Skip to main content

श्री याज्ञवल्क्य सहस्रनामावली

ओं सदानन्दाय नमः । ओं सुनन्दापुत्राय नमः । ओं अश्वत्थमूलवासिने नमः । ओं अयातयामाम्नायतत्पराय नमः । ओं अयातयामोपनिषद्वाक्यनिधये नमः । ओं अष्टाशीतिमुनिगणपरिवेष्ठिताय नमः । ओं अमृतमूर्तये नमः । ओं अमूर्ताय नमः । ओं अधिकसुन्दरतनवे नमः । ओं अनघाय नमः । ओं अघसंहारिणे नमः । ओं अभिनवसुन्दराय नमः । ओं अमिततेजसे नमः । ओं अविमुक्तक्षेत्रमहिमावर्णयित्रे नमः । ओं अष्टाक्षरीमहामन्त्रसिद्धाय नमः । ओं अष्टादशाक्षरीमहामन्त्राधिष्टात्रे नमः । ओं अजातशत्रोरध्वर्यवे नमः । ओं अणिमादिगुणयुक्ताय नमः । ओं अष्टबाहुसमन्विताय नमः । ओं अहमेवसानन्देतिवादिने नमः । २०

ओं अष्टैश्वर्यसम्पन्नाय नमः । ओं अष्टाङ्गयोगसमन्विताय नमः । ओं अत्यग्निष्टोम दीक्षिताय नमः । ओं अकर्तृत्वाय नमः । ओं अर्कवागर्चनप्रियाय नमः । ओं अर्कपुष्पप्रियाय नमः । ओं अङ्कुरिताश्वशाला स्तम्भाय नमः । ओं अतिच्छन्दादि स्वरूपोपदेशाय नमः । ओं अर्कसम्प्राप्त वैभवाय नमः । ओं अलघुविक्रमाय नमः । ओं अयातयामाम्नायसारज्ञाय नमः । ओं अत्रेःतारकप्रदात्रे नमः । ओं अष्टादशपरिशिष्टप्रकाशनाय नमः । ओं अन्वर्थाचार्यसञ्ज्ञाय नमः । ओं अक्लेशिताय नमः । ओं अकामस्वरूपाय नमः । ओं अष्टाविंशतिवेदव्यासवेदिने नमः । ओं अनल्पतेजसे नमः । ओं अहिर्बुध्नसंहितायां-चक्रराजार्चनविधानदक्षकाय नमः । ओं अथ ब्राह्मणेति मुख्यब्राह्मण्यव्युत्पाकाय नमः । ४०

ओं अधिकगुरुभक्तियुक्ताय नमः । ओं अलम्बुद्धिमते नमः । ओं अनुच्छिष्टयजुःप्रकाशाय नमः । ओं असाध्यकार्यसाधकाय नमः । ओं अनन्यसाधारणशक्तये नमः । ओं अयातयामयजुःपारङ्गताय नमः । ओं अदैत्यस्पर्शवेदोद्धारकृते नमः । ओं अगीर्णाम्नायविदे नमः । ओं अध्वर्युसत्तमाय नमः । ओं अव्ययाजाक्षयक्लेभ्ये इत्यादिप्रश्नार्थवित्तमाय नमः । ओं अधकामायमानेति मोक्षस्वरूपप्रदर्शकाय नमः । ओं अव्याकृताकाशः सूत्राधिष्टानमितिप्रतिवक्त्रे नमः । ओं अखण्डज्ञानिने नमः । ओं अन्येतित्तिरयोभूत्वा इत्यादिप्राप्तयशसे नमः । ओं अयातयामंशुक्लं चेत्यत्रसम्भूतकीर्तये नमः । ओं अथमण्डलमित्यत्र यशोमण्डलमण्डिताय नमः । ओं अज्ञशिक्षणाय नमः । ओं अमृतत्वस्यतुनानोस्ति वित्तेनेत्युपद्रेष्टे नमः । ओं अथर्वशिरसिप्रोक्तमहिम्ने नमः । ओं अरिषड्वर्गजेत्रे नमः । ६०

ओं अनुग्रहसमर्थाय नमः । ओं अनुक्त्वाविप्रियं किञ्चिदाचार्यमतमास्थिताय नमः । ओं अयातयामयजुषा प्रसिद्ध्यर्थावतीर्णाय नमः । ओं अतोवेदः प्रमाणंवहत्यादिनियमस्थिताय नमः । ओं अनन्तरूपधृते नमः । ओं अक्षरब्रह्मनेनिरुपाधिकात्मस्वरूपविवेचकाय नमः । ओं अनशनव्रतिने नमः । ओं अद्भुतमहिम्ने नमः । ओं अपरोक्षज्ञानिने नमः । ओं अज्ञानकण्टकाय नमः । ओं अवतारपुरुषाय नमः । ओं अध्यक्ष[ं]वरायामसीत्वादि-महत्यसम्युताय नमः । ओं अश्वमेधपर्वोक्तमहिम्ने नमः । ओं अमानुषचरित्राध्याय नमः । ओं अप्रमाणद्वेषिणे नमः । ओं अङ्गोपाङ्गप्रत्यङ्गविदे नमः । ओं अज्ञानतमोनाशकाय नमः । ओं अदितिदौहित्रेय नमः । ओं अहल्लिकेतिशाकल्यसम्बोधयित्रे नमः । ओं अवधूताश्रमविधिबोधकाय नमः । ८०

ओं अगाधमहिम्ने नमः । ओं अन्नम्ब्रह्मेत्वादितत्त्वविदे नमः । ओं अहङ्कारमादिकेत्यादिलब्दकीर्तये नमः । ओं अनेकगुरुसेविने नमः । ओं अनेकमुनिवन्दिताय नमः । ओं अघसंहर्त्रे नमः । ओं अयोनिजगुरवे नमः । ओं अग्रसन्यासिने नमः । ओं अग्रपूज्याय नमः । ओं अत्रायमित्यात्मनः-स्वयञ्ज्योतिष्यप्रसिद्धिप्रदर्शकाय नमः । ओं आदित्यावताराय नमः । ओं आत्मनोअन्यस्यार्तत्वप्रकाशाय नमः । ओं आदित्यपुराणोक्तमहिम्ने नमः । ओं आनन्दपुरवासिने नमः । ओं आर्तभागजैत्रे नमः । ओं आञ्जनेयसतीर्थ्याय नमः । ओं आत्मानन्दैकनिष्ठाय नमः । ओं अश्वलायनजामात्रे नमः । ओं आदिशक्तिमन्त्रोपदेष्ट्रे नमः । ओं आद्यमावास्यानुष्ठानतत्पराय नमः । १००

ओं आदित्याभिमुखस्नानकारिणे नमः । ओं आदिमैथिलगुरवे नमः । ओं आदिजनकपूजिताय नमः । ओं आदिविष्णोरवतारभूताय नमः । ओं आत्मनस्तुकामायेतिस्वात्मनः-परमप्रेमास्पदत्वनिर्धारयित्रे नमः । ओं आप्तकामस्वरूपज्ञाय नमः । ओं आत्मकामस्वरूपविज्ञाय नमः । ओं आवर्तानदीतीरसप्ततन्तुस्थितायै नमः । ओं आदित्यहयग्रीवावतार-प्रसादान्विताय नमः । ओं आदिवेदार्थकोविदाय नमः । ओं आदित्यसमविक्रमाय नमः । ओं आदित्यमहिमानन्दमग्नमानसाय नमः । ओं अरुण्यन्तेवासिने नमः । ओं आत्मज्योतिर्दम्ष्ट्रान्ततयादित्यादि-वागन्तज्योतिरुपन्यासकाय नमः । ओं अरुणजैत्रे नमः । ओं आचार्यकोपभीताय नमः । ओं आदित्यान्तेवासिने नमः । ओं अध्वर्यवरप्रदानाय नमः । ओं आचार्याज्ञानुसारिणे नमः । ओं आचार्याभीष्टदायकाय नमः । १२०

