Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति सहस्रनामावली

ओं देवदेवाय नमः ।

ओं महादेवाय नमः ।

ओं देवानामपि देशिकाय नमः ।

ओं दक्षिणामूर्तये नमः ।

ओं ईशानाय नमः ।

ओं दयापूरितदिङ्मुखाय नमः ।

ओं कैलासशिखरोत्तुङ्गकमनीयनिजाकृतये नमः ।

ओं वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः ।

ओं कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः ।

ओं पाटीरपाण्डुराकारपरिपूर्णसुधाधिपाय नमः ।

ओं जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः ।

ओं पश्यल्ललाटसुभगसुन्दरभ्रूविलासवते नमः ।

ओं कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः ।

ओं कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभुवे नमः ।

ओं तिलप्रसूनसङ्काशनासिकापुटभासुराय नमः ।

ओं मन्दस्मितस्फुरन्मुग्धमहनीयमुखाम्बुजाय नमः ।

ओं कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजिताय नमः ।

ओं सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः ।

ओं शङ्खाटोपगलद्दिव्यगलवैभवमञ्जुलाय नमः ।

ओं करकन्दलितज्ञानमुद्रारुद्राक्षमालिकाय नमः । २०

ओं अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः ।

ओं विशालरुचिरोरस्कवलिमत्पल्लवोदराय नमः ।

ओं बृहत्कटिनितम्बाढ्याय नमः ।

ओं पीवरोरुद्वयान्विताय नमः ।

ओं जङ्घाविजिततूणीराय नमः ।

ओं तुङ्गगुल्फयुगोज्ज्वलाय नमः ।

ओं मृदुपाटलपादाब्जाय नमः ।

ओं चन्द्राभनखदीधितये नमः ।

ओं अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः ।

ओं घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजाय नमः ।

ओं सनकादिमुनिध्येयाय नमः ।

ओं सर्वाभरणभूषिताय नमः ।

ओं दिव्यचन्दनलिप्ताङ्गाय नमः ।

ओं चारुहासपरिष्कृताय नमः ।

ओं कर्पूरधवलाकाराय नमः ।

ओं कन्दर्पशतसुन्दराय नमः ।

ओं कात्यायनीप्रेमनिधये नमः ।

ओं करुणारसवारिधये नमः ।

ओं कामितार्थप्रदाय नमः ।

ओं श्रीमत्कमलावल्लभप्रियाय नमः । ४०

ओं कटाक्षितात्मविज्ञानाय नमः ।

ओं कैवल्यानन्दकन्दलाय नमः ।

ओं मन्दहाससमानेन्दवे नमः ।

ओं छिन्नाज्ञानतमस्ततये नमः ।

ओं संसारानलसन्तप्तजनतामृतसागराय नमः ।

ओं गम्भीरहृदयाम्भोजनभोमणिनिभाकृतये नमः ।

ओं निशाकरकराकारवशीकृतजगत्त्रयाय नमः ।

ओं तापसाराध्यपादाब्जाय नमः ।

ओं तरुणानन्दविग्रहाय नमः ।

ओं भूतिभूषितसर्वाङ्गाय नमः ।

ओं भूताधिपतये नमः ।

