Skip to main content
पडताळणी प्रलंबित

श्री बाला त्रिशती नामावली

ओं ऐङ्काररूपायै नमः ।

ओं ऐङ्कार निलयायै नमः ।

ओं ऐम्पदप्रियायै नमः ।

ओं ऐङ्काररूपिण्यै नमः ।

ओं ऐङ्कारवरवर्णिन्यै नमः ।

ओं ऐङ्कारबीजसर्वस्वायै नमः ।

ओं ऐङ्काराकारशोभितायै नमः ।

ओं ऐङ्कारवरदानाढ्यायै नमः ।

ओं ऐङ्कारवररूपिण्यै नमः ।

ओं ऐङ्कारब्रह्मविद्यायै नमः ।

ओं ऐङ्कारप्रचुरेश्वर्यै नमः ।

ओं ऐङ्कारजपसन्तुष्टायै नमः ।

ओं ऐङ्कारामृतसुन्दर्यै नमः ।

ओं ऐङ्कारकमलासीनायै नमः ।

ओं ऐङ्कारगुणरूपिण्यै नमः ।

ओं ऐङ्कारब्रह्मसदनायै नमः ।

ओं ऐङ्कारप्रकटेश्वर्यै नमः ।

ओं ऐङ्कारशक्तिवरदायै नमः ।

ओं ऐङ्काराप्लुतवैभवायै नमः ।

ओं ऐङ्कारामितसम्पन्नायै नमः । २०

ओं ऐङ्काराच्युतरूपिण्यै नमः ।

ओं ऐङ्कारजपसुप्रीतायै नमः ।

ओं ऐङ्कारप्रभवायै नमः ।

ओं ऐङ्कारविश्वजनन्यै नमः ।

ओं ऐङ्कारब्रह्मवन्दितायै नमः ।

ओं ऐङ्कारवेद्यायै नमः ।

ओं ऐङ्कारपूज्यायै नमः ।

ओं ऐङ्कारपीठिकायै नमः ।

ओं ऐङ्कारवाच्यायै नमः ।

ओं ऐङ्कारचिन्त्यायै नमः ।

ओं ऐं ऐं शरीरिण्यै नमः ।

ओं ऐङ्कारामृतरूपायै नमः ।

ओं ऐङ्कारविजयेश्वर्यै नमः ।

ओं ऐङ्कारभार्गवीविद्यायै नमः ।

ओं ऐङ्कारजपवैभवायै नमः ।

ओं ऐङ्कारगुणरूपायै नमः ।

ओं ऐङ्कारप्रियरूपिण्यै नमः ।

ओं क्लीङ्काररूपायै नमः ।

ओं क्लीङ्कार निलयायै नमः ।

ओं क्लीम्पदप्रियायै नमः । ४०

ओं क्लीङ्कारकीर्तिचिद्रूपायै नमः ।

ओं क्लीङ्कारकीर्तिदायिन्यै नमः ।

ओं क्लीङ्कारकिन्नरीपूज्यायै नमः ।

ओं क्लीङ्कारकिंशुकप्रियायै नमः ।

ओं क्लीङ्कारकिल्बिषहर्यै नमः ।

ओं क्लीङ्कारविश्वरूपिण्यै नमः ।

ओं क्लीङ्कारवशिन्यै नमः ।

ओं क्लीङ्कारानङ्गरूपिण्यै नमः ।

ओं क्लीङ्कारवदनायै नमः ।

ओं क्लीङ्काराखिलवश्यदायै नमः ।

ओं क्लीङ्कारमोदिन्यै नमः ।

ओं क्लीङ्कारहरवन्दितायै नमः ।

ओं क्लीङ्कारशम्बररिपवे नमः ।

ओं क्लीङ्कारकीर्तिदायै नमः ।

ओं क्लीङ्कारमन्मथसख्यै नमः ।

ओं क्लीङ्कारवंशवर्धिन्यै नमः ।

ओं क्लीङ्कारपुष्टिदायै नमः ।

ओं क्लीङ्कारकुधरप्रियायै नमः ।

ओं क्लीङ्कारकृष्णसम्पूज्यायै नमः ।

ओं क्लीं क्लीं किञ्जल्कसन्निभायै नमः । ६०

ओं क्लीङ्कारवशगायै नमः ।

ओं क्लीङ्कारनिखिलेश्वर्यै नमः ।

ओं क्लीङ्कारधारिण्यै नमः ।

ओं क्लीङ्कारब्रह्मपूजितायै नमः ।

ओं क्लीङ्कारालापवदनायै नमः ।

ओं क्लीङ्कारनूपुरप्रियायै नमः ।

ओं क्लीङ्कारभवनान्तस्थायै नमः ।

