Skip to main content
पडताळणी प्रलंबित

श्री महावाराह्यष्टोत्तरशतनामावली

ओं वराहवदनायै नमः ।

ओं वाराह्यै नमः ।

ओं वररूपिण्यै नमः ।

ओं क्रोडाननायै नमः ।

ओं कोलमुख्यै नमः ।

ओं जगदम्बायै नमः ।

ओं तारुण्यै नमः ।

ओं विश्वेश्वर्यै नमः ।

ओं शङ्खिन्यै नमः । ९

ओं चक्रिण्यै नमः ।

ओं खड्गशूलगदाहस्तायै नमः ।

ओं मुसलधारिण्यै नमः ।

ओं हलसकादि समायुक्तायै नमः ।

ओं भक्तानां अभयप्रदायै नमः ।

ओं इष्टार्थदायिन्यै नमः ।

ओं घोरायै नमः ।

ओं महाघोरायै नमः ।

ओं महामायायै नमः । १८

ओं वार्ताल्यै नमः ।

ओं जगदीश्वर्यै नमः ।

ओं अन्धे अन्धिन्यै नमः ।

ओं रुन्धे रुन्धिन्यै नमः ।

ओं जम्भे जम्भिन्यै नमः ।

ओं मोहे मोहिन्यै नमः ।

ओं स्तम्भे स्तम्भिन्यै नमः ।

ओं देवेश्यै नमः ।

ओं शत्रुनाशिन्यै नमः । २७

ओं अष्टभुजायै नमः ।

ओं चतुर्हस्तायै नमः ।

ओं उन्मत्तभैरवाङ्कस्थायै नमः ।

ओं कपिललोचनायै नमः ।

ओं पञ्चम्यै नमः ।

ओं लोकेश्यै नमः ।

ओं नीलमणिप्रभायै नमः ।

ओं अञ्जनाद्रिप्रतीकाशायै नमः ।

ओं सिंहारुढायै नमः । ३६

ओं त्रिलोचनायै नमः ।

ओं श्यामलायै नमः ।

ओं परमायै नमः ।

ओं ईशान्यै नमः ।

ओं नीलायै नमः ।

ओं इन्दीवरसन्निभायै नमः ।

ओं घनस्तनसमोपेतायै नमः ।

ओं कपिलायै नमः ।

ओं कलात्मिकायै नमः । ४५

ओं अम्बिकायै नमः ।

ओं जगद्धारिण्यै नमः ।

ओं भक्तोपद्रवनाशिन्यै नमः ।

ओं सगुणायै नमः ।

ओं निष्कलायै नमः ।

ओं विद्यायै नमः ।

ओं नित्यायै नमः ।

ओं विश्ववशङ्कर्यै नमः ।

ओं महारूपायै नमः । ५४

ओं महेश्वर्यै नमः ।

ओं महेन्द्रितायै नमः ।

ओं विश्वव्यापिन्यै नमः ।

ओं देव्यै नमः ।

ओं पशूनां अभयङ्कर्यै नमः ।

ओं कालिकायै नमः ।

ओं भयदायै नमः ।

ओं बलिमांसमहाप्रियायै नमः ।

ओं जयभैरव्यै नमः । ६३

ओं कृष्णाङ्गायै नमः ।

ओं परमेश्वरवल्लभायै नमः ।

ओं सुधायै नमः ।

ओं स्तुत्यै नमः ।

ओं सुरेशान्यै नमः ।

ओं ब्रह्मादिवरदायिन्यै नमः ।

ओं स्वरूपिण्यै नमः ।

ओं सुराणां अभयप्रदायै नमः ।

ओं वराहदेहसम्भूतायै नमः । ७२

ओं श्रोणी वारालसे नमः ।

ओं क्रोधिन्यै नमः ।

ओं नीलास्यायै नमः ।

ओं शुभदायै नमः ।

ओं अशुभवारिण्यै नमः ।

ओं शत्रूणां वाक्‍स्तम्भनकारिण्यै नमः ।

ओं शत्रूणां गतिस्तम्भनकारिण्यै नमः ।

ओं शत्रूणां मतिस्तम्भनकारिण्यै नमः ।

ओं शत्रूणां अक्षिस्तम्भनकारिण्यै नमः । ८१

ओं शत्रूणां मुखस्तम्भिन्यै नमः ।

ओं शत्रूणां जिह्वास्तम्भिन्यै नमः ।

ओं शत्रूणां निग्रहकारिण्यै नमः ।

ओं शिष्टानुग्रहकारिण्यै नमः ।

ओं सर्वशत्रुक्षयङ्कर्यै नमः ।

ओं सर्वशत्रुसादनकारिण्यै नमः ।

ओं सर्वशत्रुविद्वेषणकारिण्यै नमः ।

ओं भैरवीप्रियायै नमः ।

ओं मन्त्रात्मिकायै नमः । ९०

ओं यन्त्ररूपायै नमः ।

ओं तन्त्ररूपिण्यै नमः ।

ओं पीठात्मिकायै नमः ।

ओं देवदेव्यै नमः ।

ओं श्रेयस्कर्यै नमः ।

ओं चिन्तितार्थप्रदायिन्यै नमः ।

ओं भक्तालक्ष्मीविनाशिन्यै नमः ।

ओं सम्पत्प्रदायै नमः ।

ओं सौख्यकारिण्यै नमः । ९९

ओं बाहुवाराह्यै नमः ।

ओं स्वप्नवाराह्यै नमः ।

ओं भगवत्यै नमः ।

ओं ईश्वर्यै नमः ।

ओं सर्वाराध्यायै नमः ।

ओं सर्वमयायै नमः ।

ओं सर्वलोकात्मिकायै नमः ।

ओं महिषासनायै नमः ।

ओं बृहद्वाराह्यै नमः । १०८

इति श्रीमहावाराह्यष्टोत्तरशतनामावली ।

sri varahi ashtottara shatanamavali