Skip to main content
पडताळणी प्रलंबित

श्री श्यामलाष्टोत्तरशतनामावली २

ओं जगद्धात्र्यै नमः ।

ओं मातङ्गीश्वर्यै नमः ।

ओं श्यामलायै नमः ।

ओं जगदीशानायै नमः ।

ओं परमेश्वर्यै नमः ।

ओं महाकृष्णायै नमः ।

ओं सर्वभूषणसम्युतायै नमः ।

ओं महादेव्यै नमः ।

ओं महेशान्यै नमः । ९

ओं महादेवप्रियायै नमः ।

ओं आदिशक्त्यै नमः ।

ओं महाशक्त्यै नमः ।

ओं पराशक्त्यै नमः ।

ओं परात्परायै नमः ।

ओं ब्रह्मशक्त्यै नमः ।

ओं विष्णुशक्त्यै नमः ।

ओं शिवशक्त्यै नमः ।

ओं अमृतेश्वरी देव्यै नमः । १८

ओं परशिवप्रियायै नमः ।

ओं ब्रह्मरूपायै नमः ।

ओं विष्णुरूपायै नमः ।

ओं शिवरूपायै नमः ।

ओं नॄणां सर्वकामप्रदायै नमः ।

ओं नॄणां सर्वसिद्धिप्रदायै नमः ।

ओं नॄणां सर्वसम्पत्प्रदायै नमः ।

ओं सर्वराजसुशङ्कर्यै नमः ।

ओं स्त्रीवशङ्कर्यै नमः । २७

ओं नरवशङ्कर्यै नमः ।

ओं देवमोहिन्यै नमः ।

ओं सर्वसत्त्ववशङ्कर्यै नमः ।

ओं शाङ्कर्यै नमः ।

ओं वाग्देव्यै नमः ।

ओं सर्वलोकवशङ्कर्यै नमः ।

ओं सर्वाभीष्टप्रदायै नमः ।

ओं मातङ्गकन्यकायै नमः ।

ओं नीलोत्पलप्रख्यायै नमः । ३६

ओं मरकतप्रभायै नमः ।

ओं नीलमेघप्रतीकाशायै नमः ।

ओं इन्द्रनीलसमप्रभायै नमः ।

ओं चण्ड्यादिदेवेश्यै नमः ।

ओं दिव्यनारीवशङ्कर्यै नमः ।

ओं मातृसंस्तुत्यायै नमः ।

ओं जयायै नमः ।

ओं विजयायै नमः ।

ओं भूषिताङ्ग्यै नमः । ४५

ओं महाश्यामायै नमः ।

ओं महारामायै नमः ।

ओं महाप्रभायै नमः ।

ओं महाविष्णुप्रियकर्यै नमः ।

ओं सदाशिवमहाप्रियायै नमः ।

ओं रुद्राण्यै नमः ।

ओं सर्वपापघ्न्यै नमः ।

ओं कामेश्वर्यै नमः ।

ओं शुकश्यामायै नमः । ५४

ओं लघुश्यामायै नमः ।

ओं राजवश्यकर्यै नमः ।

ओं वीणाहस्तायै नमः ।

ओं सदा गीतरतायै नमः ।

ओं सर्वविद्याप्रदायै नमः ।

ओं शक्त्यादिपूजितायै नमः ।

ओं वेदगीतायै नमः ।

ओं देवगीतायै नमः ।

ओं शङ्खकुण्डलसम्युक्तायै नमः । ६३

ओं बिम्बोष्ठ्यै नमः ।

ओं रक्तवस्त्रपरीधानायै नमः ।

ओं गृहीतमधुपात्रकायै नमः ।

ओं मधुप्रियायै नमः ।

ओं मधुमांसबलिप्रियायै नमः ।

ओं रक्ताक्ष्यै नमः ।

ओं घार्णमानाक्ष्यै नमः ।

ओं स्मितेन्दुमुख्यै नमः ।

ओं संस्तुतायै नमः । ७२

ओं कस्तूरीतिलकोपेतायै नमः ।

ओं चन्द्रशीर्षायै नमः ।

ओं जगन्मयायै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं कदम्बवनसंस्थितायै नमः ।

ओं महाविद्यायै नमः ।

ओं स्तनभारविराजितायै नमः ।

ओं हरहर्यादिसंस्तुत्यायै नमः ।

ओं स्मितास्यायै नमः । ८१

ओं पुंसां कल्याणदायै नमः ।

ओं कल्याण्यै नमः ।

ओं कमलालयायै नमः ।

ओं महादारिद्र्यसंहर्त्र्यै नमः ।

ओं महापातकदाहिन्यै नमः ।

ओं नॄणां महाज्ञानप्रदायै नमः ।

ओं महासौन्दर्यदायै नमः ।

ओं महामुक्तिप्रदायै नमः ।

ओं वाण्यै नमः । ९०

ओं परस्मै ज्योतिस्वरूपिण्यै नमः ।

ओं चिदानन्दात्मिकायै नमः ।

ओं अलक्ष्मीविनाशिन्यै नमः ।

ओं नित्यं भक्ताऽभयप्रदायै नमः ।

ओं आपन्नाशिन्यै नमः ।

ओं सहस्राक्ष्यै नमः ।

ओं सहस्रभुजधारिण्यै नमः ।

ओं मह्याः शुभप्रदायै नमः ।

ओं भक्तानां मङ्गलप्रदायै नमः । ९९

ओं अशुभसंहर्त्र्यै नमः ।

ओं भक्ताष्टैश्वर्यदायै नमः ।

ओं देव्यै नमः ।

ओं मुखरञ्जिन्यै नमः ।

ओं जगन्मात्रे नमः ।

ओं सर्वनायिकायै नमः ।

ओं परापरकलायै नमः ।

ओं परमात्मप्रियायै नमः ।

ओं राजमातङ्ग्यै नमः । १०८

इति श्री श्यामलाष्टोत्तरशतनामावली ।

sri shyamala ashtottara shatanamavali 2