ओं ईश्वराय नमः ।

ओं वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः ।

ओं तापत्रयतमोभानवे नमः ।

ओं पापारण्यदवानलाय नमः ।

ओं संसारसागरोद्धर्त्रे नमः ।

ओं हंसाग्र्योपास्यविग्रहाय नमः ।

ओं ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः ।

ओं तुच्छीकृतजगज्जालाय नमः ।

ओं तुषारकरशीतलाय नमः । ६०

ओं अस्तङ्गतसमस्तेच्छाय नमः ।

ओं निस्तुलानन्दमन्थराय नमः ।

ओं धीरोदात्तगुणाधाराय नमः ।

ओं उदारवरवैभवाय नमः ।

ओं अपारकरुणामूर्तये नमः ।

ओं अज्ञानध्वान्तभास्कराय नमः ।

ओं भक्तमानसहंसाग्र्याय नमः ।

ओं भवामयभिषक्तमाय नमः ।

ओं योगीन्द्रपूज्यपादाब्जाय नमः ।

ओं योगपट्टोल्लसत्कटये नमः ।

ओं शुद्धस्फटिकसङ्काशाय नमः ।

ओं बद्धपन्नगभूषणाय नमः ।

ओं नानामुनिसमाकीर्णाय नमः ।

ओं नासाग्रन्यस्तलोचनाय नमः ।

ओं वेदमूर्धैकसंवेद्याय नमः ।

ओं नादध्यानपरायणाय नमः ।

ओं धराधरेन्दवे नमः ।

ओं आनन्दसन्दोहरससागराय नमः ।

ओं द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुताय नमः ।

ओं प्रत्यगात्मने नमः । ८०

ओं परस्मैज्योतये नमः ।

ओं पुराणाय नमः ।

ओं परमेश्वराय नमः ।

ओं प्रपञ्चोपशमाय नमः ।

ओं प्राज्ञाय नमः ।

ओं पुण्यकीर्तये नमः ।

ओं पुरातनाय नमः ।

ओं सर्वाधिष्ठानसन्मात्राय नमः ।

ओं स्वात्मबन्धहराय नमः ।

ओं हराय नमः ।

ओं सर्वप्रेमनिजाहासाय नमः ।

ओं सर्वानुग्रहकृते नमः ।

ओं शिवाय नमः ।

ओं सर्वेन्द्रियगुणाभासाय नमः ।

ओं सर्वभूतगुणाश्रयाय नमः ।

ओं सच्चिदानन्दपूर्णात्मने नमः ।

ओं सर्वभूतगुणाश्रयाय नमः ।

ओं सर्वभूतान्तराय नमः ।

ओं साक्षिणे नमः ।

ओं सर्वज्ञाय नमः । १००

ओं सर्वकामदाय नमः ।

ओं सनकादिमहायोगिसमाराधितपादुकाय नमः ।

ओं आदिदेवाय नमः ।

ओं दयासिन्धवे नमः ।

ओं शिक्षितासुरविग्रहाय नमः ।

ओं यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय नमः ।

ओं ब्रह्मादिदेवविनुताय नमः ।

ओं योगमायानियोजकाय नमः ।

ओं शिवयोगिने नमः ।

ओं शिवानन्दाय नमः ।

ओं शिवभक्तसमुद्धराय नमः ।

ओं वेदान्तसारसन्दोहाय नमः ।

ओं सर्वसत्त्वावलम्बनाय नमः ।

ओं वटमूलाश्रयाय नमः ।

ओं वाग्मिने नमः ।

ओं मान्याय नमः ।

ओं मलयजप्रियाय नमः ।

ओं सुशीलाय नमः ।

ओं वाञ्छितार्थज्ञाय नमः ।

ओं प्रसन्नवदनेक्षणाय नमः । १२०

ओं नृत्तगीतकलाभिज्ञाय नमः ।

ओं कर्मविदे नमः ।

ओं कर्ममोचकाय नमः ।

