Skip to main content
पडताळणी प्रलंबित

श्री रेणुका अष्टोत्तरशतनामावली

ओं जगदम्बायै नमः ।

ओं जगद्वन्द्यायै नमः ।

ओं महाशक्त्यै नमः ।

ओं महेश्वर्यै नमः ।

ओं महादेव्यै नमः ।

ओं महाकाल्यै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं सरस्वत्यै नमः ।

ओं महावीरायै नमः । ९

ओं महारात्र्यै नमः ।

ओं कालरात्र्यै नमः ।

ओं कालिकायै नमः ।

ओं सिद्धविद्यायै नमः ।

ओं राममातायै नमः ।

ओं शिवायै नमः ।

ओं शान्तायै नमः ।

ओं ऋषिप्रियायै नमः ।

ओं नारायण्यै नमः । १८

ओं जगन्मातायै नमः ।

ओं जगद्बीजायै नमः ।

ओं जगत्प्रभायै नमः ।

ओं चन्द्रिकायै नमः ।

ओं चन्द्रचूडायै नमः ।

ओं चन्द्रायुधधरायै नमः ।

ओं शुभायै नमः ।

ओं भ्रमराम्बायै नमः ।

ओं आनन्दायै नमः । २७

ओं रेणुकायै नमः ।

ओं मृत्युनाशिन्यै नमः ।

ओं दुर्गमायै नमः ।

ओं दुर्लभायै नमः ।

ओं गौर्यै नमः ।

ओं दुर्गायै नमः ।

ओं भर्गकुटुम्बिन्यै नमः ।

ओं कात्यायन्यै नमः ।

ओं महामातायै नमः । ३६

ओं रुद्राण्यै नमः ।

ओं अम्बिकायै नमः ।

ओं सत्यै नमः ।

ओं कल्पवृक्षायै नमः ।

ओं कामधेनवे नमः ।

ओं चिन्तामणिरूपधारिण्यै नमः ।

ओं सिद्धाचलवासिन्यै नमः ।

ओं सिद्धबृन्दसुशोभिन्यै नमः ।

ओं ज्वालामुख्यै नमः । ४५

ओं ज्वलत्कान्तायै नमः ।

ओं ज्वालायै नमः ।

ओं प्रज्वलरूपिण्यै नमः ।

ओं अजायै नमः ।

ओं पिनाकिन्यै नमः ।

ओं भद्रायै नमः ।

ओं विजयायै नमः ।

ओं विजयोत्सवायै नमः ।

ओं कुष्ठरोगहरायै नमः । ५४

ओं दीप्तायै नमः ।

ओं दुष्टासुरगर्वमर्दिन्यै नमः ।

ओं सिद्धिदायै नमः ।

ओं बुद्धिदायै नमः ।

ओं शुद्धायै नमः ।

ओं नित्यायै नमः ।

ओं अनित्यायै नमः ।

ओं तपःप्रियायै नमः ।

ओं निराधारायै नमः । ६३

ओं निराकारायै नमः ।

ओं निर्मायायै नमः ।

ओं शुभप्रदायै नमः ।

ओं अपर्णायै नमः ।

ओं अन्नपूर्णायै नमः ।

ओं पूर्णचन्द्रनिभाननायै नमः ।

ओं कृपाकरायै नमः ।

ओं खड्गहस्तायै नमः ।

ओं छिन्नहस्तायै नमः । ७२

ओं चिदम्बरायै नमः ।

ओं चामुण्ड्यै नमः ।

ओं चण्डिकायै नमः ।

ओं अनन्तायै नमः ।

ओं रत्नाभरणभूषितायै नमः ।

ओं विशालाक्ष्यै नमः ।

ओं कामाक्ष्यै नमः ।

ओं मीनाक्ष्यै नमः ।

ओं मोक्षदायिन्यै नमः । ८१

ओं सावित्र्यै नमः ।

ओं सौमित्र्यै नमः ।

ओं सुधायै नमः ।

ओं सद्भक्तरक्षिण्यै नमः ।

ओं शान्त्यै नमः ।

ओं शान्त्यतीतायै नमः ।

ओं शान्तातीततरायै नमः ।

ओं जमदग्नितमोहन्त्र्यै नमः ।

ओं धर्मदायै नमः । ९०

ओं अर्थदायै नमः ।

ओं कामदायै नमः ।

ओं मोक्षदायै नमः ।

ओं कामदायै नमः ।

ओं कामजनन्यै नमः ।

ओं मातृकायै नमः ।

ओं सूर्यकान्तिन्यै नमः ।

ओं मन्त्रसिद्ध्यै नमः ।

ओं महातेजायै नमः । ९९

ओं मातृमण्डलवल्लभायै नमः ।

ओं लोकप्रियायै नमः ।

ओं रेणुतनयायै नमः ।

ओं भवान्यै नमः ।

ओं रौद्ररूपिण्यै नमः ।

ओं तुष्टिदायै नमः ।

ओं पुष्टिदायै नमः ।

ओं शाम्भव्यै नमः ।

ओं सर्वमङ्गलायै नमः । १०८

sri renuka ashtottara shatanamavali