Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य षडक्षराष्टोत्तरशतनामावली

ओं शरण्याय नमः ।

ओं शर्वतनयाय नमः ।

ओं शर्वाणीप्रियनन्दनाय नमः ।

ओं शरकाननसम्भूताय नमः ।

ओं शर्वरीशमुखाय नमः ।

ओं शमाय नमः ।

ओं शङ्कराय नमः ।

ओं शरणत्रात्रे नमः ।

ओं शशाङ्कमुकुटोज्ज्वलाय नमः । ९

ओं शर्मदाय नमः ।

ओं शङ्खकण्ठाय नमः ।

ओं शरकार्मुकहेतिभृते नमः ।

ओं शक्तिधारिणे नमः ।

ओं शक्तिकराय नमः ।

ओं शतकोट्यर्कपाटलाय नमः ।

ओं शमदाय नमः ।

ओं शतरुद्रस्थाय नमः ।

ओं शतमन्मथविग्रहाय नमः । १८

ओं रणाग्रण्ये नमः ।

ओं रक्षणकृते नमः ।

ओं रक्षोबलविमर्दनाय नमः ।

ओं रहस्यज्ञाय नमः ।

ओं रतिकराय नमः ।

ओं रक्तचन्दनलेपनाय नमः ।

ओं रत्नधारिणे नमः ।

ओं रत्नभूषाय नमः ।

ओं रत्नकुण्डलमण्डिताय नमः । २७

ओं रक्ताम्बराय नमः ।

ओं रम्यमुखाय नमः ।

ओं रविचन्द्राग्निलोचनाय नमः ।

ओं रमाकलत्रजामात्रे नमः ।

ओं रहस्याय नमः ।

ओं रघुपूजिताय नमः ।

ओं रसकोणान्तरालस्थाय नमः ।

ओं रजोमूर्तये नमः ।

ओं रतिप्रदाय नमः । ३६

ओं वसुदाय नमः ।

ओं वटुरूपाय नमः ।

ओं वसन्तऋतुपूजिताय नमः ।

ओं वलवैरिसुतानाथाय नमः ।

ओं वनजाक्षाय नमः ।

ओं वराकृतये नमः ।

ओं वक्रतुण्डानुजाय नमः ।

ओं वत्साय नमः ।

ओं वरदाभयहस्तकाय नमः । ४५

ओं वत्सलाय नमः ।

ओं वर्षकाराय नमः ।

ओं वसिष्ठादिप्रपूजिताय नमः ।

ओं वणिग्रूपाय नमः ।

ओं वरेण्याय नमः ।

ओं वर्णाश्रमविधायकाय नमः ।

ओं वरदाय नमः ।

ओं वज्रभृद्वन्द्याय नमः ।

ओं वन्दारुजनवत्सलाय नमः । ५४

ओं नकाररूपाय नमः ।

ओं नलिनाय नमः ।

ओं नकारयुतमन्त्रकाय नमः ।

ओं नकारवर्णनिलयाय नमः ।

ओं नन्दनाय नमः ।

ओं नन्दिवन्दिताय नमः ।

ओं नटेशपुत्राय नमः ।

ओं नम्रभ्रुवे नमः ।

ओं नक्षत्रग्रहनायकाय नमः । ६३

ओं नगाग्रनिलयाय नमः ।

ओं नम्याय नमः ।

ओं नमद्भक्तफलप्रदाय नमः ।

ओं नवनागाय नमः ।

ओं नगहराय नमः ।

ओं नवग्रहसुवन्दिताय नमः ।

ओं नववीराग्रजाय नमः ।

ओं नव्याय नमः ।

ओं नमस्कारस्तुतिप्रियाय नमः । ७२

ओं भद्रप्रदाय नमः ।

ओं भगवते नमः ।

ओं भवारण्यदवानलाय नमः ।

ओं भवोद्भवाय नमः ।

ओं भद्रमूर्तये नमः ।

ओं भर्त्सितासुरमण्डलाय नमः ।

ओं भयापहाय नमः ।

ओं भर्गरूपाय नमः ।

ओं भक्ताभीष्टफलप्रदाय नमः । ८१

ओं भक्तिगम्याय नमः ।

ओं भक्तनिधये नमः ।

ओं भयक्लेशविमोचनाय नमः ।

ओं भरतागमसुप्रीताय नमः ।

ओं भक्ताय नमः ।

ओं भक्तार्तिभञ्जनाय नमः ।

ओं भयकृते नमः ।

ओं भरताराध्याय नमः ।

ओं भरद्वाजऋषिस्तुताय नमः । ९०

ओं वरुणाय नमः ।

ओं वरुणाराध्याय नमः ।

ओं वलारातिमुखस्तुताय नमः ।

ओं वज्रशक्त्यायुधोपेताय नमः ।

ओं वराय नमः ।

ओं वक्षःस्थलोज्ज्वलाय नमः ।

ओं वस्तुरूपाय नमः ।

ओं वशिध्येयाय नमः ।

ओं वलित्रयविराजिताय नमः । ९९

ओं वक्रालकाय नमः ।

ओं वलयधृते नमः ।

ओं वलत्पीताम्बरोज्ज्वलाय नमः ।

ओं वचोरूपाय नमः ।

ओं वचनदाय नमः ।

ओं वचोऽतीतचरित्रकाय नमः ।

ओं वरदाय नमः ।

ओं वश्यफलदाय नमः ।

ओं वल्लीदेवीमनोहराय नमः । १०८

इति श्रीसुब्रह्मण्य षडक्षराष्टोत्तरशतनामावली ।

subrahmanya shadakshara ashtottara shatanamavali