Skip to main content
पडताळणी प्रलंबित

श्री वल्ली अष्टोत्तरशतनामावली (पाठान्तरम्)

ध्यानम् ।

श्यामां पङ्कजधारिणीं मणिलसत्ताटङ्ककर्णोज्ज्वलां

दक्षे लम्बकरां किरीटमकुटां तुङ्गस्तनोर्कञ्चुकाम् ।

अन्योन्यक्षणसम्युतां शरवणोद्भूतस्य सव्ये स्थितां

गुञ्जामाल्यधरां प्रवालवसनां वल्लीश्वरीं भावये ॥

ओं महावल्ल्यै नमः ।

ओं श्यामतनवे नमः ।

ओं सर्वाभरणभूषितायै नमः ।

ओं पीताम्बरधरायै नमः ।

ओं दिव्याम्बुजधारिण्यै नमः ।

ओं दिव्यगन्धानुलिप्तायै नमः ।

ओं ब्राह्म्यै नमः ।

ओं कराल्यै नमः ।

ओं उज्ज्वलनेत्रायै नमः । ९

ओं प्रलम्बताटङ्क्यै नमः ।

ओं महेन्द्रतनयानुगायै नमः ।

ओं शुभरूपायै नमः ।

ओं शुभकरायै नमः ।

ओं शुभङ्कर्यै नमः ।

ओं सव्ये लम्बकरायै नमः ।

ओं मूलप्रकृत्यै नमः ।

ओं प्रत्युष्टायै नमः ।

ओं महेश्वर्यै नमः । १८

ओं तुङ्गस्तन्यै नमः ।

ओं सुकञ्चुकायै नमः ।

ओं सुवेषाड्यायै नमः ।

ओं सद्गुणायै नमः ।

ओं गुञ्जामाल्यधरायै नमः ।

ओं वैष्णव्यै नमः ।

ओं मोहिन्यै नमः ।

ओं मोहनायै नमः ।

ओं स्तम्भिन्यै नमः । २७

ओं त्रिभङ्गिन्यै नमः ।

ओं प्रवालधरायै नमः ।

ओं मनोन्मन्यै नमः ।

ओं चामुण्डायै नमः ।

ओं चण्डिकायै नमः ।

ओं स्कन्दभार्यायै नमः ।

ओं स्कन्दप्रियायै नमः ।

ओं सुप्रसन्नायै नमः ।

ओं सुलोचनायै नमः । ३६

ओं ऐश्वर्यप्रदायिन्यै नमः ।

ओं मङ्गलप्रदायिन्ये नमः ।

ओं अष्टसिद्धिदायै नमः ।

ओं अष्टैश्वर्यप्रदायिन्यै नमः ।

ओं महामायायै नमः ।

ओं मन्त्रयन्त्रतन्त्रात्मिकायै नमः ।

ओं महाकल्पायै नमः ।

ओं तेजोवत्यै नमः ।

ओं परमेष्ठिन्यै नमः । ४५

ओं गुहदेवतायै नमः ।

ओं कलाधरायै नमः ।

ओं ब्रह्मण्यै नमः ।

ओं बृहत्यै नमः ।

ओं द्विनेत्रायै नमः ।

ओं द्विभुजायै नमः ।

ओं सिद्धसेवितायै नमः ।

ओं अक्षरायै नमः ।

ओं अक्षररूपायै नमः । ५४

ओं अज्ञानदीपिकायै नमः ।

ओं अभीष्टसिद्धिप्रदायिन्यै नमः ।

ओं साम्राज्यायै नमः ।

ओं साम्राज्यदायिन्यै नमः ।

ओं सद्योजातायै नमः ।

ओं सुधासागरायै नमः ।

ओं काञ्चनायै नमः ।

ओं काञ्चनप्रदायै नमः ।

ओं वनमालिन्ये नमः । ६३

ओं सुधासागरमध्यस्थायै नमः ।

ओं हेमाम्बरधारिण्यै नमः ।

ओं हेमकञ्चुकभूषणायै नमः ।

ओं वनवासिन्यै नमः ।

ओं मल्लिकाकुसुमप्रियायै नमः ।

ओं मनोवेगायै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं महादेव्यै नमः ।

ओं महालोकायै नमः । ७२

ओं सर्वाध्यक्षायै नमः ।

ओं सुराध्यक्षायै नमः ।

ओं सुन्दर्यै नमः ।

ओं सुवेषाढ्यायै नमः ।

ओं वरलक्ष्म्यै नमः ।

ओं विदुत्तमायै नमः ।

ओं सरस्वत्यै नमः ।

ओं कुमार्यै नमः ।

ओं भद्रकाल्यै नमः । ८१

ओं दुर्गमायै नमः ।

ओं दुर्गायै नमः ।

ओं इन्द्राण्यै नमः ।

ओं साक्षिण्यै नमः ।

ओं साक्षिवर्जितायै नमः ।

ओं पुराण्यै नमः ।

ओं पुण्यकीर्त्यै नमः ।

ओं पुण्यरूपायै नमः ।

ओं पूर्णायै नमः । ९०

ओं पूर्णभोगिन्यै नमः ।

ओं पुष्कलायै नमः ।

ओं सर्वतोमुख्यै नमः ।

ओं परायै शक्त्यै नमः ।

ओं परायै निष्ठायै नमः ।

ओं मूलदीपिकायै नमः ।

ओं योगिन्यै नमः ।

ओं योगदायै नमः ।

ओं बिन्दुस्वरूपिण्यै नमः । ९९

ओं पापनाशिन्यै नमः ।

ओं ईश्वर्यै नमः ।

ओं लोकसाक्षिण्यै नमः ।

ओं घोषिण्यै नमः ।

ओं पद्मवासिन्यै नमः ।

ओं पद्माक्ष्यै नमः ।

ओं गुणत्रयायै नमः ।

ओं षट्कोणचक्रवासिन्यै नमः ।

ओं शरणागत रक्षणायै नमः । १०८

इति श्री वल्ल्यष्टोत्तरशतनामावली ।

sri valli ashtottara shatanamavali variation