ओं कर्मसाक्षिणे नमः ।

ओं कर्ममयाय नमः ।

ओं कर्मणां फलप्रदाय नमः ।

ओं ज्ञानदात्रे नमः ।

ओं सदाचाराय नमः ।

ओं सर्वोपद्रवमोचकाय नमः ।

ओं अनाथनाथाय नमः ।

ओं भगवते नमः ।

ओं आश्रितामरपादपाय नमः ।

ओं वरप्रदाय नमः ।

ओं प्रकाशात्मने नमः ।

ओं सर्वभूतहिते रताय नमः ।

ओं व्याघ्रचर्मासनासीनाय नमः ।

ओं आदिकर्त्रे नमः ।

ओं महेश्वराय नमः ।

ओं सुविक्रमाय नमः ।

ओं सर्वगताय नमः । १४०

ओं विशिष्टजनवत्सलाय नमः ।

ओं चिन्ताशोकप्रशमनाय नमः ।

ओं जगदानन्दकारकाय नमः ।

ओं रश्मिमते नमः ।

ओं भुवनेशाय नमः ।

ओं देवासुरसुपूजिताय नमः ।

ओं मृत्युञ्जयाय नमः ।

ओं व्योमकेशाय नमः ।

ओं षट्त्रिंशत्तत्त्वसङ्ग्रहाय नमः ।

ओं अज्ञातसम्भवाय नमः ।

ओं भिक्षवे नमः ।

ओं अद्वितीयाय नमः ।

ओं दिगम्बराय नमः ।

ओं समस्तदेवतामूर्तये नमः ।

ओं सोमसूर्याग्निलोचनाय नमः ।

ओं सर्वसाम्राज्यनिपुणाय नमः ।

ओं धर्ममार्गप्रवर्तकाय नमः ।

ओं विश्वाधिकाय नमः ।

ओं पशुपतये नमः ।

ओं पशुपाशविमोचकाय नमः । १६०

ओं अष्टमूर्तये नमः ।

ओं दीप्तमूर्तये नमः ।

ओं नामोच्चारणमुक्तिदाय नमः ।

ओं सहस्रादित्यसङ्काशाय नमः ।

ओं सदाषोडशवार्षिकाय नमः ।

ओं दिव्यकेलीसमायुक्ताय नमः ।

ओं दिव्यमाल्याम्बरावृताय नमः ।

ओं अनर्घरत्नसम्पूर्णाय नमः ।

ओं मल्लिकाकुसुमप्रियाय नमः ।

ओं तप्तचामीकराकाराय नमः ।

ओं जितदावानलाकृतये नमः ।

ओं निरञ्जनाय नमः ।

ओं निर्विकाराय नमः ।

ओं निजावासाय नमः ।

ओं निराकृतये नमः ।

ओं जगद्गुरवे नमः ।

ओं जगत्कर्त्रे नमः ।

ओं जगदीशाय नमः ।

ओं जगत्पतये नमः ।

ओं कामहन्त्रे नमः । १८०

ओं काममूर्तये नमः ।

ओं कल्याणवृषवाहनाय नमः ।

ओं गङ्गाधराय नमः ।

ओं महादेवाय नमः ।

ओं दीनबन्धविमोचकाय नमः ।

ओं धूर्जटये नमः ।

ओं खण्डपरशवे नमः ।

ओं सद्गुणाय नमः ।

ओं गिरिजासखाय नमः ।

ओं अव्ययाय नमः ।

ओं भूतसेनेशाय नमः ।

ओं पापघ्नाय नमः ।

ओं पुण्यदायकाय नमः ।

ओं उपदेष्ट्रे नमः ।

ओं दृढप्रज्ञाय नमः ।

ओं रुद्राय नमः ।

ओं रोगविनाशनाय नमः ।

ओं नित्यानन्दाय नमः ।

ओं निराधाराय नमः ।

ओं हराय नमः । २००

ओं देवशिखामणये नमः ।

ओं प्रणतार्तिहराय नमः ।

ओं सोमाय नमः ।

ओं सान्द्रानन्दाय नमः ।

ओं महामतये नमः ।

ओं आश्चर्यवैभवाय नमः ।

ओं देवाय नमः ।

ओं संसारार्णवतारकाय नमः ।

ओं यज्ञेशाय नमः ।

ओं राजराजेशाय नमः ।

ओं भस्मरुद्राक्षलाञ्छनाय नमः ।

