Skip to main content
पडताळणी प्रलंबित

श्री मङ्गलगौरी अष्टोत्तरशतनामावलिः

ओं गौर्यै नमः ।

ओं गणेशजनन्यै नमः ।

ओं गिरिराजतनूद्भवायै नमः ।

ओं गुहाम्बिकायै नमः ।

ओं जगन्मात्रे नमः ।

ओं गङ्गाधरकुटुम्बिन्यै नमः ।

ओं वीरभद्रप्रसुवे नमः ।

ओं विश्वव्यापिन्यै नमः ।

ओं विश्वरूपिण्यै नमः ।

ओं अष्टमूर्त्यात्मिकायै नमः । १०

ओं कष्टदारिद्य्रशमन्यै नमः ।

ओं शिवायै नमः ।

ओं शाम्भव्यै नमः ।

ओं शाङ्कर्यै नमः ।

ओं बालायै नमः ।

ओं भवान्यै नमः ।

ओं भद्रदायिन्यै नमः ।

ओं माङ्गल्यदायिन्यै नमः ।

ओं सर्वमङ्गलायै नमः ।

ओं मञ्जुभाषिण्यै नमः । २०

ओं महेश्वर्यै नमः ।

ओं महामायायै नमः ।

ओं मन्त्राराध्यायै नमः ।

ओं महाबलायै नमः ।

ओं हेमाद्रिजायै नमः ।

ओं हेमवत्यै नमः ।

ओं पार्वत्यै नमः ।

ओं पापनाशिन्यै नमः ।

ओं नारायणाम्शजायै नमः ।

ओं नित्यायै नमः । ३०

ओं निरीशायै नमः ।

ओं निर्मलायै नमः ।

ओं अम्बिकायै नमः ।

ओं मृडान्यै नमः ।

ओं मुनिसंसेव्यायै नमः ।

ओं मानिन्यै नमः ।

ओं मेनकात्मजायै नमः ।

ओं कुमार्यै नमः ।

ओं कन्यकायै नमः ।

ओं दुर्गायै नमः । ४०

ओं कलिदोषनिषूदिन्यै नमः ।

ओं कात्यायिन्यै नमः ।

ओं कृपापूर्णायै नमः ।

ओं कल्याण्यै नमः ।

ओं कमलार्चितायै नमः ।

ओं सत्यै नमः ।

ओं सर्वमय्यै नमः ।

ओं सौभाग्यदायै नमः ।

ओं सरस्वत्यै नमः ।

ओं अमलायै नमः । ५०

ओं अमरसंसेव्यायै नमः ।

ओं अन्नपूर्णायै नमः ।

ओं अमृतेश्वर्यै नमः ।

ओं अखिलागमसंस्तुत्यायै नमः ।

ओं सुखसच्चित्सुधारसायै नमः ।

ओं बाल्याराधितभूतेशायै नमः ।

ओं भानुकोटिसमद्युतये नमः ।

ओं हिरण्मय्यै नमः ।

ओं परायै नमः ।

ओं सूक्ष्मायै नमः । ६०

ओं शीताम्शुकृतशेखरायै नमः ।

ओं हरिद्राकुङ्कुमाराध्यायै नमः ।

ओं सर्वकालसुमङ्गल्यै नमः ।

ओं सर्वभोगप्रदायै नमः ।

ओं सामशिखायै नमः ।

ओं वेदान्तलक्षणायै नमः ।

ओं कर्मब्रह्ममय्यै नमः ।

ओं कामकलनायै नमः ।

ओं काङ्क्षितार्थदायै नमः ।

ओं चन्द्रार्कायितताटङ्कायै नमः । ७०

ओं चिदम्बरशरीरिण्यै नमः ।

ओं श्रीचक्रवासिन्यै नमः ।

ओं देव्यै नमः ।

ओं कामेश्वरपत्न्यै नमः ।

ओं कमलायै नमः ।

ओं मारारातिप्रियार्धाङ्ग्यै नमः ।

ओं मार्कण्डेयवरप्रदायै नमः ।

ओं पुत्रपौत्रवरप्रदायै नमः ।

ओं पुण्यायै नमः ।

ओं पुरुषार्थप्रदायिन्यै नमः । ८०

ओं सत्यधर्मरतायै नमः ।

ओं सर्वसाक्षिण्यै नमः ।

ओं शशाङ्करूपिण्यै नमः ।

ओं श्यामलायै नमः ।

ओं बगलायै नमः ।

ओं चण्डायै नमः ।

ओं मातृकायै नमः ।

ओं भगमालिन्यै नमः ।

ओं शूलिन्यै नमः ।

ओं विरजायै नमः । ९०

ओं स्वाहायै नमः ।

ओं स्वधायै नमः ।

ओं प्रत्यङ्गिराम्बिकायै नमः ।

ओं आर्यायै नमः ।

ओं दाक्षायिण्यै नमः ।

ओं दीक्षायै नमः ।

ओं सर्ववस्तूत्तमोत्तमायै नमः ।

ओं शिवाभिधानायै नमः ।

ओं श्रीविद्यायै नमः ।

ओं प्रणवार्थस्वरूपिण्यै नमः । १००

ओं ह्रीङ्कार्यै नमः ।

ओं नादरूपिण्यै नमः ।

ओं त्रिपुरायै नमः ।

ओं त्रिगुणायै नमः ।

ओं ईश्वर्यै नमः ।

ओं सुन्दर्यै नमः ।

ओं स्वर्णगौर्यै नमः ।

ओं षोडशाक्षरदेवतायै नमः । १०८

sri mangala gauri ashtottara shatanamavali