Skip to main content
पडताळणी प्रलंबित

देवी खड्गमाला नामावली

ओं त्रिपुरसुन्दर्यै नमः ।

ओं हृदयदेव्यै नमः ।

ओं शिरोदेव्यै नमः ।

ओं शिखादेव्यै नमः ।

ओं कवचदेव्यै नमः ।

ओं नेत्रदेव्यै नमः ।

ओं अस्त्रदेव्यै नमः ।

ओं कामेश्वर्यै नमः ।

ओं भगमालिन्यै नमः ।

ओं नित्यक्लिन्नायै नमः ।

ओं भेरुण्डायै नमः ।

ओं वह्निवासिन्यै नमः ।

ओं महावज्रेश्वर्यै नमः ।

ओं शिवदूत्यै नमः ।

ओं त्वरितायै नमः ।

ओं कुलसुन्दर्यै नमः ।

ओं नित्यायै नमः ।

ओं नीलपताकायै नमः ।

ओं विजयायै नमः ।

ओं सर्वमङ्गलायै नमः । २०

ओं ज्वालामालिन्यै नमः ।

ओं चित्रायै नमः ।

ओं महानित्यायै नमः ।

ओं परमेश्वरपरमेश्वर्यै नमः ।

ओं मित्रीशमय्यै नमः ।

ओं षष्ठीशमय्यै नमः ।

ओं उड्डीशमय्यै नमः ।

ओं चर्यानाथमय्यै नमः ।

ओं लोपामुद्रामय्यै नमः ।

ओं अगस्त्यमय्यै नमः ।

ओं कालतापनमय्यै नमः ।

ओं धर्माचार्यमय्यै नमः ।

ओं मुक्तकेशीश्वरमय्यै नमः ।

ओं दीपकलानाथमय्यै नमः ।

ओं विष्णुदेवमय्यै नमः ।

ओं प्रभाकरदेवमय्यै नमः ।

ओं तेजोदेवमय्यै नमः ।

ओं मनोजदेवमय्यै नमः ।

ओं कल्याणदेवमय्यै नमः ।

ओं रत्नदेवमय्यै नमः । ४०

ओं वासुदेवमय्यै नमः ।

ओं श्रीरामानन्दमय्यै नमः ।

ओं अणिमासिद्ध्यै नमः ।

ओं लघिमासिद्ध्यै नमः ।

ओं महिमासिद्ध्यै नमः ।

ओं ईशित्वसिद्ध्यै नमः ।

ओं वशित्वसिद्ध्यै नमः ।

ओं प्राकाम्यसिद्ध्यै नमः ।

ओं भुक्तिसिद्ध्यै नमः ।

ओं इच्छासिद्ध्यै नमः ।

ओं प्राप्तिसिद्ध्यै नमः ।

ओं सर्वकामसिद्ध्यै नमः ।

ओं ब्राह्म्यै नमः ।

ओं माहेश्वर्यै नमः ।

ओं कौमार्यै नमः ।

ओं वैष्णव्यै नमः ।

ओं वाराह्यै नमः ।

ओं माहेन्द्र्यै नमः ।

ओं चामुण्डायै नमः ।

ओं महालक्ष्म्यै नमः । ६०

ओं सर्वसङ्क्षोभिण्यै नमः ।

ओं सर्वविद्राविण्यै नमः ।

ओं सर्वाकर्षिण्यै नमः ।

ओं सर्ववशङ्कर्यै नमः ।

ओं सर्वोन्मादिन्यै नमः ।

ओं सर्वमहाङ्कुशायै नमः ।

ओं सर्वखेचर्यै नमः ।

ओं सर्वबीजायै नमः ।

ओं सर्वयोन्यै नमः ।

ओं सर्वत्रिखण्डायै नमः ।

ओं त्रैलोक्यमोहनचक्रस्वामिन्यै नमः ।

ओं प्रकटयोगिन्यै नमः ।

ओं कामाकर्षिण्यै नमः ।

ओं बुद्ध्याकर्षिण्यै नमः ।

ओं अहङ्काराकर्षिण्यै नमः ।

ओं शब्दाकर्षिण्यै नमः ।

ओं स्पर्शाकर्षिण्यै नमः ।

ओं रूपाकर्षिण्यै नमः ।

ओं रसाकर्षिण्यै नमः ।

ओं गन्धाकर्षिण्यै नमः । ८०

ओं चित्ताकर्षिण्यै नमः ।

ओं धैर्याकर्षिण्यै नमः ।

ओं स्मृत्याकर्षिण्यै नमः ।

ओं नामाकर्षिण्यै नमः ।

ओं बीजाकर्षिण्यै नमः ।

ओं आत्माकर्षिण्यै नमः ।

ओं अमृताकर्षिण्यै नमः ।

ओं शरीराकर्षिण्यै नमः ।

ओं सर्वाशापरिपूरकचक्रस्वामिन्यै नमः ।

ओं गुप्तयोगिन्यै नमः ।

ओं अनङ्गकुसुमायै नमः ।

ओं अनङ्गमेखलायै नमः ।

ओं अनङ्गमदनायै नमः ।

ओं अनङ्गमदनातुरायै नमः ।

ओं अनङ्गरेखायै नमः ।

ओं अनङ्गवेगिन्यै नमः ।