ओं अनन्ताय नमः ।

ओं तारकाय नमः ।

ओं स्थाणवे नमः ।

ओं सर्वविद्येश्वराय नमः ।

ओं हरये नमः ।

ओं विश्वरूपाय नमः ।

ओं विरूपाक्षाय नमः ।

ओं प्रभवे नमः ।

ओं परिबृढाय नमः । २२०

ओं दृढाय नमः ।

ओं भव्याय नमः ।

ओं जितारिषड्वर्गाय नमः ।

ओं महोदाराय नमः ।

ओं विषाशनाय नमः ।

ओं सुकीर्तये नमः ।

ओं आदिपुरुषाय नमः ।

ओं जरामरणवर्जिताय नमः ।

ओं प्रमाणभूताय नमः ।

ओं दुर्ज्ञेयाय नमः ।

ओं पुण्याय नमः ।

ओं परपुरञ्जयाय नमः ।

ओं गुणाकराय नमः ।

ओं गुणश्रेष्ठाय नमः ।

ओं सच्चिदानन्दविग्रहाय नमः ।

ओं सुखदाय नमः ।

ओं कारणाय नमः ।

ओं कर्त्रे नमः ।

ओं भवबन्धविमोचकाय नमः ।

ओं अनिर्विण्णाय नमः । २४०

ओं गुणग्राहिणे नमः ।

ओं निष्कलङ्काय नमः ।

ओं कलङ्कघ्ने नमः ।

ओं पुरुषाय नमः ।

ओं शाश्वताय नमः ।

ओं योगिने नमः ।

ओं व्यक्ताव्यक्ताय नमः ।

ओं सनातनाय नमः ।

ओं चराचरात्मने नमः ।

ओं सूक्ष्मात्मने नमः ।

ओं विश्वकर्मणे नमः ।

ओं तमोपहृते नमः ।

ओं भुजङ्गभूषणाय नमः ।

ओं भर्गाय नमः ।

ओं तरुणाय नमः ।

ओं करुणालयाय नमः ।

ओं अणिमादिगुणोपेताय नमः ।

ओं लोकवश्यविधायकाय नमः ।

ओं योगपट्टधराय नमः ।

ओं मुक्ताय नमः । २६०

ओं मुक्तानां परमायै गतये नमः ।

ओं गुरुरूपधराय नमः ।

ओं श्रीमत्परमानन्दसागराय नमः ।

ओं सहस्रबाहवे नमः ।

ओं सर्वेशाय नमः ।

ओं सहस्रावयवान्विताय नमः ।

ओं सहस्रमूर्ध्ने नमः ।

ओं सर्वात्मने नमः ।

ओं सहस्राक्षाय नमः ।

ओं सहस्रपदे नमः ।

ओं निराभासाय नमः ।

ओं सूक्ष्मतनवे नमः ।

ओं हृदि ज्ञाताय नमः ।

ओं परात्पराय नमः ।

ओं सर्वात्मगाय नमः ।

ओं सर्वसाक्षिणे नमः ।

ओं निःसङ्गाय नमः ।

ओं निरुपद्रवाय नमः ।

ओं निष्कलाय नमः ।

ओं सकलाध्यक्षाय नमः । २८०

ओं चिन्मयाय नमः ।

ओं तमसः पराय नमः ।

ओं ज्ञानवैराग्यसम्पन्नाय नमः ।

ओं योगानन्दमयाय शिवाय नमः ।

ओं शाश्वतैश्वर्यसम्पूर्णाय नमः ।

ओं महायोगीश्वरेश्वराय नमः ।

ओं सहस्रशक्तिसम्युक्ताय नमः ।

ओं पुण्यकायाय नमः ।

ओं दुरासदाय नमः ।

ओं तारकब्रह्मसम्पूर्णाय नमः ।

ओं तपस्विजनसंवृताय नमः ।

ओं विधीन्द्रामरसम्पूज्याय नमः ।

ओं ज्योतिषां ज्योतिषे नमः ।

ओं उत्तमाय नमः ।

ओं निरक्षराय नमः ।

ओं निरालम्बाय नमः ।

ओं स्वात्मारामाय नमः ।

ओं विकर्तनाय नमः ।

ओं निरवद्याय नमः ।

ओं निरातङ्काय नमः । ३००

ओं भीमाय नमः ।

