Skip to main content
पडताळणी प्रलंबित

श्री ताराम्बा अष्टोत्तरशतनामावली

ओं तारिण्यै नमः ।

ओं तरलायै नमः ।

ओं तन्व्यै नमः ।

ओं तारायै नमः ।

ओं तरुणवल्लर्यै नमः ।

ओं ताररूपायै नमः ।

ओं तर्यै नमः ।

ओं श्यामायै नमः ।

ओं तनुक्षीणपयोधरायै नमः । ९

ओं तुरीयायै नमः ।

ओं तरुणायै नमः ।

ओं तीव्रगमनायै नमः ।

ओं नीलवाहिन्यै नमः ।

ओं उग्रतारायै नमः ।

ओं जयायै नमः ।

ओं चण्ड्यै नमः ।

ओं श्रीमदेकजटाशिरायै नमः ।

ओं तरुण्यै नमः । १८

ओं शांभव्यै नमः ।

ओं छिन्नफालायै नमः ।

ओं भद्रदायिन्यै नमः ।

ओं उग्रायै नमः ।

ओं उग्रप्रभायै नमः ।

ओं नीलायै नमः ।

ओं कृष्णायै नमः ।

ओं नीलसरस्वत्यै नमः ।

ओं द्वितीयायै नमः । २७

ओं शोभनायै नमः ।

ओं नित्यायै नमः ।

ओं नवीनायै नमः ।

ओं नित्यभीषणायै नमः ।

ओं चण्डिकायै नमः ।

ओं विजयाराध्यायै नमः ।

ओं देव्यै नमः ।

ओं गगनवाहिन्यै नमः ।

ओं अट्टहासायै नमः । ३६

ओं करालास्यायै नमः ।

ओं चरास्यायै नमः ।

ओं ईशपूजितायै नमः ।

ओं सगुणायै नमः ।

ओं असगुणायै नमः ।

ओं आराध्यायै नमः ।

ओं हरीन्द्रादिप्रपूजितायै नमः ।

ओं रक्तप्रियायै नमः ।

ओं रक्ताक्ष्यै नमः । ४५

ओं रुधिरास्यविभूषितायै नमः ।

ओं बलिप्रियायै नमः ।

ओं बलिरतायै नमः ।

ओं दुर्गायै नमः ।

ओं बलवत्यै नमः ।

ओं बलायै नमः ।

ओं बलप्रियायै नमः ।

ओं बलरत्यै नमः ।

ओं बलरामप्रपूजितायै नमः । ५४

ओं अर्धकेशेश्वर्यै नमः ।

ओं केशायै नमः ।

ओं केशवायै नमः ।

ओं स्रग्विभूषितायै नमः ।

ओं पद्ममालायै नमः ।

ओं पद्माक्ष्यै नमः ।

ओं कामाख्यायै नमः ।

ओं गिरिनन्दिन्यै नमः ।

ओं दक्षिणायै नमः । ६३

ओं दक्षायै नमः ।

ओं दक्षजायै नमः ।

ओं दक्षिणेरतायै नमः ।

ओं वज्रपुष्पप्रियायै नमः ।

ओं रक्तप्रियायै नमः ।

ओं कुसुमभूषितायै नमः ।

ओं माहेश्वर्यै नमः ।

ओं महादेवप्रियायै नमः ।

ओं पन्नगभूषितायै नमः । ७२

ओं इडायै नमः ।

ओं पिङ्गलायै नमः ।

ओं सुषुम्नाप्राणरूपिण्यै नमः ।

ओं गान्धार्यै नमः ।

ओं पञ्चम्यै नमः ।

ओं पञ्चाननादिपरिपूजितायै नमः ।

ओं तथ्यविद्यायै नमः ।

ओं तथ्यरूपायै नमः ।

ओं तथ्यमार्गानुसारिण्यै नमः । ८१

ओं तत्त्वरूपायै नमः ।

ओं तत्त्वप्रियायै नमः ।

ओं तत्त्वज्ञानात्मिकायै नमः ।

ओं अनघायै नमः ।

ओं ताण्डवाचारसन्तुष्टायै नमः ।

ओं ताण्डवप्रियकारिण्यै नमः ।

ओं तालनादरतायै नमः ।

ओं क्रूरतापिन्यै नमः ।

ओं तरणिप्रभायै नमः । ९०

ओं त्रपायुक्तायै नमः ।

ओं त्रपामुक्तायै नमः ।

ओं तर्पितायै नमः ।

ओं तृप्तिकारिण्यै नमः ।

ओं तारुण्यभावसन्तुष्टायै नमः ।

ओं शक्तिभक्तानुरागिण्यै नमः ।

ओं शिवासक्तायै नमः ।

ओं शिवरत्यै नमः ।

ओं शिवभक्तिपरायणायै नमः । ९९

ओं ताम्रद्युत्यै नमः ।

ओं ताम्ररागायै नमः ।

ओं ताम्रपात्रप्रभोजिन्यै नमः ।

ओं बलभद्रप्रेमरतायै नमः ।

ओं बलिभुजे नमः ।

ओं बलिकल्पन्यै नमः ।

ओं रामप्रियायै नमः ।

ओं रामशक्त्यै नमः ।

ओं रामरूपानुकारिणी नमः । १०८

sri tara ashtottara shatanamavali