ओं आचार्यभक्तिमते नमः । ओं आचार्यमतपालकाय नमः । ओं आचार्यदोषहन्त्रे नमः । ओं आदिशाखाविभागिने नमः । ओं आदिवेदप्रवर्तकाय नमः । ओं आदिशाखाप्रभावज्ञाय नमः । ओं अध्वर्यवङ्क्वचिद्धौत्र-मित्यात्राख्यातशक्तिमते नमः । ओं अदर्वणऋषिज्ञाताय नमः । ओं अदौकोवेदेत्यत्रप्रख्यात-गुणजाताय नमः । ओं आनन्दमीमांसयाब्रह्मानन्दस्य-निरतिशयत्वनिरूपकाय नमः । ओं आदिनारायणक्षात्राय नमः । ओं आदिविष्ण्वोप्ततेजसे नमः । ओं आदिविष्णुप्राप्तमन्त्राय नमः । ओं आदिविष्ण्वाप्ततत्त्वविदे नमः । ओं आदिविष्णुदत्तनामाङ्किताय नमः । ओं आदिविष्णुशिष्याय नमः । ओं आदिसन्यासिने नमः । ओं आदिमध्यान्तकालपूजिताय नमः । ओं आत्मसन्यासिने नमः । ओं आपस्तम्भमुनेःतैत्तिरीयत्वदायकाय नमः । १४०

ओं इन्द्रसभासदे नमः । ओं इदंसर्वम्यदयमात्मेतेकविज्ञानेन-सर्वविज्ञानप्रतिज्ञात्रे नमः । ओं इतिनुकामयमानेति-संसारस्वरूपप्रदर्शकाय नमः । ओं इन्द्रादित्यवसुरुद्रादिभागिने नमः । ओं इमादेवेत्यादिमन्त्रार्थविदे नमः । ओं इक्ष्वाकुपूजिताय नमः । ओं इदंममेतिसंसारबन्ध-प्रयोजकोपाधिप्रदर्शकाय नमः । ओं ईशावास्यरहस्यविदे नमः । ओं उद्दालकान्तेवासिने नमः । ओं उदितार्कसमप्रभाय नमः । ओं उत्तिष्ठशाकल्येतिवादिने नमः । ओं उषस्तुऋषिजैत्रे नमः । ओं उद्दालकऋषिजैत्रे नमः । ओं उदङ्कऋषिजैत्रे नमः । ओं उमामहेश्वरस्वरूपय नमः । ओं उद्दामवैभवाय नमः । ओं उदयाचलतपःकर्त्रे नमः । ओं उपनिषद्वेद्याय नमः । ओं ऊर्ध्वरेतसे नमः । ओं ऊर्ध्वलोकप्रसिद्धाय नमः । १६०

ओं ऋग्वेदप्रसिद्धाय नमः । ओं ऋग्वेदशाखाध्येत्रे नमः । ओं ऋष्यष्टसहस्रविदितवैभवाय नमः । [वेदित] ओं ऋग्यजुस्सामतत्त्वज्ञाय नमः । ओं ऋषिसङ्घप्रपूजिताय नमः । ओं ऋषयस्त्वेकतस्सर्वेत्यत्रोक्तपराक्रमाय नमः । ओं ऋषिरूपसूर्याय नमः । ओं ऋषिसङ्घसमावृताय नमः । ओं ऋषिमण्डलगुरवे नमः । ओं एकायनशाखाभर्त्रे नमः । ओं एकर्षिशाखावलम्बिने नमः । ओं एकवीराय नमः । ओं एकासीद्यजुर्वेदस्तमित्यादिरहस्यविदे नमः । ओं ऐश्वर्यसम्पन्नाय नमः । ओं ऐहिकामुष्मिकश्रेयःप्रदात्रे नमः । ओं ओङ्कारस्वरूपाय नमः । ओं ओङ्काराक्षरानुसन्धाय नमः । ओं ओङ्कारमन्त्रतत्त्वज्ञाय नमः । ओं ओं खं ब्रह्मेतिमन्त्रार्थकोविदाय नमः । ओं औखेयगुरवे नमः । १८०

ओं औखेयऋषौतैत्तिरीयत्वप्रदात्रे नमः । ओं औदुम्बरप्रभावाज्ञाय नमः । ओं औपगायनाद्यष्टसहस्रऋषिमण्डलगुरवे नमः । ओं औपनिषदपुरुषविज्ञात्रे नमः । ओं कठऋषेतैत्तिरीयकत्वदायकाय नमः । ओं कण्वगुरवे नमः । ओं कर्दमज्ञातवैभवाय नमः । ओं कल्क्यवताराचार्याय नमः । ओं कमण्डलुधराय नमः । ओं कल्याणनामधेयाय नमः । ओं कश्यपदौहित्राय नमः । ओं कण्वानुग्रहकर्त्रे नमः । ओं कहोलिऋषिजैत्रे नमः । ओं कत्येवदेवायाज्ञवल्क्य-इत्यत्रदेवतामध्यसङ्ख्याप्रकाशकाय नमः । ओं कतमेरुद्र इत्यत्ररुद्रशब्दनिर्वचनकृते नमः । ओं कतमात्मेतिप्राणादिभिन्नत्वेन-आत्मप्रदर्शकाय नमः । ओं कर्मकाण्डासक्तचित्ताय नमः । ओं करामलकपदपरोक्षब्रह्मदर्शकाय नमः । ओं कलिभञ्जनाय नमः । ओं कपिलजामात्रे नमः । २००

ओं कर्मन्द्याश्रमिणे नमः । ओं कल्याणात्मने नमः । ओं काण्डिकऋषेस्तैत्तिरीयत्वदात्रे नमः । ओं कार्यकारणहेतुत्वेनकर्मप्रशंसिने नमः । ओं कार्तिकमासोद्भवाय नमः । ओं कात्यायनीपतये नमः । ओं कात्यायनजनकाय नमः । ओं कात्यायनोपाध्याय नमः । ओं कातीयकल्पतरवे नमः । ओं कात्यायिनीदैन्यध्वंसिने नमः । ओं काञ्च्याम्ब्रह्माश्वमेधार्तिजे नमः । ओं कण्वादिकामधेनवे नमः । ओं कण्वादिपञ्चदशशाखाविभागिने नमः । ओं कान्तमन्त्रविभागिने नमः । ओं काण्वब्राह्मणोक्तवैभवाय नमः । ओं कातीयार्जितमणये नमः । ओं कण्वादीनान्त्रिपञ्चानांऋषीणांशृतिदायकाय नमः । ओं कण्वारण्यकस्थकामधेनुमन्त्रप्रभावज्ञाय नमः । ओं कारणजन्मने नमः । ओं कातीयसूत्रकारणाय नमः । २२०

ओं किन्देवतोऽस्यामितिदिग्विषयपरीक्षदक्षाय नमः । ओं कुतर्कवादिधिक्कारभानवे नमः । ओं कुत्सिताक्षेपचक्षुःश्रवःपक्षिराजाय नमः । ओं कुरुभूमेतपःकृते नमः । ओं कुरुपाञ्चालदेशोद्भवऋषिजैत्रे नमः । ओं कुरुभूमिवनमध्यपर्णशालावासिने नमः । ओं कृतयुगावताराय नमः । ओं कृष्णांशसम्भवाय नमः । ओं कृष्णदर्शनोत्सुकाय नमः । ओं कृत्वासविधिवत्पूजां-आचार्येतिकीर्तिमते नमः । ओं कोटिसूर्यप्रकाशाय नमः । ओं कोवाविष्णुदैवत्यैत्यगाथाकथान्विताय नमः । ओं क्रमसन्यासिने नमः । ओं गन्धर्वजैत्रे नमः । ओं गन्धर्वराजगुरवे नमः । ओं गवामुज्जीवनोत्सुकाय नमः । ओं गर्दछीवीपीतमतजैत्रे नमः । ओं गर्ववर्जिताय नमः । ओं गर्भस्तकालाभ्यस्तवेदाय नमः । ओं गार्गिमातिप्राक्षेरिति-अनुग्रहार्दनिषेधकृते नमः । २४०