ओं भीमपराक्रमाय नमः ।

ओं वीरभद्राय नमः ।

ओं पुरारातये नमः ।

ओं जलन्धरशिरोहराय नमः ।

ओं अन्धकासुरसंहर्त्रे नमः ।

ओं भगनेत्रभिदे नमः ।

ओं अद्भुताय नमः ।

ओं विश्वग्रासाय नमः ।

ओं अधर्मशत्रवे नमः ।

ओं ब्रह्मज्ञानैकमन्थराय नमः ।

ओं अग्रेसराय नमः ।

ओं तीर्थभूताय नमः ।

ओं सितभस्मावकुण्ठनाय नमः ।

ओं अकुण्ठमेधसे नमः ।

ओं श्रीकण्ठाय नमः ।

ओं वैकुण्ठपरमप्रियाय नमः ।

ओं ललाटोज्ज्वलनेत्राब्जाय नमः ।

ओं तुषारकरशेखराय नमः ।

ओं गजासुरशिरश्छेत्त्रे नमः । ३२०

ओं गङ्गोद्भासितमूर्धजाय नमः ।

ओं कल्याणाचलकोदण्डाय नमः ।

ओं कमलापतिसायकाय नमः ।

ओं वारांशेवधितूणीराय नमः ।

ओं सरोजासनसारथये नमः ।

ओं त्रयीतुरङ्गसङ्क्रान्ताय नमः ।

ओं वासुकिज्याविराजिताय नमः ।

ओं रवीन्दुचरणाचारिधरारथविराजिताय नमः ।

ओं त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलाय नमः ।

ओं उत्तानपर्वलोमाढ्याय नमः ।

ओं लीलाविजितमन्मथाय नमः ।

ओं जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः ।

ओं संसारार्णवनिर्मग्नसमुद्धरणपण्डिताय नमः ।

ओं मदद्विरदधिक्कारिगतिमञ्जुलवैभवाय नमः ।

ओं मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः ।

ओं कैवल्योदधिकल्लोललीलाताण्डवपण्डिताय नमः ।

ओं विष्णवे नमः ।

ओं जिष्णवे नमः ।

ओं वासुदेवाय नमः ।

ओं प्रभविष्णवे नमः । ३४०

ओं पुरातनाय नमः ।

ओं वर्धिष्णवे नमः ।

ओं वरदाय नमः ।

ओं वैद्याय नमः ।

ओं हरये नमः ।

ओं नारायणाय नमः ।

ओं अच्युताय नमः ।

ओं अज्ञानवनदावाग्नये नमः ।

ओं प्रज्ञाप्रासादभूपतये नमः ।

ओं सर्पभूषितसर्वाङ्गाय नमः ।

ओं कर्पूरोज्ज्वलिताकृतये नमः ।

ओं अनादिमध्यनिधनाय नमः ।

ओं गिरीशाय नमः ।

ओं गिरिजापतये नमः ।

ओं वीतरागाय नमः ।

ओं विनीतात्मने नमः ।

ओं तपस्विने नमः ।

ओं भूतभावनाय नमः ।

ओं देवासुरगुरुध्येयाय नमः ।

ओं देवासुरनमस्कृताय नमः । ३६०

ओं देवादिदेवाय नमः ।

ओं देवर्षये नमः ।

ओं देवासुरवरप्रदाय नमः ।

ओं सर्वदेवमयाय नमः ।

ओं अचिन्त्याय नमः ।

ओं देवात्मने नमः ।

ओं आत्मसम्भवाय नमः ।

ओं निर्लेपाय नमः ।

ओं निष्प्रपञ्चात्मने नमः ।

ओं निर्विघ्नाय नमः ।

ओं विघ्ननाशकाय नमः ।

ओं एकज्योतिषे नमः ।

ओं निरातङ्काय नमः ।

ओं व्याप्तमूर्तये नमः ।

ओं अनाकुलाय नमः ।

ओं निरवद्यपदोपाधये नमः ।

ओं विद्याराशये नमः ।

ओं अनुत्तमाय नमः ।

