Skip to main content
पडताळणी प्रलंबित

श्री कालभैरव ककार अष्टोत्तरशतनामावली

॥ ह्रीं क्रीं हूं ह्रीम् ॥

ओं कालभैरवदेवाय नमः ।

ओं कालकालाय नमः ।

ओं कालदण्डधृजे नमः ।

ओं कालात्मने नमः ।

ओं काममन्त्रात्मने नमः ।

ओं काशिकापुरनायकाय नमः ।

ओं करुणावारिधये नमः ।

ओं कान्तामिलिताय नमः ।

ओं कालिकातनवे नमः । ९

ओं कालजाय नमः ।

ओं कुक्कुरारूढाय नमः ।

ओं कपालिने नमः ।

ओं कालनेमिघ्ने नमः ।

ओं कालकण्ठाय नमः ।

ओं कटाक्षानुगृहीताखिलसेवकाय नमः ।

ओं कपालखर्परोत्कृष्टभिक्षापात्रधराय नमः ।

ओं कवये नमः ।

ओं कल्पान्तदहनाकाराय नमः । १८

ओं कलानिधिकलाधराय नमः ।

ओं कपालमालिकाभूषाय नमः ।

ओं कालीकुलवरप्रदाय नमः ।

ओं कालीकलावतीदीक्षासंस्कारोपासनप्रियाय नमः ।

ओं कालिकादक्षपार्श्वस्थाय नमः ।

ओं कालीविद्यास्वरूपवते नमः ।

ओं कालीकूर्चसमायुक्तभुवनाकूटभासुराय नमः ।

ओं कालीध्यानजपासक्तहृदगारनिवासकाय नमः ।

ओं कालिकावरिवस्यादिप्रदानकल्पपादपाय नमः । २७

ओं काल्युग्रावासवब्राह्मीप्रमुखाचार्यनायकाय नमः ।

ओं कङ्कालमालिकाधारिणे नमः ।

ओं कमनीयजटाधराय नमः ।

ओं कोणरेखाष्टपत्रस्थप्रदेशबिन्दुपीठगाय नमः ।

ओं कदलीकरवीरार्ककञ्जहोमार्चनप्रियाय नमः ।

ओं कूर्मपीठादिशक्तीशाय नमः ।

ओं कलाकाष्ठादिपालकाय नमः ।

ओं कटप्रुवे नमः ।

ओं कामसञ्चारिणे नमः । ३६

ओं कामारये नमः ।

ओं कामरूपवते नमः ।

ओं कण्ठादिसर्वचक्रस्थाय नमः ।

ओं क्रियादिकोटिदीपकाय नमः ।

ओं कर्णहीनोपवीताभाय नमः ।

ओं कनकाचलदेहवते नमः ।

ओं कन्दराकारदहराकाशभासुरमूर्तिमते नमः ।

ओं कपालमोचनानन्दाय नमः ।

ओं कालराजाय नमः । ४५

ओं क्रियाप्रदाय नमः ।

ओं करणाधिपतये नमः ।

ओं कर्मकारकाय नमः ।

ओं कर्तृनायकाय नमः ।

ओं कण्ठाद्यखिलदेशाहिभूषणाढ्याय नमः ।

ओं कलात्मकाय नमः ।

ओं कर्मकाण्डाधिपाय नमः ।

ओं किल्बिषमोचिने नमः ।

ओं कामकोष्ठकाय नमः । ५४

ओं कलकण्ठारवानन्दिने नमः ।

ओं कर्मश्रद्धवरप्रदाय नमः ।

ओं कुणपाकीर्णकान्तारसञ्चारिणे नमः ।

ओं कौमुदीस्मिताय नमः ।

ओं किङ्किणीमञ्जुनिक्वाणकटीसूत्रविराजिताय नमः ।

ओं कल्याणकृत्कलिध्वंसिने नमः ।

ओं कर्मसाक्षिणे नमः ।

ओं कृतज्ञपाय नमः ।

ओं करालदंष्ट्राय नमः । ६३

ओं कन्दर्पदर्पघ्नाय नमः ।

ओं कामभेदनाय नमः ।

ओं कालागुरुविलिप्ताङ्गाय नमः ।

ओं कातरार्ताभयप्रदाय नमः ।

ओं कलन्दिकाप्रदाय नमः ।

ओं कालीभक्तलोकवरप्रदाय नमः ।

ओं कामिनीकाञ्चनाबद्धमोचकाय नमः ।

ओं कमलेक्षणाय नमः ।

ओं कादम्बरीरसास्वादलोलुपाय नमः । ७२

ओं काङ्क्षितार्थदाय नमः ।

ओं कबन्धनावाय नमः ।

ओं कामाख्याकाञ्च्यादिक्षेत्रपालकाय नमः ।

ओं कैवल्यप्रदमन्दाराय नमः ।

ओं कोटिसूर्यसमप्रभाय नमः ।

ओं क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनाय नमः ।

ओं काम्यादिकर्मसर्वस्वफलदाय नमः ।

ओं कर्मपोषकाय नमः ।

ओं कार्यकारणनिर्मात्रे नमः । ८१

ओं कारागृहविमोचकाय नमः ।

ओं कालपर्यायमूलस्थाय नमः ।

ओं कार्यसिद्धिप्रदायकाय नमः ।

ओं कालानुरूपकर्माङ्गमोषणभ्रान्तिनाशनाय नमः ।

ओं कालचक्रप्रभेदिने नमः ।

ओं कालिम्मन्ययोगिनीप्रियाय नमः ।

ओं काहलादिमहावाद्यतालतांडवलालसाय नमः ।

ओं कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकाय नमः ।

ओं कालरात्रिमहारात्रिशिवारात्र्यादिकारकाय नमः । ९०

ओं कोलाहलध्वनये नमः ।

ओं कोपिने नमः ।

ओं कौलमार्गप्रवर्तकाय नमः ।

ओं कर्मकौशल्यसन्तोषिणे नमः ।

ओं केलिभाषणलालसाय नमः ।

ओं कृत्स्नप्रवृत्तिविश्वाण्डपञ्चकृत्यविधायकाय नमः ।

ओं कालनाथपराय नमः ।

ओं काराय नमः ।

ओं कालधर्मप्रवर्तकाय नमः । ९९

ओं कुलाचार्याय नमः ।

ओं कुलाचाररताय नमः ।

ओं कुह्वष्टमीप्रियाय नमः ।

ओं कर्मबन्धाखिलच्छेदिने नमः ।

ओं कोष्ठस्थभैरवाग्रण्ये नमः ।

ओं कठोरौजस्यभीष्माज्ञापालकिङ्करसेविताय नमः ।

ओं कालरुद्राय नमः ।

ओं कालवेलाहोरांशमूर्तिमते नमः ।

ओं कराय नमः । १०८

इति श्री कालभैरव ककार अष्टोत्तरशतनामावली ॥

sri kalabhairava kakara ashtottara shatanamavali