ओं गालवगुरवे नमः । ओं गार्गीमनःप्रियाय नमः । ओं गार्गीज्ञानप्रदायकाय नमः । ओं गार्गीगर्वाद्रिवज्रिणे नमः । ओं गार्गीब्राह्मणोक्तवैभवाय नमः । ओं गार्गीप्रश्नोत्तरदायकाय नमः । ओं गार्गीमर्मज्ञाय नमः । ओं गार्गीवन्दिताय नमः । ओं गायत्रीहृदयाभिज्ञाय नमः । ओं गायत्रीदकारऋषये नमः । ओं गायत्रीवरलब्दाय नमः । ओं गायत्रीमन्त्रतत्त्वज्ञाय नमः । ओं गायत्रीस्वरूपज्ञाय नमः । ओं गायत्रीप्रसादान्विताय नमः । ओं गुर्वाज्ञापरिपालकाय नमः । ओं गुरुवृत्तिपराय नमः । ओं गुरुभक्तिसमन्विताय नमः । ओं गुरुतत्त्वज्ञाय नमः । ओं गुरुपूजातत्पराय नमः । ओं गुरुणाङ्गुरवे नमः । २६०

ओं गुरुमन्त्रोपदेशकाय नमः । ओं गुरुशक्तिसमन्विताय नमः । ओं गुरुसन्तोषकारिणे नमः । ओं गुरुप्रत्यर्पितयजुर्वेदैकदेशाय नमः । ओं गुर्वज्ञातयजुर्वेदाभिज्ञाय नमः । ओं ग्रहतिग्रहविवेकाय नमः । ओं गोगणप्राणदात्रे नमः । ओं गोसहस्राधीशाय (गोसहस्राधिषाय) नमः । ओं गोपालख्यातमहिम्ने नमः । ओं गोदावरीतीरवासिने नमः । ओं गौतमदेशिकाय नमः । ओं गौतमब्रह्मोपदेशिकाय नमः । ओं घनाय नमः । ओं घनतपोमहिमान्विताय नमः । ओं चतुर्वेदगुरवे नमः । ओं चतुश्चत्वारिंशद्वेदवमनकृते नमः । ओं चन्द्रकान्तजनकाय नमः । ओं चरकाध्वर्युकारणाय नमः । ओं चरिष्येहन्तवव्रतमितिवादिने नमः । ओं चक्रवर्तिगुरवे नमः । २८०

ओं चतुःर्विंशद्वर्षकालमातृगर्भवषःकृते नमः । ओं चतुर्वेदाभिज्ञाय नमः । ओं चतुर्विंशाक्षरमन्त्रपारायणपटुव्रताय नमः । ओं चतुर्विधपुराणार्थप्रदात्रे नमः । ओं चतुर्दशमहाविद्यापरिपूर्णाय नमः । ओं चमत्कारपुरवासिने नमः । ओं चलाचलविभागज्ञाय नमः । ओं चारुविक्रमाय नमः । ओं चिदम्बररहस्यज्ञाय नमः । ओं चित्ररथब्राह्मणज्ञानदात्रे नमः । ओं चित्रचरित्राय नमः । ओं छर्दिब्राह्मणबीजाय नमः । ओं जनकस्यविजिज्ञासापरिष्करणपण्डिताय नमः । ओं जनकस्यातिमेधान्दृष्ट्वाजातभीतये नमः । ओं जनकानांमहागुरवे नमः । ओं जम्बूवतीनदीतीरजन्मने नमः । ओं जनकविश्वजिद्यज्ञरक्षकाय नमः । ओं जनकाश्वमेधकारयित्रे नमः । ओं जनकयज्ञाग्रपूजिताय नमः । ओं जनकस्याश्वमेधाङ्गदेवर्षिज्ञानदात्रे नमः । ३००

ओं जनकादिमुमुक्षाणाञ्जगद्बीजप्रदर्शकाय नमः । ओं जनकाज्ञानसन्देहपङ्कनाशप्रभाकराय नमः । ओं जनकस्यब्रह्मविद्यापरीक्षापण्डितोत्तमाय नमः । ओं जनकसभाज्ञानान्धकारभानवे नमः । ओं जनकायकामप्रश्नवरदात्रे नमः । ओं जनकपूजिताय नमः । ओं जनकस्यजगत्तत्त्वप्रदर्शकाय नमः । ओं जनकब्रह्मोपदेशकृते नमः । ओं जनकाभयदायकाय नमः । ओं जनस्थानतीर्थकारिणे नमः । ओं जम्बूसरोवासिने नमः । ओं जगदाधारशास्त्रकृते नमः । ओं जननीजठरेविष्णुमायातीतवरान्विताय नमः । ओं जम्बूसरोवरसौवर्णपुरवासिने नमः । ओं जगद्गुरवे नमः । ओं जम्बूनदीसलिलप्रियाय नमः । ओं जटामण्डलमण्डिताय नमः । ओं जाबालाज्ञाननाशकाय नमः । ओं जाबालमखनायकाय नमः । ओं जाबालऋषिजैत्रे नमः । ३२०

ओं जित्वाशैलिनिऋषिजैत्रे नमः । ओं जैमिनिमानिताय नमः । ओं ज्योतिर्ब्राह्मणप्रधितप्रभावाय नमः । ओं ज्ञानमुद्रासमन्विताय नमः । ओं ज्ञाननिधये नमः । ओं ज्ञानज्ञेयस्वरूपविज्ञाय नमः । ओं तपोधनाय नमः । ओं तपोबलसमन्विताय नमः । ओं तत्त्वविदामग्रगण्याय नमः । ओं तपोमासाभिषिक्ताय नमः । ओं तर्काध्यायोक्तमहिम्ने नमः । ओं तर्कविदांवरिष्ठाय नमः । ओं तस्योपस्थानमितिमन्त्रमर्मज्ञाय नमः । ओं तारकब्रह्ममन्त्रदात्रे नमः । ओं तावत्पूर्वंविशुदानियजुष्येवेतिमूलविदे नमः । ओं तुबुकऋषीःतैत्तिरीयत्वदात्रे नमः । ओं तुरीयावादतत्वार्थविदे नमः । ओं तैत्तिरीययजुर्विदाय नमः । ओं त्रयीधामाप्तवैभवाय नमः । ओं त्रिमूर्त्यात्मने नमः । ३४०

ओं त्रिदण्डसन्यासविधिप्रदर्शकाय नमः । ओं त्रिशूलढमरुदण्डकमण्डलुपाणये नमः । ओं त्रिकालज्ञाय नमः । ओं त्रिलोकगुरुशिष्याय नमः । ओं त्रिमूर्त्यन्तेवासिने नमः । ओं त्रिमूर्तिकरुणालब्दतेजसे नमः । ओं त्रिलोचनप्रसादलब्दाय नमः । ओं त्रिलोचनपूजिताय नमः । ओं त्रिकालपूज्याय नमः । ओं त्रिभुवनख्याताय नमः । ओं त्रिदन्तसन्यासकृते नमः । ओं त्रिपुण्ड्रधारिणे नमः । ओं त्रिपुण्ड्रविध्युपदेष्ण्रे नमः । ओं त्रिणेत्राय नमः । ओं त्रिमूर्त्याकारनिभाय नमः । ओं दयासुधासिन्धवे नमः । ओं दक्षिणामूर्तिस्वरूपाय नमः । ओं दण्डकमण्डलुधराय नमः । ओं दानसमर्धाय नमः । ओं द्वादशसहस्रवत्सरसूर्योपासकाय नमः । ३६०

ओं द्वादशीव्रततत्पराय नमः । ओं द्वादशविधनामाङ्किताय नमः । ओं द्वादशवर्षसहस्रपञ्चाग्निमध्यस्थाय नमः । ओं द्वादशवर्षसहस्रयज्ञदीक्षिताय नमः । ओं द्वादशार्कनमस्करणैकमहाव्रताय नमः । ओं द्वादशाक्षरमहामन्त्रसिद्धाय नमः । ओं द्विजबृन्दसमावृताय नमः । ओं दिवाकरात्सकृत्प्राप्तसर्ववेदान्तपारगाय नमः । ओं दिग्विषयकब्रह्मविज्ञानविदुषे नमः । ओं दीर्घतपने नमः । ओं दुर्वादखण्डनाय नमः । ओं दुन्दुध्यादिदृष्टान्तेनपदार्थानां-ब्रह्मसामान्यसत्ताकत्वप्रदर्शकाय नमः । ओं दुष्टदूराय नमः । ओं दुष्टनिग्रहतत्पराय नमः । ओं दुष्टद्विजशिक्षकाय नमः । ओं दुष्टतपसगर्वादिभञ्जनैकमहाशनये नमः । ओं देवरातपुत्राय नमः । ओं देवगन्धर्वपूजिताय नमः । ओं देवपूजनतत्पराय नमः । ओं देवतागुरवे नमः । ३८०