ओं नित्यानन्दाय नमः ।

ओं सुराध्यक्षाय नमः । ३८०

ओं निःसङ्कल्पाय नमः ।

ओं निरञ्जनाय नमः ।

ओं निष्कलङ्काय नमः ।

ओं निराकाराय नमः ।

ओं निष्प्रपञ्चाय नमः ।

ओं निरामयाय नमः ।

ओं विद्याधराय नमः ।

ओं वियत्केशाय नमः ।

ओं मार्कण्डेयवरप्रदाय नमः ।

ओं भैरवाय नमः ।

ओं भैरवीनाथाय नमः ।

ओं कामदाय नमः ।

ओं कमलासनाय नमः ।

ओं वेदवेद्याय नमः ।

ओं सुरानन्दाय नमः ।

ओं लसज्ज्योतिषे नमः ।

ओं प्रभाकराय नमः ।

ओं चूडामणये नमः ।

ओं सुराधीशाय नमः ।

ओं यज्ञगेयाय नमः । ४००

ओं हरिप्रियाय नमः ।

ओं निर्लेपाय नमः ।

ओं नीतिमते नमः ।

ओं सूत्रिणे नमः ।

ओं श्रीहालाहलसुन्दराय नमः ।

ओं धर्मदक्षाय नमः ।

ओं महाराजाय नमः ।

ओं किरीटिने नमः ।

ओं वन्दिताय नमः ।

ओं गुहाय नमः ।

ओं माधवाय नमः ।

ओं यामिनीनाथाय नमः ।

ओं शम्बराय नमः ।

ओं शबरीप्रियाय नमः ।

ओं सङ्गीतवेत्त्रे नमः ।

ओं लोकज्ञाय नमः ।

ओं शान्ताय नमः ।

ओं कलशसम्भवाय नमः ।

ओं ब्रह्मण्याय नमः ।

ओं वरदाय नमः । ४२०

ओं नित्याय नमः ।

ओं शूलिने नमः ।

ओं गुरुवराय हराय नमः ।

ओं मार्ताण्डाय नमः ।

ओं पुण्डरीकाक्षाय नमः ।

ओं लोकनायकविक्रमाय नमः ।

ओं मुकुन्दार्च्याय नमः ।

ओं वैद्यनाथाय नमः ।

ओं पुरन्दरवरप्रदाय नमः ।

ओं भाषाविहीनाय नमः ।

ओं भाषाज्ञाय नमः ।

ओं विघ्नेशाय नमः ।

ओं विघ्ननाशनाय नमः ।

ओं किन्नरेशाय नमः ।

ओं बृहद्भानवे नमः ।

ओं श्रीनिवासाय नमः ।

ओं कपालभृते नमः ।

ओं विजयाय नमः ।

ओं भूतभावज्ञाय नमः ।

ओं भीमसेनाय नमः । ४४०

ओं दिवाकराय नमः ।

ओं बिल्वप्रियाय नमः ।

ओं वसिष्ठेशाय नमः ।

ओं सर्वमार्गप्रवर्तकाय नमः ।

ओं ओषधीशाय नमः ।

ओं वामदेवाय नमः ।

ओं गोविन्दाय नमः ।

ओं नीललोहिताय नमः ।

ओं षडर्धनयनाय नमः ।

ओं श्रीमन्महादेवाय नमः ।

ओं वृषध्वजाय नमः ।

ओं कर्पूरदीपिकालोलाय नमः ।

ओं कर्पूररसचर्चिताय नमः ।

ओं अव्याजकरुणामूर्तये नमः ।

ओं त्यागराजाय नमः ।

ओं क्षपाकराय नमः ।

ओं आश्चर्यविग्रहाय नमः ।

ओं सूक्ष्माय नमः ।

ओं सिद्धेशाय नमः ।

ओं स्वर्णभैरवाय नमः । ४६०

ओं देवराजाय नमः ।

ओं कृपासिन्धवे नमः ।

ओं अद्वयाय नमः ।

ओं अमितविक्रमाय नमः ।

ओं निर्भेदाय नमः ।

ओं नित्यसत्वस्थाय नमः ।

ओं निर्योगक्षेमाय नमः ।

ओं आत्मवते नमः ।

ओं निरपायाय नमः ।

ओं निरासङ्गाय नमः ।

ओं निःशब्दाय नमः ।

ओं निरुपाधिकाय नमः ।

