Skip to main content
पडताळणी प्रलंबित

देवीवैभवाश्चर्याष्टोत्तरशतनामावली

ओं परमानन्दलहर्यै नमः ।

ओं परचैतन्यदीपिकायै नमः ।

ओं स्वयम्प्रकाशकिरणायै नमः ।

ओं नित्यवैभवशालिन्यै नमः ।

ओं विशुद्धकेवलाखण्डसत्यकालात्मरूपिण्यै नमः ।

ओं आदिमध्यान्तरहितायै नमः ।

ओं महामायाविलासिन्यै नमः ।

ओं गुणत्रयपरिच्छेत्र्यै नमः ।

ओं सर्वतत्त्वप्रकाशिन्यै नमः । ९

ओं स्त्रीपुंसभावरसिकायै नमः ।

ओं जगत्सर्गादिलम्पटायै नमः ।

ओं अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः ।

ओं अनादिवासनारूपायै नमः ।

ओं वासनोद्यत्प्रपञ्चिकायै नमः ।

ओं प्रपञ्चोपशमप्रौढायै नमः ।

ओं चराचरजगन्मय्यै नमः ।

ओं समस्तजगदाधारायै नमः ।

ओं सर्वसञ्जीवनोत्सुकायै नमः । १८

ओं भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमायै नमः ।

ओं सर्वाकर्षणवश्यादिसर्वकर्मधुरन्धरायै नमः ।

ओं विज्ञानपरमानन्दविद्यायै नमः ।

ओं सन्तानसिद्धिदायै नमः ।

ओं आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै नमः ।

ओं धनधान्यमणीवस्त्रभूषालेपनमाल्यदायै नमः ।

ओं गृहग्राममहाराज्यसाम्राज्यसुखदायिन्यै नमः ।

ओं सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदायै नमः ।

ओं ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमायै नमः । २७

ओं भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिन्यै नमः ।

ओं निग्रहानुग्रहाध्यक्षायै नमः ।

ओं ज्ञाननिर्द्वैतदायिन्यै नमः ।

ओं परकायप्रवेशादियोगसिद्धिप्रदायिन्यै नमः ।

ओं शिष्टसञ्जीवनप्रौढायै नमः ।

ओं दुष्टसंहारसिद्धिदायै नमः ।

ओं लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डलायै नमः ।

ओं एकस्यै नमः ।

ओं अनेकात्मिकायै नमः । ३६

ओं नानारूपिण्यै नमः ।

ओं अर्धाङ्गनेश्वर्यै नमः ।

ओं शिवशक्तिमय्यै नमः ।

ओं नित्यशृङ्गारैकरसप्रियायै नमः ।

ओं तुष्टायै नमः ।

ओं पुष्टायै नमः ।

ओं अपरिच्छिन्नायै नमः ।

ओं नित्ययौवनमोहिन्यै नमः ।

ओं समस्तदेवतारूपायै नमः । ४५

ओं सर्वदेवाधिदेवतायै नमः ।

ओं देवर्षिपितृसिद्धादियोगिनीभैरवात्मिकायै नमः ।

ओं निधिसिद्धिमणीमुद्रायै नमः ।

ओं शस्त्रास्त्रायुधभासुरायै नमः ।

ओं छत्रचामरवादित्रपताकाव्यजनाञ्चितायै नमः ।

ओं हस्त्यश्वरथपादातामात्यसेनासुसेवितायै नमः ।

ओं पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै नमः ।

ओं सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिन्यै नमः ।

ओं मणिद्वीपान्तरप्रोद्यत्कदम्बवनवासिन्यै नमः । ५४

ओं चिन्तामणिगृहान्तःस्थायै नमः ।

ओं मणिमण्टपमध्यगायै नमः ।

ओं रत्नसिंहासनप्रोद्यच्छिवमञ्चाधिशायिन्यै नमः ।

ओं सदाशिवमहालिङ्गमूलसङ्घट्‍टयोनिकायै नमः ।

ओं अन्योन्यालिङ्गसङ्घर्षकण्डूसङ्क्षुब्धमानसायै नमः ।

ओं कलोद्यद्बिन्दुकालिन्यातुर्यनादपरम्परायै नमः ।

ओं नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृतायै नमः ।

ओं कामराजमहातन्त्ररहस्याचारदक्षिणायै नमः ।

ओं मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दर्यै नमः । ६३

ओं श्रीचक्रराजनिलयायै नमः ।

ओं श्रीविद्यामन्त्रविग्रहायै नमः ।

ओं अखण्डसच्चिदानन्दशिवशक्तैक्यरूपिण्यै नमः ।

ओं त्रिपुरायै नमः ।

ओं त्रिपुरेशान्यै नमः ।

ओं महात्रिपुरसुन्दर्यै नमः ।

ओं त्रिपुरावासरसिकायै नमः ।

ओं त्रिपुराश्रीस्वरूपिण्यै नमः ।

ओं महापद्मवनान्तस्थायै नमः । ७२

ओं श्रीमत्त्रिपुरमालिन्यै नमः ।

ओं महात्रिपुरसिद्धाम्बायै नमः ।

ओं श्रीमहात्रिपुराम्बिकायै नमः ।

ओं नवचक्रक्रमादेव्यै नमः ।

ओं महात्रिपुरभैरव्यै नमः ।

ओं श्रीमात्रे नमः ।

ओं ललितायै नमः ।

ओं बालायै नमः ।

ओं राजराजेश्वर्यै नमः । ८१

ओं शिवायै नमः ।

ओं उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्यै नमः ।

ओं अर्धमेर्वात्मचक्रस्थायै नमः ।

ओं सर्वलोकमहेश्वर्यै नमः ।

ओं वल्मीकपुरमध्यस्थायै नमः ।

ओं जम्बूवननिवासिन्यै नमः ।

ओं अरुणाचलशृङ्गस्थायै नमः ।

ओं व्याघ्रालयनिवासिन्यै नमः ।

ओं श्रीकालहस्तिनिलयायै नमः । ९०

ओं काशीपुरनिवासिन्यै नमः ।

ओं श्रीमत्कैलासनिलयायै नमः ।

ओं द्वादशान्तमहेश्वर्यै नमः ।

ओं श्रीषोडशान्तमध्यस्थायै नमः ।

ओं सर्ववेदान्तलक्षितायै नमः ।

ओं श्रुतिस्मृतिपुराणेतिहासागमकलेश्वर्यै नमः ।

ओं भूतभौतिकतन्मात्रदेवताप्राणहृन्मय्यै नमः ।

ओं जीवेश्वरब्रह्मरूपायै नमः ।

ओं श्रीगुणाढ्यायै नमः । ९९

ओं गुणात्मिकायै नमः ।

ओं अवस्थात्रयनिर्मुक्तायै नमः ।

ओं वाग्रमोमामहीमय्यै नमः ।

ओं गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिण्यै नमः ।

ओं मत्स्यकूर्मवराहादिनानारूपविलासिन्यै नमः ।

ओं महायोगीश्वराराध्यायै नमः ।

ओं महावीरवरप्रदायै नमः ।

ओं सिद्धेश्वरकुलाराध्यायै नमः ।

ओं श्रीमच्चरणवैभवायै नमः । १०८

इति देवीवैभवाश्चर्याष्टोत्तरशतनामावली ।

devi vaibhava ashcharya ashtottara shatanamavali