ओं देवकर्माधिकारसूत्रप्रणेत्रे नमः । ओं देवादिगुरुवाक्यपालनकृतनिश्चयाय नमः । ओं देवलज्ञातयशसे नमः । ओं देवमार्गप्रतिष्ठापनाचार्याय नमः । ओं दैत्यंविद्यार्यतान्वेदानेति-विष्णुप्रभावज्ञाय नमः । ओं दैवज्ञाय नमः । ओं दौर्भाग्यहन्त्रे नमः । ओं धृतव्रताय नमः । ओं धर्मसंस्थापकाय नमः । ओं धर्मपुत्रपूजिताय नमः । ओं धर्मशास्त्रोपदेशिकाय नमः । ओं धेनुपालनतत्पराय नमः । ओं ध्यायतेवेतिबुद्ध्यध्यासवशातात्मनः-स्संसारित्वप्रदर्शकाय नमः । ओं धृवपूजिताय नमः । ओं नमोवयम्ब्रह्मिष्ठायेतिविनयप्रदर्शकाय नमः । ओं नारायणान्तेवासिने नमः । ओं नारायणपौत्राय नमः । ओं नारदज्ञातवैभवाय नमः । ओं नारायणाश्रमख्यातमहिम्ने नमः । ओं नाननुशिष्यहरेतिपित्रभिमतप्रदर्शकाय नमः । ४००

ओं निर्जीवानाञ्जीवदात्रे नमः । ओं निर्जीवस्तम्भजीवदाय नमः । ओं निर्वाणज्ञानिने नमः । ओं निग्रहानुग्रह समर्धाय नमः । ओं निश्वसितशृत्यावेदस्यनिरपेक्षप्रामाण्यप्रतीष्ठात्रे नमः । ओं नृसिंहसमविक्रमाय नमः । ओं नृपज्ञानपरीक्षादक्षाय नमः । ओं नृपविवेककर्त्रे नमः । ओं नेतिनेतीतिन्निषेधमुखेनब्रह्मोपदेष्ट्रे नमः । ओं नेहनानास्तीतिब्रह्मणिद्वैतनिरासकाय नमः । ओं पयोव्रताय नमः । ओं परमात्मविदे नमः । ओं परमाय नमः । ओं परमधार्मिकाय नमः । ओं पञ्चारण्यमध्यस्थभास्कर-क्षेत्रानुष्ठितसत्राय नमः । ओं परब्रह्मस्वरूपिणे नमः । ओं पराशरपुरोहिताय नमः । ओं परिव्राजकाचार्याय नमः । ओं परमावटिकाचार्याय नमः । ओं परभयङ्कराय नमः । ४२०

ओं परमधर्मज्ञाय नमः । ओं पराशरोक्तप्रभावाय नमः । ओं परमाक्षरस्वरूपविदे नमः । ओं परमहर्षस्समन्विताय नमः । ओं परिशेषपरिज्ञात्रे नमः । ओं परिपूर्णमनोरधाय नमः । ओं परमपवित्राय नमः । ओं परमेष्ठ्यादिपरम्परागतगुरवे नमः । ओं परमेष्ठ्यादिपरम्पराप्राप्तवेदतत्पराय नमः । ओं परिशिष्ठविशेषविदे नमः । ओं पर्णशालावासाय नमः । ओं परीक्षित्पुत्रगुरवे नमः । ओं परिशिष्ठाष्टादशग्रन्थकर्त्रे नमः । ओं पराशरपुत्रोपाध्याय नमः । ओं परमविज्ञानयुक्ताय नमः । ओं परममन्युनिह्निताय नमः । ओं पट्‍टाभिषेकयुक्ताय नमः । ओं परमगुरुशिष्याय नमः । ओं पञ्चशतवर्षपर्यन्ताज्यधाराहोमकृते नमः । ओं पत्नीद्वयविराजिताय नमः । ४४०

ओं पावनाय नमः । ओं पारिक्षितगतिप्रदर्शकाय नमः । ओं पारिक्षितस्वस्तिप्रदर्शकाय नमः । ओं पाषण्डद्वेषिने नमः । ओं पाराशर्योपनयनकृते नमः । ओं पारशर्यदेशिकाय नमः । ओं पावनचरित्राय नमः । ओं पारशर्याश्रमाणाम्प्रथमाय नमः । ओं पारिकाङ्क्षिणे नमः । ओं पारायणव्रताय नमः । ओं पिप्पलादगुरवे नमः । ओं पिप्पलादज्ञातकीर्तये नमः । ओं पितामहसत्कृताय नमः । ओं पितामहाध्वराध्यक्षाय नमः । ओं पितृवाक्यपरिपालकाय नमः । ओं पुत्रब्राह्मणोक्तयशसे नमः । ओं पुराणाचार्याय नमः । ओं पुष्पीकृताश्वस्तम्भाय नमः । ओं पुण्यापुण्यविज्ञानरताय नमः । ओं पुण्यारण्योपवासिने नमः । ४६०

ओं पुण्यारण्यभवाय नमः । ओं पुत्रशिष्यसमावृताय नमः । ओं पुरातनमहिम्ने नमः । ओं पुराणख्यातवैभवाय नमः । ओं पूर्णमन्त्राधिकाराय नमः । ओं पूर्णानन्दसमन्विताय नमः । ओं पूर्णिमाभिषिक्ताय नमः । ओं पृधिवैवेत्यष्टधाप्राणोपदेशकृते नमः । ओं पैलपूजिताय नमः । ओं पैङ्गलोपदेशकाय नमः । ओं पैङ्गलज्ञानदात्रे नमः । ओं पैप्पलादिविदितयशसे नमः । ओं पैलगुरवे नमः । ओं पौतिमाष्यादिगुरवे नमः । ओं प्रतापवते नमः । ओं प्रभाकरप्राप्तविद्याय नमः । ओं प्रतिभास्यतितेवेद-इत्यर्कवरसम्युताय नमः । ओं प्रभाकरप्रसादाप्तप्रधान-यजुषाङ्गुरवे नमः । ओं प्रकृतिपुरुषविवेककर्त्रे नमः । ओं प्रभाकरप्रीतिकराय नमः । ४८०

ओं प्रणवोवृक्षबीजंस्यादितिवेदिकमूलविदे नमः । ओं प्रसिद्धकीर्तये नमः । ओं प्रतिज्ञापरिपालकाय नमः । ओं प्रथमशाखाप्रसिद्धिकर्त्रे नमः । ओं प्रत्यक्षदेवशिष्याय नमः । ओं प्रचण्डाज्ञाकर्त्रे नमः । ओं प्रबलशृत्युक्तकीर्तये नमः । ओं प्रथमवेदप्रसिद्धाय नमः । ओं प्रकृष्णधीये नमः । ओं प्रथमायांशृत्यांसत्यांनान्यां-इत्यादिशास्त्रकृते नमः । ओं प्राणविद्यापरिज्ञात्रे नमः । ओं प्राणायामपरायणाय नमः । ओं प्राणायामप्रभावज्ञाय नमः । ओं फलीकृतस्तम्भाय नमः । ओं बहृचशाखाध्येत्रे नमः । ओं बहुपुराणप्रसिद्धाय नमः । ओं बट्कुर्वाणमतजैत्रे नमः । ओं बहुगुणान्विताय नमः । ओं बदर्याश्रमवासिने नमः । ओं बहुदक्षिणयागमानिताय नमः । ५००