ओं भवाय नमः ।

ओं सर्वेश्वराय नमः ।

ओं स्वामिने नमः ।

ओं भवभीतिविभञ्जनाय नमः ।

ओं दारिद्र्यतृणकूटाग्नये नमः ।

ओं दारितासुरसन्ततये नमः ।

ओं मुक्तिदाय नमः ।

ओं मुदिताय नमः । ४८०

ओं अकुब्जाय नमः ।

ओं धार्मिकाय नमः ।

ओं भक्तवत्सलाय नमः ।

ओं अभ्यासातिशयज्ञेयाय नमः ।

ओं चन्द्रमौलये नमः ।

ओं कलाधराय नमः ।

ओं महाबलाय नमः ।

ओं महावीर्याय नमः ।

ओं विभवे नमः ।

ओं श्रीशाय नमः ।

ओं शुभप्रदाय नमः ।

ओं सिद्धाय नमः ।

ओं पुराणपुरुषाय नमः ।

ओं रणमण्डलभैरवाय नमः ।

ओं सद्योजाताय नमः ।

ओं वटारण्यवासिने नमः ।

ओं पुरुषवल्लभाय नमः ।

ओं हरिकेशाय नमः ।

ओं महात्रात्रे नमः ।

ओं नीलग्रीवाय नमः । ५००

ओं सुमङ्गलाय नमः ।

ओं हिरण्यबाहवे नमः ।

ओं तीक्ष्णांशवे नमः ।

ओं कामेशाय नमः ।

ओं सोमविग्रहाय नमः ।

ओं सर्वात्मने नमः ।

ओं सर्वकर्त्रे नमः ।

ओं ताण्डवाय नमः ।

ओं मुण्डमालिकाय नमः ।

ओं अग्रगण्याय नमः ।

ओं सुगम्भीराय नमः ।

ओं देशिकाय नमः ।

ओं वैदिकोत्तमाय नमः ।

ओं प्रसन्नदेवाय नमः ।

ओं वागीशाय नमः ।

ओं चिन्तातिमिरभास्कराय नमः ।

ओं गौरीपतये नमः ।

ओं तुङ्गमौलये नमः ।

ओं मखराजाय नमः ।

ओं महाकवये नमः । ५२०

ओं श्रीधराय नमः ।

ओं सर्वसिद्धेशाय नमः ।

ओं विश्वनाथाय नमः ।

ओं दयानिधये नमः ।

ओं अन्तर्मुखाय नमः ।

ओं बहिर्दृष्टये नमः ।

ओं सिद्धवेषमनोहराय नमः ।

ओं कृत्तिवाससे नमः ।

ओं कृपासिन्धवे नमः ।

ओं मन्त्रसिद्धाय नमः ।

ओं मतिप्रदाय नमः ।

ओं महोत्कृष्टाय नमः ।

ओं पुण्यकराय नमः ।

ओं जगत्साक्षिणे नमः ।

ओं सदाशिवाय नमः ।

ओं महाक्रतवे नमः ।

ओं महायज्वने नमः ।

ओं विश्वकर्मणे नमः ।

ओं तपोनिधये नमः ।

ओं छन्दोमयाय नमः । ५४०

ओं महाज्ञानिने नमः ।

ओं सर्वज्ञाय नमः ।

ओं देववन्दिताय नमः ।

ओं सार्वभौमाय नमः ।

ओं सदानन्दाय नमः ।

ओं करुणामृतवारिधये नमः ।

ओं कालकालाय नमः ।

ओं कलिध्वंसिने नमः ।

ओं जरामरणनाशकाय नमः ।

ओं शितिकण्ठाय नमः ।

ओं चिदानन्दाय नमः ।

ओं योगिनीगणसेविताय नमः ।

ओं चण्डीशाय नमः ।

ओं शुकसंवेद्याय नमः ।

ओं पुण्यश्लोकाय नमः ।

ओं दिवस्पतये नमः ।

ओं स्थायिने नमः ।

ओं सकलतत्त्वात्मने नमः ।

ओं सदासेवकवर्धनाय नमः ।

ओं रोहिताश्वाय नमः । ५६०

ओं क्षमारूपिणे नमः ।

ओं तप्तचामीकरप्रभाय नमः ।

ओं त्रियम्बकाय नमः ।

ओं वररुचये नमः ।

ओं देवदेवाय नमः ।

