमः ।

ओं गद्यपद्यात्मककवित्वदाय नमः ।

ओं गजास्याय नमः ।

ओं गजलक्ष्मीवते नमः । १८

ओं गजवाजिरथप्रदाय नमः ।

ओं गञ्जानिरतशिक्षाकृतये नमः ।

ओं गणितज्ञाय नमः ।

ओं गणोत्तमाय नमः ।

ओं गण्डदानाञ्चिताय नमः ।

ओं गन्त्रे नमः ।

ओं गण्डोपलसमाकृतये नमः ।

ओं गगनव्यापकाय नमः ।

ओं गम्याय नमः । २७

ओं गमनादिविवर्जिताय नमः ।

ओं गण्डदोषहराय नमः ।

ओं गण्डभ्रमद्भ्रमरकुण्डलाय नमः ।

ओं गतागतज्ञाय नमः ।

ओं गतिदाय नमः ।

ओं गतमृत्यवे नमः ।

ओं गतोद्भवाय नमः ।

ओं गन्धप्रियाय नमः ।

ओं गन्धवाहाय नमः । ३६

ओं गन्धसिन्धुरबृन्दगाय नमः ।

ओं गन्धादिपूजिताय नमः ।

ओं गव्यभोक्त्रे नमः ।

ओं गर्गादिसन्नुताय नमः ।

ओं गरिष्ठाय नमः ।

ओं गरभिदे नमः ।

ओं गर्वहराय नमः ।

ओं गरलिभूषणाय नमः ।

ओं गविष्ठाय नमः । ४५

ओं गर्जितारावाय नमः ।

ओं गभीरहृदयाय नमः ।

ओं गदिने नमः ।

ओं गलत्कुष्ठहराय नमः ।

ओं गर्भप्रदाय नमः ।

ओं गर्भार्भरक्षकाय नमः ।

ओं गर्भाधाराय नमः ।

ओं गर्भवासिशिशुज्ञानप्रदाय नमः ।

ओं गरुत्मत्तुल्यजवनाय नमः । ५४

ओं गरुडध्वजवन्दिताय नमः ।

ओं गयेडिताय नमः ।

ओं गयाश्राद्धफलदाय नमः ।

ओं गयाकृतये नमः ।

ओं गदाधरावतारिणे नमः ।

ओं गन्धर्वनगरार्चिताय नमः ।

ओं गन्धर्वगानसन्तुष्टाय नमः ।

ओं गरुडाग्रजवन्दिताय नमः ।

ओं गणरात्रसमाराध्याय नमः । ६३

ओं गर्हणास्तुतिसाम्यधिये नमः ।

ओं गर्ताभनाभये नमः ।

ओं गव्यूतिदीर्घतुण्डाय नमः ।

ओं गभस्तिमते नमः ।

ओं गर्हिताचारदूराय नमः ।

ओं गरुडोपलभूषिताय नमः ।

ओं गजारिविक्रमाय नमः ।

ओं गन्धमूषवाजिने नमः ।

ओं गतश्रमाय नमः । ७२

ओं गवेषणीयाय नमः ।

ओं गहनाय नमः ।

ओं गहनस्थमुनिस्तुताय नमः ।

ओं गवयच्छिदे नमः ।

ओं गण्डकभिदे नमः ।

ओं गह्वरापथवारणाय नमः ।

ओं गजदन्तायुधाय नमः ।

ओं गर्जद्रिपुघ्नाय नमः ।

ओं गजकर्णिकाय नमः । ८१

ओं गजचर्मामयच्छेत्रे नमः ।

ओं गणाध्यक्षाय नमः ।

ओं गणार्चिताय नमः ।

ओं गणिकानर्तनप्रीताय नमः ।

ओं गच्छते नमः ।

ओं गन्धफलीप्रियाय नमः ।

ओं गन्धकादिरसाधीशाय नमः ।

ओं गणकानन्ददायकाय नमः ।

ओं गरभादिजनुर्हर्त्रे नमः । ९०

ओं गण्डकीगाहनोत्सुकाय नमः ।

ओं गण्डूषीकृतवाराशये नमः ।

ओं गरिमालघिमादिदाय नमः ।

ओं गवाक्षवत्सौधवासिने नमः ।

ओं गर्भिताय नमः ।

ओं गर्भिणीनुताय नमः ।

ओं गन्धमादनशैलाभाय नमः ।

ओं गण्डभेरुण्डविक्रमाय नमः ।

ओं गदिताय नमः । ९९

ओं गद्गदारावसंस्तुताय नमः ।

ओं गह्वरीपतये नमः ।

ओं गजेशाय नमः ।

ओं गरीयसे नमः ।

ओं गद्येड्याय नमः ।

ओं गतभिदे नमः ।

ओं गदितागमाय नमः ।

ओं गर्हणीयगुणाभावाय नमः ।

ओं गङ्गादिकशुचिप्रदाय नमः । १०८

ओं गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः ।

इति श्री गणपति गकाराष्टोत्तरशतनामावली ।

sri ganapati gakara ashtottara shatanamavali