ओं क्लीं क्लीं कालस्वरूपिण्यै नमः ।

ओं क्लीङ्कारसौधमध्यस्थायै नमः ।

ओं क्लीङ्कारकृत्तिवासिन्यै नमः ।

ओं क्लीङ्कारचक्रनिलयायै नमः ।

ओं क्लीं क्लीं किम्पुरुषार्चितायै नमः ।

ओं क्लीङ्कारकमलासीनायै नमः ।

ओं क्लीं क्लीं गन्धर्वपूजितायै नमः ।

ओं क्लीङ्कारवासिन्यै नमः ।

ओं क्लीङ्कारक्रुद्धनाशिन्यै नमः ।

ओं क्लीङ्कारतिलकामोदायै नमः ।

ओं क्लीङ्कारक्रीडसम्भ्रमायै नमः ।

ओं क्लीङ्कारविश्वसृष्ट्यम्बायै नमः ।

ओं क्लीङ्कारविश्वमालिन्यै नमः । ८०

ओं क्लीङ्कारकृत्स्नसम्पूर्णायै नमः ।

ओं क्लीं क्लीं कृपीटवासिन्यै नमः ।

ओं क्लीं मायाक्रीडविद्वेष्यै नमः ।

ओं क्लीं क्लीङ्कारकृपानिध्यै नमः ।

ओं क्लीङ्कारविश्वायै नमः ।

ओं क्लीङ्कारविश्वसम्भ्रमकारिण्यै नमः ।

ओं क्लीङ्कारविश्वरूपायै नमः ।

ओं क्लीङ्कारविश्वमोहिन्यै नमः ।

ओं क्लीं मायाकृत्तिमदनायै नमः ।

ओं क्लीं क्लीं वंशविवर्धिन्यै नमः ।

ओं क्लीङ्कारसुन्दरीरूपायै नमः ।

ओं क्लीङ्कारहरिपूजितायै नमः ।

ओं क्लीङ्कारगुणरूपायै नमः ।

ओं क्लीङ्कारकमलप्रियायै नमः ।

ओं सौःकाररूपायै नमः ।

ओं सौःकार निलयायै नमः ।

ओं सौःपदप्रियायै नमः ।

ओं सौःकार सारसदनायै नमः ।

ओं सौःकार सत्यवादिन्यै नमः ।

ओं सौःप्रासादसमासीनायै नमः । १००

ओं सौःकार साधनप्रियायै नमः ।

ओं सौःकार कल्पलतिकायै नमः ।

ओं सौःकार भक्ततोषिण्यै नमः ।

ओं सौःकार सौभरीपूज्यायै नमः ।

ओं सौःकार प्रियसाधिन्यै नमः ।

ओं सौःकार परमाशक्त्यै नमः ।

ओं सौःकार रत्नदायिन्यै नमः ।

ओं सौःकार सौम्यसुभगायै नमः ।

ओं सौःकार वरदायिन्यै नमः ।

ओं सौःकार सुभगानन्दायै नमः ।

ओं सौःकार भगपूजितायै नमः ।

ओं सौःकार सम्भवायै नमः ।

ओं सौःकार निखिलेश्वर्यै नमः ।

ओं सौःकार विश्वायै नमः ।

ओं सौःकार विश्वसम्भ्रमकारिण्यै नमः ।

ओं सौःकार विभवानन्दायै नमः ।

ओं सौःकार विभवप्रदायै नमः ।

ओं सौःकार सम्पदाधारायै नमः ।

ओं सौः सौः सौभाग्यवर्धिन्यै नमः ।

ओं सौःकार सत्त्वसम्पन्नायै नमः । १२०

ओं सौःकार सर्ववन्दितायै नमः ।

ओं सौःकार सर्ववरदायै नमः ।

ओं सौःकार सनकार्चितायै नमः ।

ओं सौःकार कौतुकप्रीतायै नमः ।

ओं सौःकार मोहनाकृत्यै नमः ।

ओं सौःकार सच्चिदानन्दायै नमः ।

ओं सौःकार रिपुनाशिन्यै नमः ।

ओं सौःकार सान्द्रहृदयायै नमः ।

ओं सौःकार ब्रह्मपूजितायै नमः ।

ओं सौःकार वेद्यायै नमः ।

ओं सौःकार साधकाभीष्टदायिन्यै नमः ।