ओं अनङ्गाङ्कुशायै नमः ।

ओं अनङ्गमालिन्यै नमः ।

ओं सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः ।

ओं गुप्ततरयोगिन्यै नमः । १००

ओं सर्वसङ्क्षोभिण्यै नमः ।

ओं सर्वविद्राविण्यै नमः ।

ओं सर्वाकर्षिण्यै नमः ।

ओं सर्वाह्लादिन्यै नमः ।

ओं सर्वसम्मोहिन्यै नमः ।

ओं सर्वस्तम्भिन्यै नमः ।

ओं सर्वजृम्भिण्यै नमः ।

ओं सर्ववशङ्कर्यै नमः ।

ओं सर्वरञ्जिन्यै नमः ।

ओं सर्वोन्मादिन्यै नमः ।

ओं सर्वार्थसाधिन्यै नमः ।

ओं सर्वसम्पत्तिपूरण्यै नमः ।

ओं सर्वमन्त्रमय्यै नमः ।

ओं सर्वद्वन्द्वक्षयङ्कर्यै नमः ।

ओं सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः ।

ओं सम्प्रदाययोगिन्यै नमः ।

ओं सर्वसिद्धिप्रदायै नमः ।

ओं सर्वसम्पत्प्रदायै नमः ।

ओं सर्वप्रियङ्कर्यै नमः ।

ओं सर्वमङ्गलकारिण्यै नमः । १२०

ओं सर्वकामप्रदायै नमः ।

ओं सर्वदुःखविमोचिन्यै नमः ।

ओं सर्वमृत्युप्रशमन्यै नमः ।

ओं सर्वविघ्ननिवारिण्यै नमः ।

ओं सर्वाङ्गसुन्दर्यै नमः ।

ओं सर्वसौभाग्यदायिन्यै नमः ।

ओं सर्वार्थसाधकचक्रस्वामिन्यै नमः ।

ओं कुलोत्तीर्णयोगिन्यै नमः ।

ओं सर्वज्ञायै नमः ।

ओं सर्वशक्त्यै नमः ।

ओं सर्वैश्वर्यप्रदायिन्यै नमः ।

ओं सर्वज्ञानमय्यै नमः ।

ओं सर्वव्याधिविनाशिन्यै नमः ।

ओं सर्वाधारस्वरूपायै नमः ।

ओं सर्वपापहरायै नमः ।

ओं सर्वानन्दमय्यै नमः ।

ओं सर्वरक्षास्वरूपिण्यै नमः ।

ओं सर्वेप्सितफलप्रदायै नमः ।

ओं सर्वरक्षाकरचक्रस्वामिन्यै नमः ।

ओं निगर्भयोगिन्यै नमः । १४०

ओं वशिन्यै नमः ।

ओं कामेश्वर्यै नमः ।

ओं मोदिन्यै नमः ।

ओं विमलायै नमः ।

ओं अरुणायै नमः ।

ओं जयिन्यै नमः ।

ओं सर्वेश्वर्यै नमः ।

ओं कौलिन्यै नमः ।

ओं सर्वरोगहरचक्रस्वामिन्यै नमः ।

ओं रहस्ययोगिन्यै नमः ।

ओं बाणिन्यै नमः ।

ओं चापिन्यै नमः ।

ओं पाशिन्यै नमः ।

ओं अङ्कुशिन्यै नमः ।

ओं महाकामेश्वर्यै नमः ।

ओं महावज्रेश्वर्यै नमः ।

ओं महाभगमालिन्यै नमः ।

ओं सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः ।

ओं अतिरहस्ययोगिन्यै नमः ।

ओं श्रीश्रीमहाभट्‍टारिकायै नमः । १६०

ओं सर्वानन्दमयचक्रस्वामिन्यै नमः ।

ओं परापररहस्ययोगिन्यै नमः ।

ओं त्रिपुरायै नमः ।

ओं त्रिपुरेश्यै नमः ।

ओं त्रिपुरसुन्दर्यै नमः ।

ओं त्रिपुरवासिन्यै नमः ।

ओं त्रिपुराश्रियै नमः ।

ओं त्रिपुरमालिन्यै नमः ।

ओं त्रिपुरासिद्धायै नमः ।

ओं त्रिपुराम्बायै नमः ।

ओं महात्रिपुरसुन्दर्यै नमः ।

ओं महामहेश्वर्यै नमः ।

ओं महामहाराज्ञ्यै नमः ।

ओं महामहाशक्त्यै नमः ।

ओं महामहागुप्तायै नमः ।

ओं महामहाज्ञप्तायै नमः ।

ओं महामहानन्दायै नमः ।

ओं महामहास्पन्दायै नमः ।

ओं महामहाशयायै नमः ।

ओं महामहाश्रीचक्रनगरसाम्राज्ञ्यै नमः । १८०

इति देवी खड्गमाला नामावली ।

sri devi khadgamala namavali