ओं बहुप्रमाणप्रसिद्धाय नमः । ओं बृहद्याज्ञवल्क्याय नमः । ओं बृहदारण्यकोक्तवैभवाय नमः । ओं बृहस्पतेस्तारकोपदेशकाय नमः । ओं बृसीस्थाय नमः । ओं ब्रह्मर्षये नमः । ओं ब्रह्मदत्तगुरवे नमः । ओं ब्रह्मरातपुत्राय नमः । ओं ब्रह्मांशसम्भवाय नमः । ओं ब्रह्ममनोजगार्गीरमणाय नमः । ओं ब्रह्मदत्ताश्वमेधस्थाय नमः । ओं ब्रह्मक्षत्रादिगुरवे नमः । ओं ब्रह्महत्याभयब्रान्तगुरोःदोषविनाशोद्यताय नमः । ओं ब्रह्ममानसपुत्राय नमः । ओं ब्रह्मलब्दगायत्रीहृदयाय नमः । ओं ब्रह्मदत्तयोगतत्पराय नमः । ओं ब्रह्मिष्ठदोषसन्दग्दशाकल्यप्राणरक्षकाय नमः । ओं ब्रह्मविद्यापारङ्गताय नमः । ओं ब्रह्मविद्याभिवृद्ध्यर्थमवतीर्णाय नमः । ओं ब्रह्मविद्यास्वरूपविदे नमः । ५२०

ओं ब्रह्मविद्यापरीक्षार्थमागताय नमः । ओं ब्रह्मविष्ण्वीशशिष्याय नमः । ओं ब्रह्मस्थापितवेदज्ञाय नमः । ओं ब्रह्मणास्थापितम्पूर्वं-इत्यत्प्रेरितकीर्तिमते नमः । ओं ब्रह्मेष्टकृते नमः । ओं ब्रह्मविद्यानिलयाय नमः । ओं ब्रह्मविद्यासम्प्रदायगुरवे नमः । ओं ब्रह्मतेजोज्वलन्मुखाय नमः । ओं ब्रह्मनिष्ठागरिष्ठाय नमः । ओं ब्रह्मवादिने नमः । ओं ब्रह्मण्याय नमः । ओं ब्रह्मवित्प्राणोत्क्रमणाभावप्रसादकाय नमः । ओं ब्रह्मैवसन्ब्रह्मपोतीति-जीवन्मुक्तिप्रकाशकाय नमः । ओं ब्रह्मपुराणोक्तमहिम्ने नमः । ओं ब्रह्मविद्यादानशीलाय नमः । ओं ब्रह्माण्डोक्तकीर्तये नमः । ओं ब्रह्मशिष्याय नमः । ओं ब्रह्मरातजठराब्दसुधामयूखाय नमः । ओं ब्रह्मविदःअनियताचारवत्वप्रदर्मकाय नमः । ओं ब्रह्मिष्ठाय नमः । ५४०

ओं ब्रह्मबीजाय नमः । ओं भाष्कलाधीतऋग्वेदाय नमः । ओं ब्राह्मणासङ्कीर्णयजुर्विदे नमः । ओं ब्राह्मणानाम्ब्रह्मविद्यादृढीकरणदक्ष्वाय नमः । ओं ब्राह्मणप्रियाय नमः । ओं ब्राह्मणसमावृताय नमः । ओं बीजमेतत्पुरस्कृत्य-इत्युक्तव्रते नमः । ओं बुद्धिनैर्मल्यदात्रे नमः । ओं बुद्धिवृद्धिप्रदायकाय नमः । ओं बुद्धिमालिन्यहन्त्रे नमः । ओं बैजवासगुरवे नमः । ओं बैजवासायनवेदबीजाय नमः । ओं बोधायनजनकवेददात्रे नमः । ओं बौद्धमतनिरासकाय नमः । ओं भक्त्येवतत्तेमयोदितमितिवादिने नमः । ओं भक्तदारिद्र्यभञ्जनाय नमः । ओं भक्ताभीष्टफलप्रदाय नमः । ओं भक्तपापहन्त्रे नमः । ओं भद्रपदनाम्ने नमः । ओं भास्करार्चनतत्पराय नमः । ५६०

ओं भारद्वाजतारकमन्त्रोपदेशकाय नमः । ओं भास्कराचार्यानुग्रहप्राप्तयजुर्वेद-सम्प्रदायप्रवर्तकाय नमः । ओं भानुगुप्तयजुर्वेदप्रकाशकाय नमः । ओं भानुगुप्तायुतयाम-यजुर्वेदैकनिष्ठिताय नमः । ओं भाविवृत्तान्तमित्यादिपाठ्यमानप्रसिद्धमते नमः । ओं भास्करदिनजन्मने नमः । ओं भारद्वाजमतजैत्रे नमः । ओं भुञ्जमुनिमतजैत्रे नमः । ओं भुवनकोशपरिमाणप्रदर्शकाय नमः । ओं भुक्तिमुक्तिफलप्रदाय नमः । ओं भूपतिगुरवे नमः । ओं भृगुविदितचरित्राय नमः । ओं भृगुकर्दमसंवेद्यमहागाथकथान्विताय नमः । ओं मनस्सन्यासिने नमः । ओं मद्यन्दिनवेददात्रे नमः । ओं मध्याह्नार्कसमप्रभाय नमः । ओं मण्डलब्राह्मणप्रियाय नमः । ओं मधुकाण्डोक्तमहिम्ने नमः । ओं महायोगिपुङ्गवाय नमः । ओं महासौरमन्त्राभिज्ञाय नमः । ५८०

ओं महाशान्तिविधानज्ञाय नमः । ओं महातेजसे नमः । ओं महामत्स्य, श्येनदृष्टास्ताभ्यां-आत्मनःसंसारिधर्मासङ्गित्वप्रदर्शकाय नमः । ओं महामेधाजनकाय नमः । ओं महात्मने नमः । ओं मधुकायकुन्धपुत्रमन्त्रोपदेष्ट्रे नमः । ओं माद्यन्दिनयजुःप्रियाय नमः । ओं मदधीतन्त्यजेत्यत्रमहायोगप्रदर्शकाय नमः । ओं महते नमः । ओं महाराजगुरवे नमः । ओं मद्यन्दिनोमनुष्याणाः-इत्यत्राख्यात मतविदे नमः । ओं मधुकगुरवे नमः । ओं मधुविद्यारहस्यविधे नमः । ओं मन्त्रब्राह्मणतत्पराय नमः । ओं मन्त्रोपनिषत्सारज्ञाय नमः । ओं मन्त्राक्षतप्रभावज्ञाय नमः । ओं मन्नाम्नाचात्रविश्राममित्यत्रशिवतत्पराय नमः । ओं मत्तोऽधीतंवेदजालन्देहेतिगुरुवाक्यकृते नमः । ओं मदधीतन्त्यजेत्यत्रमहाश्चर्यकर्मकृते नमः । ओं ममाप्यलन्त्वयेत्यत्रमार्ताण्डसमविक्रमाय नमः । ६००

ओं महायोगिने नमः । ओं मखनायकाय नमः । ओं महासम्यमीन्द्राय नमः । ओं महामहिमान्विताय नमः । ओं मनस्विने नमः । ओं माद्यन्दिनवरप्रदात्रे नमः । ओं माकोषङ्कुरुयज्ञेश-इत्याकाशाख्यातवैभवाय नमः । ओं मातुलद्वेषिने नमः । ओं मार्ताण्डमतमण्डनाय नमः । ओं मार्ताण्डमण्डलप्रवेशाय नमः । ओं मायावादिजनविद्वेषिणे नमः । ओं मातृगर्भस्थकालैकपरब्रह्मोपदेशकाय नमः । ओं मातृगर्भस्थोपिविष्णूक्त-परब्रह्मोपदेशभाजने नमः । ओं मातृगर्भस्थकालैकतत्त्वज्ञाय नमः । ओं माघपूर्णिमायाङ्कृताभिषेकाय नमः । ओं मातुलमहापातकभञ्जनाय नमः । ओं महेन्द्रसभासदे नमः । ओं मात्सर्यरहिताय नमः । ओं मित्रावरुणस्वरूपज्ञाय नमः । ओं मिहिरावताराय नमः । ६२०