ओं सौःकार साध्यसम्पूज्यायै नमः ।

ओं सौःकार सुरपूजितायै नमः ।

ओं सौःकार सकलाकारायै नमः ।

ओं सौःकार हरिपूजितायै नमः ।

ओं सौःकार मातृचिद्रूपायै नमः ।

ओं सौःकार पापनाशिन्यै नमः ।

ओं सौःकार युगलाकारायै नमः ।

ओं सौःकार सूर्यवन्दितायै नमः ।

ओं सौःकार सेव्यायै नमः । १४०

ओं सौःकार मानसार्चितपादुकायै नमः ।

ओं सौःकार वश्यायै नमः ।

ओं सौःकार सखीजनवरार्चितायै नमः ।

ओं सौःकार सम्प्रदायज्ञायै नमः ।

ओं सौः सौः बीजस्वरूपिण्यै नमः ।

ओं सौःकार सम्पदाधारायै नमः ।

ओं सौःकार सुखरूपिण्यै नमः ।

ओं सौःकार सर्वचैतन्यायै नमः ।

ओं सौः सर्वापद्विनाशिन्यै नमः ।

ओं सौःकार सौख्यनिलयायै नमः ।

ओं सौःकार सकलेश्वर्यै नमः ।

ओं सौःकार रूपकल्याण्यै नमः ।

ओं सौःकार बीजवासिन्यै नमः ।

ओं सौःकार विद्रुमाराध्यायै नमः ।

ओं सौः सौः सद्भिर्निषेवितायै नमः ।

ओं सौःकार रससल्लापायै नमः ।

ओं सौः सौः सौरमण्डलगायै नमः ।

ओं सौःकार रससम्पूर्णायै नमः ।

ओं सौःकार सिन्धुरूपिण्यै नमः ।

ओं सौःकार पीठनिलयायै नमः । १६०

ओं सौःकार सगुणेश्वर्यै नमः ।

ओं सौः सौः पराशक्त्यै नमः ।

ओं सौः सौः साम्राज्यविजयप्रदायै नमः ।

ओं ऐं क्लीं सौः बीजनिलयायै नमः ।

ओं ऐं क्लीं सौः पदभूषितायै नमः ।

ओं ऐं क्लीं सौः ऐन्द्रभवनायै नमः ।

ओं ऐं क्लीं सौः सफलात्मिकायै नमः ।

ओं ऐं क्लीं सौः संसारान्तस्थायै नमः ।

ओं ऐं क्लीं सौः योगिनीप्रियायै नमः ।

ओं ऐं क्लीं सौः ब्रह्मपूज्यायै नमः ।

ओं ऐं क्लीं सौः हरिवन्दितायै नमः ।

ओं ऐं क्लीं सौः शान्तनिर्मुक्तायै नमः ।

ओं ऐं क्लीं सौः वश्यमार्गगायै नमः ।

ओं ऐं क्लीं सौः कुलकुम्भस्थायै नमः ।

ओं ऐं क्लीं सौः पटुपञ्चम्यै नमः ।

ओं ऐं क्लीं सौः पैलवंशस्थायै नमः ।

ओं ऐं क्लीं सौः कल्पकासनायै नमः ।

ओं ऐं क्लीं सौः चित्प्रभायै नमः ।

ओं ऐं क्लीं सौः चिन्तितार्थदायै नमः ।

ओं ऐं क्लीं सौः कुरुकुल्लाम्बायै नमः । १८०

ओं ऐं क्लीं सौः धर्मचारिण्यै नमः ।

ओं ऐं क्लीं सौः कुणपाराध्यायै नमः ।

ओं ऐं क्लीं सौः सौम्यसुन्दर्यै नमः ।

ओं ऐं क्लीं सौः षोडशकलायै नमः ।

ओं ऐं क्लीं सौः सुकुमारिण्यै नमः ।

ओं ऐं क्लीं सौः मन्त्रमहिष्यै नमः ।

ओं ऐं क्लीं सौः मन्त्रमन्दिरायै नमः ।

ओं ऐं क्लीं सौः मानुषाराध्यायै नमः ।

ओं ऐं क्लीं सौः मागधेश्वर्यै नमः ।

ओं ऐं क्लीं सौः मौनिवरदायै नमः ।

ओं ऐं क्लीं सौः मञ्जुभाषिण्यै नमः ।

ओं ऐं क्लीं सौः मधुराराध्यायै नमः ।

ओं ऐं क्लीं सौः शोणितप्रियायै नमः ।

ओं ऐं क्लीं सौः मङ्गलाकारायै नमः ।

ओं ऐं क्लीं सौः मदनावत्यै नमः ।

ओं ऐं क्लीं सौः साध्यगमितायै नमः ।

ओं ऐं क्लीं सौः मानसार्चितायै नमः ।

ओं ऐं क्लीं सौः राज्यरसिकायै नमः ।

ओं ऐं क्लीं सौः रामपूजितायै नमः ।

ओं ऐं क्लीं सौः रात्रिज्योत्स्नायै नमः । २००

ओं ऐं क्लीं सौः रात्रिलालिन्यै नमः ।

ओं ऐं क्लीं सौः रथमध्यस्थायै नमः ।

ओं ऐं क्लीं सौः रम्यविग्रहायै नमः ।

ओं ऐं क्लीं सौः पूर्वपुण्येशायै नमः ।

ओं ऐं क्लीं सौः पृथुकप्रियायै नमः ।

ओं ऐं क्लीं सौः वटुकाराध्यायै नमः ।

ओं ऐं क्लीं सौः वटवासिन्यै नमः ।

ओं ऐं क्लीं सौः वरदानाढ्यायै नमः ।

ओं ऐं क्लीं सौः वज्रवल्लक्यै नमः ।

ओं ऐं क्लीं सौः नारदनतायै नमः ।

ओं ऐं क्लीं सौः नन्दिपूजितायै नमः ।

ओं ऐं क्लीं सौः उत्पलाङ्ग्यै नमः ।

ओं ऐं क्लीं सौः उद्भवेश्वर्यै नमः ।

ओं ऐं क्लीं सौः नागगमनायै नमः ।

ओं ऐं क्लीं सौः नामरूपिण्यै नमः ।

ओं ऐं क्लीं सौः सत्यसङ्कल्पायै नमः ।

ओं ऐं क्लीं सौः सोमभूषणायै नमः ।

ओं ऐं क्लीं सौः योगपूज्यायै नमः ।

ओं ऐं क्लीं सौः योगगोचरायै नमः ।

ओं ऐं क्लीं सौः योगिवन्द्यायै नमः । २२०

ओं ऐं क्लीं सौः योगिपूजितायै नमः ।

ओं ऐं क्लीं सौः ब्रह्मगायत्र्यै नमः ।

ओं ऐं क्लीं सौः ब्रह्मवन्दितायै नमः ।

ओं ऐं क्लीं सौः रत्नभवनायै नमः ।

ओं ऐं क्लीं सौः रुद्रपूजितायै नमः ।

ओं ऐं क्लीं सौः चित्रवदनायै नमः ।

ओं ऐं क्लीं सौः चारुहासिन्यै नमः ।

ओं ऐं क्लीं सौः चिन्तिताकारायै नमः ।

ओं ऐं क्लीं सौः चिन्तितार्थदायै नमः ।

ओं ऐं क्लीं सौः वैश्वदेवेश्यै नमः ।

ओं ऐं क्लीं सौः विश्वनायिकायै नमः ।

ओं ऐं क्लीं सौः ओघवन्द्यायै नमः ।

ओं ऐं क्लीं सौः ओघरूपिण्यै नमः ।

ओं ऐं क्लीं सौः दण्डिनीपूज्यायै नमः ।

ओं ऐं क्लीं सौः दुरतिक्रमायै नमः ।

ओं ऐं क्लीं सौः मन्त्रिणीसेव्यायै नमः ।

ओं ऐं क्लीं सौः मानवर्धिन्यै नमः ।

ओं ऐं क्लीं सौः वाणीवन्द्यायै नमः ।

ओं ऐं क्लीं सौः वागधीश्वर्यै नमः ।

ओं ऐं क्लीं सौः वाममार्गस्थायै नमः । २४०

ओं ऐं क्लीं सौः वारुणीप्रियायै नमः ।

ओं ऐं क्लीं सौः लोकसौन्दर्यायै नमः ।

ओं ऐं क्लीं सौः लोकनायिकायै नमः ।

ओं ऐं क्लीं सौः हंसगमनायै नमः ।

ओं ऐं क्लीं सौः हंसपूजितायै नमः ।

ओं ऐं क्लीं सौः मदिरामोदायै नमः ।

ओं ऐं क्लीं सौः महदर्चितायै नमः ।