ओं मिथिलापुरवासाय नमः । ओं मुनिमानिताय नमः । ओं मुनिसङ्घसमावृताय नमः । ओं मुनिवेषमिहिराय नमः । ओं मुक्त्यतिमुक्तिव्याख्यात्रे नमः । ओं मुनिनाङ्ककुदे नमः । ओं मुहूर्तशास्त्रतत्त्वज्ञाय नमः । ओं मुनिकाण्डोक्तमहिम्ने नमः । ओं मुहूर्तंसह्यतान्दाहं-इत्यर्कवचनानुग्रहाय नमः । ओं मुहूर्तमात्रसंलब्द-सर्ववेदान्तमण्डलाय नमः । ओं मुनिमण्डलमण्डिताय नमः । ओं मुनिपुङ्गवपूजिताय नमः । ओं मूर्तिमत्कृष्णयाजुषवमनकृते नमः । ओं मृत्योरपिमृत्युसत्व-तत्स्वरूपप्रवक्त्रे नमः । ओं मेरुपृष्ठस्थाय नमः । ओं मैत्रेयीप्राणनाथाय नमः । ओं मैत्रेयीस्तत्वोपदेष्ट्रे नमः । ओं यज्ञवल्क्यपुत्राय नमः । ओं यात्मासर्वान्तरस्तं-इत्यादिप्रश्नोत्तरदायकाय नमः । ओं यज्ञसूत्रधारिणे नमः । ६४०

ओं यज्ञावताराय नमः । ओं यज्ञशिष्याय नमः । ओं यज्ञवीर्याय नमः । ओं यत्रसुप्तेतिपरमलोकप्रदर्शकाय नमः । ओं यजुर्मूलकारणाय नमः । ओं यदासर्वेतिज्ञानादेव-मुक्तिरितिसूचकाय नमः । ओं यजुर्वेदमहावाक्य-फलास्वादनपण्डिताय नमः । ओं यजमानाय नमः । ओं यधाकामप्रकाशधिये नमः । ओं यदार्षविदे नमः । ओं यज्ञपूजिताय नमः । ओं यथेष्टमार्गसञ्चारिणे नमः । ओं यथाभिलषितदेशमार्गस्थाय नमः । ओं यदेवसाक्षादित्यत्रप्रख्यातपराक्रमाय नमः । ओं यः पृथिव्यातिष्टनित्याधौअधिदैवतं-अन्तर्यामिस्वरूपपञ्चबोधकाय नमः । ओं यः सर्वेष्वितिअधिभूतं-अन्तर्यामिरहस्योपदेष्ट्रे नमः । ओं यःप्राणेतिष्टनित्यादौ-अध्यात्ममन्तर्यामितत्त्वोपदेशकाय नमः । ओं यदेतन्मण्डलं तपति इति मन्त्र तत्त्वार्थविदे नमः । ओं यत्तेकश्चादित्यादिमन्त्रेषु जनकाज्ञानभञ्जकाय नमः । ओं यजूम्षिशुक्लानि इत्याम्नायोक्त कीर्तिमते नमः । ६६०

ओं यजुर्वेदस्सात्त्विकस्यादित्यादिगुणविदे नमः । ओं यजुरोङ्काररूपेणवर्ततेति विशेषविदे नमः । ओं यतिराजपट्‍टाभिषिक्ताय नमः । ओं यतीश्वराय नमः । ओं यतिने नमः । ओं यातयामाऽयातयामविभागविदे नमः । ओं यातयामयजुस्त्यागिने नमः । ओं याज्ञवल्क्याद्याज्ञवल्क्येत्याचार्यान्वयान्विताय नमः । ओं याज्ञवल्क्यं समादायेति महात्म्य सम्युताय नमः । ओं याज्ञवल्क्यमते स्थित्वा इतीरतकीर्तिमते नमः । ओं याजयामासति प्रेद इत्यत्राख्यात विक्रमाय नमः । ओं युधिष्ठिराश्वमेधपूजिताय नमः । ओं युधिष्ठिराश्वमेधाध्वर्यवे नमः । ओं योगयाज्ञवल्क्याय नमः । ओं योगीश्वराय नमः । ओं योगानन्द मुनीश्वराय नमः । ओं योगशास्त्रप्रणेत्रे नमः । ओं योगमार्गोपदेशकाय नमः । ओं योगज्ञाय नमः । ओं योगशिरोमणये नमः । ६८०

ओं योगीश्वरद्वादशीप्रियाय नमः । ओं योह ज्येष्ठमित्युक्त सर्वश्रेष्ठ्यसमन्विताय नमः । ओं योगसामर्थ्ययुक्ताय नमः । ओं योगिनामग्रगण्याय नमः । ओं योगीन्द्रवन्दिताय नमः । ओं योगिराजाय नमः । ओं रथमारोप्यतं भानुरित्यादुक्तप्रतापाय नमः । ओं रथारूढाय नमः । ओं रविस्तोत्रपरायणाय नमः । ओं रविप्रीतिकरसत्रयागकर्त्रे नमः । ओं रहस्यार्थविशारदाय नमः । ओं राममन्त्ररहस्यज्ञाय नमः । ओं रामदर्शनतत्पराय नमः । ओं राममन्त्रप्रदात्रे नमः । ओं राजगुरवे नमः । ओं रुद्राध्यायप्रभावज्ञाय नमः । ओं रुधिराक्त यजुर्वमनकृते नमः । ओं रुद्रमन्त्रपरायणाय नमः । ओं रोमहर्षणशिष्याय नमः । ओं लक्ष्मीपौत्राय नमः । ७००

ओं लक्षगायत्रीजपानुष्ठात्रे नमः । ओं लोकोपकारिणे नमः । ओं लोकगुरवे नमः । ओं लोकपूजिताय नमः । ओं लोकाद्भुतकार्यकृते नमः । ओं वसिष्ठवद्वरिष्ठाय नमः । ओं वमनजाड्यापहन्त्रे नमः । ओं व्यवस्थित प्रकरण यजुर्वेद प्रकाशकाय नमः । ओं वसुञ्चापि समाहूय इत्यादि पर्वस्थ कीर्तिमते नमः । ओं वरमुनीन्द्राय नमः । ओं वाजिने नमः । ओं वाजसनिपुत्राय नमः । ओं वाजसनेयाय नमः । ओं वायुपुराणोक्तवैभवाय नमः । ओं वायुभक्षणतत्पराय नमः । ओं वाजिमन्त्रार्थसिद्धाय नमः । ओं वाजिरूपधारिणे नमः । ओं वाजिविप्रगुरवे नमः । ओं व्यासोक्तमहिम्ने नमः । ओं व्यासवेदोपदेशकाय नमः । ७२०

ओं वाणी महामन्त्रोपासनालब्ध अष्टादश महाविद्याय नमः । ओं वामदेवार्चनप्रिय विप्रेन्द्राय नमः । ओं वाजिशब्दप्रसिद्धाय नमः । ओं वाजिवेदप्रभावज्ञाय नमः । ओं वाजिमन्त्ररहस्यविदे नमः । ओं वाजिनामाष्टकाय नमः । ओं वाजिग्रीवाप्त वाग्विभूति विजृम्भित दिगन्ताय नमः । ओं वाजपेयातिरात्रादि यज्ञादीक्षासमन्विताय नमः । ओं विद्वत्सन्यासिने नमः । ओं विविदिषा विद्वत्सन्यास प्रकाशकृते नमः । ओं विश्वावसोः संशयघ्नाय नमः । ओं विजयजनकाय नमः । ओं विष्ण्ववताराय नमः । ओं विष्णुपुराणोक्तवैभवाय नमः । ओं विश्वावसुज्ञानगुरवे नमः । ओं विप्रेन्द्राय नमः । ओं विदेह वाजिमेधयाजकाय नमः । ओं विभावसोद्वरबलात्सर्व-वेदान्तपारगाय नमः । ओं विश्वावसुविवेकदाय नमः । ओं विश्वावसुविभागज्ञाय नमः । ७४०

ओं विदग्द विद्यावैतण्ड विवादे विश्वरूप धृते नमः । ओं विरजाक्षेत्र शिवलिङ्गप्रतिष्ठात्रे नमः । ओं विश्वतैजस प्राज्ञ तुरीय ब्रह्मोपदेशकाय नमः । ओं विरजातीरे तपः कृते नमः । ओं विद्यमानेगुरौ-जनकसख्याय नमः । ओं विद्याकर्मपूर्व प्रज्ञानां देहान्तरारम्भकत्व प्रवक्त्रे नमः । ओं विष्णोराप्तजन्मने नमः । ओं विष्णुमन्त्रैक हृष्ठधिये नमः । ओं विज्ञानमानन्दमिति जगत्कारण विदुषे नमः । ओं वीर्यवत्तर वेदज्ञाय नमः । ओं वीर्यवत्तरवैदिकपालने कृत निश्चयाय नमः । ओं वृद्धयाज्ञवल्क्याय नमः । ओं वेदशरीराय नमः । ओं वेदभाष्यार्थकोविदाय नमः । ओं वेदशरीराय नमः । ओं वेद्यमतये नमः । ओं वेदान्तज्ञानविच्छ्रेष्ठाय नमः । ओं वेदावेदविभागविदे नमः । ओं वेदं समर्पयामास इत्यत्र असाधारण कर्म कृते नमः । ओं वेदपुरुषशिष्याय नमः । ७६०

ओं वेदवृक्षमहावाक्य-फलास्वादपण्डिताय नमः । ओं वेदोऽनादिः शब्दमयः इत्यादि प्रमाणविदे नमः । ओं वेदवटमूलैकतत्त्वविदे नमः । ओं वेदवटमूलेविराजमानाय नमः । ओं वेदैकविभागकरणोत्सुकाय नमः । ओं वेदान्तवेद्याय नमः । ओं वेदपारायणप्रीताय नमः । ओं वेदोक्तमहिम्ने नमः । ओं वेदान्तज्ञानिने नमः । ओं वेदानाहृत्यचौर्येणेत्यागमैकप्रवृत्तिविदे नमः । ओं वेदवृक्षोद्भवन्नित्यमित्यस्मिन्नित्यमङ्गलाय नमः । ओं वैदेहगुरवे नमः । ओं वैदेहोपाध्याय नमः । ओं वैदेहाश्वमेधगवाम्पतये नमः । ओं वैनेयाध्यापकाय नमः । ओं वैदेहविवेकदात्रे नमः । ओं वैशम्पायनवेदभेदकाय नमः । ओं वैदेहाऽभयदायकाय नमः । ओं वैदेहसभापतये नमः । ओं वैदेहीप्राणनाथाचार्याय नमः । ७८०

ओं वैशम्पायनवैतण्डवाद-खण्डनपण्डिताय नमः । ओं वैशम्पायन वेदैकदानशौण्डाय नमः । ओं वैकुण्ठस्थ सुनन्दाब्रह्मरातानन्दवर्धनाय नमः । ओं वैशम्पायनहत्याद्रिभञ्जनैक महाशनये नमः । ओं शतपथब्राह्मणबीजाय नमः । ओं शततारोद्भवाय नमः । ओं शरत्कालजन्मने नमः । ओं शतानीकगुरवे नमः । ओं शक्तिमन्त्रोपदेशकाय नमः । ओं शङ्खचक्रगदापद्महस्ताय नमः । ओं शतशिष्यसमावृताय नमः । ओं शतशिष्याध्यापकाय नमः । ओं शतपथपरिष्कर्त्रे नमः । ओं शरणागतगन्धर्वाय नमः । ओं शरणागतगार्ग्याय नमः । ओं शरणागतशाकल्याय नमः । ओं शरणागतगन्धर्व-शतसन्देहप्रभञ्जकाय नमः । ओं शरणागतमैत्रेयी-शाश्वतज्ञानदात्रे नमः । ओं शङ्खचक्रत्रिशूलाब्ज-गदाढमरुकायुधाय नमः । ओं शतरुद्रीयेणामृतो-भवतीत्युपदेष्ट्रे नमः । ८००

ओं शतसम्शयविच्चेत्रे नमः । ओं शङ्करप्रसादलब्धाय नमः । ओं शाकल्यजीवदानकृते नमः । ओं शान्त्यादिगुणसम्युताय नमः । ओं शान्तिपर्वस्थवैभवाय नमः । ओं शास्त्रकर्त्रे नमः । ओं शापेयदेशिकाय नमः । ओं शाश्वताय नमः । ओं शाकल्यप्राणपतिष्ठापनाचार्याय नमः । ओं शाकल्याऽभयदायकाय नमः । ओं शास्त्रविच्छ्रेष्ठाय नमः । ओं शाकल्यप्राणदानव्रताय नमः । ओं शाखापरम्पराचार्याय नमः । ओं शाकल्यसंस्तुताय नमः । ओं शाखारन्तत्वदोषनिराकरणपण्डिताय नमः । ओं शाखास्तत्र शिखाकाराः इत्यत्रेति शृतिमूलविदे नमः । ओं शाखाश्चक्रे पञ्चदश कण्वाद्याशेति कीर्तिदाय नमः । ओं शाकल्यमानदात्रे नमः । ओं शाश्वतिकपदाऽधिष्ठिताय नमः । ओं शिवाराधनतत्पराय नमः । ८२०

ओं शिवलिङ्गप्रतिष्ठात्रे नमः । ओं शिवाभङ्गरक्षास्तोत्रकृते नमः । ओं शिवाय नमः । ओं शिवशिष्याय नमः । ओं शिष्यबुद्धिपरीक्षकाय नमः । ओं श्रीराममन्त्रतत्त्वज्ञाय नमः । ओं शुभप्रदाय नमः । ओं शुद्धविग्रहाय नमः । ओं शुद्धयाजुषप्रकाशकाय नमः । ओं शृतिस्मृतिपुराणाख्य-लोचनत्रयसम्युताय नमः । ओं शुक्लोपासकाय नमः । ओं शुक्लावताराय नमः । ओं शुक्लवेदपरायणाय नमः । ओं शुक्लकृष्णयजुर्वेदकारणाय नमः । ओं शुक्लं वाजसनेयं स्यादित्यत्राख्यातकीर्तये नमः । ओं शुष्कस्तम्भप्राणदात्रे नमः । ओं शुष्कस्तम्भप्रसूनदाय नमः । ओं शुद्धसत्त्वगुणोपेत-यजुर्वेदप्रकाशकृते नमः । ओं शुक्लान्ययातयामानि यजूम्षीति प्रोक्तवैभवाय नमः । ओं शुक्लाख्याञ्च यजुः पञ्चदश शाखाप्रवर्तकाय नमः । ८४०

ओं शुक्लाम्बरधराय नमः । ओं शुकोपनयनकारयित्रे नमः । ओं शुक्लपक्षोद्भवाय नमः । ओं श्वेतभस्मधारिणे नमः । ओं शैववैष्णवमतोद्धारकाय नमः । ओं शोभनचरित्राय नमः । ओं शोकनाशकाय नमः । ओं षट्पुरालयकृताध्वरस्थाय नमः । ओं षष्ठाध्यायस्थवैभवाय नमः । ओं षष्ठाध्यायाप्तकीर्तिमते नमः । ओं सच्चिदानन्दमूर्तये नमः । ओं स्वयम्भूशिष्याय नमः । ओं स्वभूर्मायातीताय नमः । ओं सरस्वतीसदावास्यवक्त्राय नमः । ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः । ओं सर्वविदारकत्वातक्षरान्तित्वानुमापकाय नमः । ओं सजातीयादि भेद रहितत्वेन ब्रह्मोपदेष्ट्रे नमः । ओं सर्व ऋष्युत्तमाय नमः । ओं सर्वब्राह्मणजैत्रे नमः । ओं सभाध्यक्षाय नमः । ८६०

ओं सभापूज्याय नमः । ओं सर्वोत्तमगुणान्विताय नमः । ओं सर्वोत्कृष्टज्ञानान्विताय नमः । ओं सर्वभावज्ञाय नमः । ओं सर्वेश्वरांशजाय नमः । ओं सनकादिमुनिज्ञातवैभवाय नमः । ओं सत्यासत्यविभागविदे नमः । ओं सयथार्थेति जगतः उत्पत्ति ब्रह्मात्मक त्वावगमयित्रे नमः । ओं सर्वमन्त्रार्थतत्त्वविदे नमः । ओं सब्रह्मभ्रूणस्थाय नमः । ओं स्वप्नदृष्टान्तेन-परलोकसाधकाय नमः । ओं सङ्गीतशास्त्रकर्त्रे नमः । ओं स्कन्दाराधनतत्पराय नमः । ओं स्वप्नादे आत्मज्योतिषैव व्यवहारप्रदर्शकाय नमः । ओं स्वप्नेवासनामय-सृष्ट्यङ्गीकर्त्रे नमः । ओं समाधियुक्ताय नमः । ओं सदाध्यानपरायणाय नमः । ओं सर्वदुःखप्रशमनाय नमः । ओं सर्वलक्षणसम्युताय नमः । ओं सयथासैन्धवखिल्य इत्यान्त्यन्तिक प्रलये विशेषविज्ञानाभावोपदेशकाय नमः । ८८०