ओं ऐं क्लीं सौः ज्ञानगम्यायै नमः ।

ओं ऐं क्लीं सौः ज्ञानवर्धिन्यै नमः ।

ओं ऐं क्लीं सौः धनधान्याढ्यायै नमः ।

ओं ऐं क्लीं सौः धैर्यदायिन्यै नमः ।

ओं ऐं क्लीं सौः साध्यवरदायै नमः ।

ओं ऐं क्लीं सौः साधुवन्दितायै नमः ।

ओं ऐं क्लीं सौः विजयप्रख्यायै नमः ।

ओं ऐं क्लीं सौः विजयप्रदायै नमः ।

ओं ऐं क्लीं सौः वीरसंसेव्यायै नमः ।

ओं ऐं क्लीं सौः वीरपूजितायै नमः ।

ओं ऐं क्लीं सौः वीरमात्रे नमः ।

ओं ऐं क्लीं सौः वीरसन्नुतायै नमः ।

ओं ऐं क्लीं सौः सच्चिदानन्दायै नमः । २६०

ओं ऐं क्लीं सौः सद्गतिप्रदायै नमः ।

ओं ऐं क्लीं सौः भण्डपुत्रघ्न्यै नमः ।

ओं ऐं क्लीं सौः दैत्यमर्दिन्यै नमः ।

ओं ऐं क्लीं सौः भण्डदर्पघ्न्यै नमः ।

ओं ऐं क्लीं सौः भण्डनाशिन्यै नमः ।

ओं ऐं क्लीं सौः शरभदमनायै नमः ।

ओं ऐं क्लीं सौः शत्रुमर्दिन्यै नमः ।

ओं ऐं क्लीं सौः सत्यसन्तुष्टायै नमः ।

ओं ऐं क्लीं सौः सर्वसाक्षिण्यै नमः ।

ओं ऐं क्लीं सौः सम्प्रदायज्ञायै नमः ।

ओं ऐं क्लीं सौः सकलेष्टदायै नमः ।

ओं ऐं क्लीं सौः सज्जननुतायै नमः ।

ओं ऐं क्लीं सौः हतदानवायै नमः ।

ओं ऐं क्लीं सौः विश्वजनन्यै नमः ।

ओं ऐं क्लीं सौः विश्वमोहिन्यै नमः ।

ओं ऐं क्लीं सौः सर्वदेवेश्यै नमः ।

ओं ऐं क्लीं सौः सर्वमङ्गलायै नमः ।

ओं ऐं क्लीं सौः मारमन्त्रस्थायै नमः ।

ओं ऐं क्लीं सौः मदनार्चितायै नमः ।

ओं ऐं क्लीं सौः मदघूर्णाङ्ग्यै नमः । २८०

ओं ऐं क्लीं सौः कामपूजितायै नमः ।

ओं ऐं क्लीं सौः मन्त्रकोशस्थायै नमः ।

ओं ऐं क्लीं सौः मन्त्रपीठगायै नमः ।

ओं ऐं क्लीं सौः मणिदामाढ्यायै नमः ।

ओं ऐं क्लीं सौः कुलसुन्दर्यै नमः ।

ओं ऐं क्लीं सौः मातृमध्यस्थायै नमः ।

ओं ऐं क्लीं सौः मोक्षदायिन्यै नमः ।

ओं ऐं क्लीं सौः मीननयनायै नमः ।

ओं ऐं क्लीं सौः दमनपूजितायै नमः ।

ओं ऐं क्लीं सौः कालिकाराध्यायै नमः ।

ओं ऐं क्लीं सौः कौलिकप्रियायै नमः ।

ओं ऐं क्लीं सौः मोहनाकारायै नमः ।

ओं ऐं क्लीं सौः सर्वमोहिन्यै नमः ।

ओं ऐं क्लीं सौः त्रिपुरादेव्यै नमः ।

ओं ऐं क्लीं सौः त्रिपुरेश्वर्यै नमः ।

ओं ऐं क्लीं सौः देशिकाराध्यायै नमः ।

ओं ऐं क्लीं सौः देशिकप्रियायै नमः ।

ओं ऐं क्लीं सौः मातृचक्रेश्यै नमः ।

ओं ऐं क्लीं सौः वर्णरूपिण्यै नमः ।

ओं ऐं क्लीं सौः त्रिबीजात्मक बालात्रिपुरसुन्दर्यै नमः । ३००

इति श्री बाला त्रिशती नामावली ।

sri bala trishati namavali