ओं स्कन्दवर्णितवैभवाय नमः । ओं स्वच्छानन्दान्विताय नमः । ओं सत्यसन्धाय नमः । ओं सर्वभूतगुणज्ञाय नमः । ओं सभामध्यविराजिताय नमः । ओं सर्वभूतहितेरताय नमः । ओं सर्वशास्त्रपारगाय नमः । ओं सतांवरिष्ठाय नमः । ओं सम्यक् सङ्गीयमानाय नमः । ओं सयधासर्या सामिति प्राकृत प्रलये प्रपञ्चस्य ब्रह्मात्मकत्व बोधयित्रे नमः । ओं समुद्रोपासकाय नमः । ओं सत्याषाढमुनेः तैत्तिरीयत्वदायकाय नमः । ओं सन्यासार्थं मैत्रेय्यनुमति प्रार्थयित्रे नमः । ओं स्मृतिकर्त्रे नमः । ओं सन्यासाश्रमप्रदर्शकाय नमः । ओं सभापर्वोक्तमहिम्ने नमः । ओं सहस्रांशुसमप्रभाय नमः । ओं सरस्वतीपूजकाय नमः । ओं सरस्वतीस्तोत्रकृते नमः । ओं सर्वब्राह्मणसंवृताय नमः । ९००

ओं सर्वशाखादैतृशिष्यगुणान्विताय नमः । ओं सर्वलोकगुर्वन्तेवासिने नमः । ओं सर्वप्रश्नोत्तर-दानशौण्डाय नमः । ओं सर्वसन्देहविच्छेत्रे नमः । ओं सत्यानन्दस्वरूपाय नमः । ओं साम्राट् सम्पूजिताय नमः । ओं सत्यकाममतजैत्रे नमः । ओं संसारमोक्षयोः स्वरूपविवेचकाय नमः । ओं सङ्कोचविकासाभ्यां-प्राणस्वरूपनिर्धारयित्रे नमः । ओं सत्त्वप्रधानवेदज्ञाय नमः । ओं स्मृतिप्रसिद्धसत्कीर्तये नमः । ओं सकल ऋषिश्रेष्ठाय नमः । ओं सर्वकालपरिपूर्णाय नमः । ओं सकलागमज्ञाय नमः । ओं समग्रकीर्तिसम्युताय नमः । ओं सर्ववेदपारगाय नमः । ओं सर्वामयनिवारकाय नमः । ओं सनत्कुमार-संहितोक्तसत्कीर्तये नमः । ओं सर्वानुक्रमणिकोक्तमहिम्ने नमः । ओं सनकाय नमः । ९२०

ओं सनन्दाय नमः । ओं सर्वङ्कषाय नमः । ओं सनातनमूर्तये नमः । ओं सन्मुनीन्द्राय नमः । ओं सत्यात्मने नमः । ओं स्वर्गलोकवासिने नमः । ओं स्वयम्प्रकाशमूर्तये नमः । ओं सरस्वतीप्रसादलब्धाय नमः । ओं सत्यसङ्कल्पाय नमः । ओं सत्यवादिने नमः । ओं सत्रयाग महादीक्षा समन्विताय नमः । ओं सवेदगर्भाय नमः । ओं सर्वज्ञाय नमः । ओं सर्ववेदान्तपारङ्गताय नमः । ओं सर्वभाषाभिज्ञाय नमः । ओं सर्वतन्त्रस्वतन्त्राय नमः । ओं सामश्रवदेशिकाय नमः । ओं सामशाखाचार्याय नमः । ओं सावित्रीमन्त्रसारज्ञाय नमः । ओं सामवेदोक्तवैभवाय नमः । ९४०

ओं स्कन्दोक्तमहिम्ने नमः । ओं साङ्गोपाङ्गविद्यानुष्टिताय नमः । ओं साम्राज्यार्हाय नमः । ओं साङ्ख्ययोगसारज्ञाय नमः । ओं सारांशधर्मकर्त्रे नमः । ओं सारभूत यजुर्वेद प्रकाशकाय नमः । ओं सुनन्दानन्दवर्धनाय नमः । [नर्षनाय] ओं सुप्रसिद्धकीर्तये नमः । ओं सुषुप्ति दृष्टान्तेन मोक्षस्वरूप प्रसादकायनमः । ओं सुधर्मज्ञाय नमः । ओं सुषुप्ते बाह्याभ्यन्तर ज्ञानाभावेन ब्रह्मानन्दानुभव प्रदर्शकाय नमः । ओं सुमनसाङ्कामनाकल्पवृक्षाय नमः । ओं सुमन्तुसम्मानिताय नमः । ओं सुदुष्कर तपः कृते नमः । ओं सुतसहस्रसम्युक्ताय नमः । ओं सुनन्दानन्दकन्दाय नमः । ओं सूर्यनारायणावताराय नमः । ओं सूर्यान्तेवासिने नमः । ओं सूर्यलोकप्राप्तजयाय नमः । ओं सूर्यमण्डलस्थाय नमः । ९६०

ओं सूर्यसन्तोषकार्यकृते नमः । ओं सूर्योपासनतत्पराय नमः । ओं सूर्यस्वरूपाय नमः । ओं सूत्रकर्त्रे नमः । ओं सूर्यस्वरूपस्तुतिकृते नमः । ओं सूर्यलब्धवराय नमः । ओं सूर्यप्रसादलब्धसारस्वताय नमः । ओं सूर्यातिसूर्यभेदज्ञाय नमः । ओं सूर्यतेजोविजृम्भिताय नमः । ओं सूर्यप्राप्तब्रह्मविद्या-परिपूर्णमनोरथाय नमः । ओं सूर्यलोकस्थवैदिकप्रकाशन-पटुव्रताय नमः । ओं सूत्रात्मतत्त्वविदे नमः । ओं सूत्रात्मसत्ताप्रदर्शयित्रे नमः । ओं सोमवारव्रतज्ञाय नमः । ओं सोमकासुरापहृत-वेदप्रचुरकृते नमः । ओं सौरमन्त्रप्रभावज्ञाय नमः । ओं सौरसंहितोक्तवैभवाय नमः । ओं सौम्य महर्षेः शिष्याग्रगण्याय नमः । ओं सौम्य महर्षेः एष्यज्जन्म परिज्ञात्रे नमः । ओं हरिहरात्मकाय नमः । ९८०

ओं हरिवदनोपासकाय नमः । ओं हरिहरप्रभवे नमः । ओं हरिप्रसादलब्धवैदुष्याय नमः । ओं हरिहरहिरण्यगर्भ-प्रसादान्विताय नमः । ओं हयशिरोरूपप्रभावज्ञाय नमः । ओं हिरण्यकेशि-वेददात्रे नमः । ओं हिरण्मयेनेत्यादिमन्त्रोपासकाय नमः । ओं हिरण्यनाभाय-योगतत्त्वोपदेशकाय नमः । ओं हेमधेनुसहस्रप्राणदात्रे नमः । ओं होताश्वलजैत्रे नमः । ओं क्षत्रोपेदद्विजगुरवे नमः । ओं क्षमादिगुणोपेताय नमः । ओं क्षयवृद्धिभावविवर्जिताय नमः । ओं क्षत्रियवर्गोपयोग-राज्यतन्त्रप्रणेत्रे नमः । ओं क्षत्रियसहस्रशिरोलुठित-चरणपङ्कजाय नमः । ओं क्षत्राज्ञाकर्त्रे नमः । ओं क्षेत्रज्ञाय नमः । ओं क्षेमकृते नमः । ओं क्षेत्रजनस्थाने-जनकयज्ञसम्पादकाय नमः । ओं क्षेत्रक्षेत्रज्ञविवेकिने नमः । १०००

इति श्री याज्ञवल्क्य सहस्रनामावली ।

shri bala tripursundari namavali