ओं चतुर्भुजाय नमः ।

ओं विश्वम्भराय नमः ।

ओं विचित्राङ्गाय नमः ।

ओं विधात्रे नमः ।

ओं पुरशासनाय नमः ।

ओं सुब्रह्मण्याय नमः ।

ओं जगत्स्वामिने नमः ।

ओं रोहिताक्षाय नमः ।

ओं शिवोत्तमाय नमः ।

ओं नक्षत्रमालाभरणाय नमः ।

ओं मघवते नमः ।

ओं अघनाशनाय नमः ।

ओं विधिकर्त्रे नमः ।

ओं विधानज्ञाय नमः ।

ओं प्रधानपुरुषेश्वराय नमः । ५८०

ओं चिन्तामणये नमः ।

ओं सुरगुरवे नमः ।

ओं ध्येयाय नमः ।

ओं नीराजनप्रियाय नमः ।

ओं गोविन्दाय नमः ।

ओं राजराजेशाय नमः ।

ओं बहुपुष्पार्चनप्रियाय नमः ।

ओं सर्वानन्दाय नमः ।

ओं दयारूपिणे नमः ।

ओं शैलजासुमनोहराय नमः ।

ओं सुविक्रमाय नमः ।

ओं सर्वगताय नमः ।

ओं हेतुसाधनवर्जिताय नमः ।

ओं वृषाङ्काय नमः ।

ओं रमणीयाङ्गाय नमः ।

ओं सदङ्घ्रये नमः ।

ओं सामपारगाय नमः ।

ओं मन्त्रात्मने नमः ।

ओं कोटिकन्दर्पसौन्दर्यरसवारिधये नमः ।

ओं यज्ञेशाय नमः । ६००

ओं यज्ञपुरुषाय नमः ।

ओं सृष्टिस्थित्यन्तकारणाय नमः ।

ओं परहंसैकजिज्ञास्याय नमः ।

ओं स्वप्रकाशस्वरूपवते नमः ।

ओं मुनिमृग्याय नमः ।

ओं देवमृग्याय नमः ।

ओं मृगहस्ताय नमः ।

ओं मृगेश्वराय नमः ।

ओं मृगेन्द्रचर्मवसनाय नमः ।

ओं नरसिंहनिपातनाय नमः ।

ओं मुनिवन्द्याय नमः ।

ओं मुनिश्रेष्ठाय नमः ।

ओं मुनिबृन्दनिषेविताय नमः ।

ओं दुष्टमृत्यवे नमः ।

ओं अदुष्टेहाय नमः ।

ओं मृत्युघ्ने नमः ।

ओं मृत्युपूजिताय नमः ।

ओं अव्यक्ताय नमः ।

ओं अम्बुजजन्मादिकोटिकोटिसुपूजिताय नमः ।

ओं लिङ्गमूर्तये नमः । ६२०

ओं अलिङ्गात्मने नमः ।

ओं लिङ्गात्मने नमः ।

ओं लिङ्गविग्रहाय नमः ।

ओं यजुर्मूर्तये नमः ।

ओं साममूर्तये नमः ।

ओं ऋङ्मूर्तये नमः ।

ओं मूर्तिवर्जिताय नमः ।

ओं विश्वेशाय नमः ।

ओं गजचर्मैकचेलाञ्चितकटीतटाय नमः ।

ओं पावनान्तेवसद्योगिजनसार्थसुधाकराय नमः ।

ओं अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः ।

ओं चिन्ताशोकप्रशमनाय नमः ।

ओं सर्वविद्याविशारदाय नमः ।

ओं भक्तविज्ञप्तिसन्धात्रे नमः ।

ओं कर्त्रे नमः ।

ओं गिरिवराकृतये नमः ।

ओं ज्ञानप्रदाय नमः ।

ओं मनोवासाय नमः ।

ओं क्षेम्याय नमः ।

ओं मोहविनाशनाय नमः । ६४०

ओं सुरोत्तमाय नमः ।

ओं चित्रभानवे नमः ।

ओं सदावैभवतत्पराय नमः ।

ओं सुहृदग्रेसराय नमः ।

ओं सिद्धज्ञानमुद्राय नमः ।

ओं गणाधिपाय नमः ।

ओं आगमाय नमः ।

ओं चर्मवसनाय नमः ।

ओं वाञ्छितार्थफलप्रदाय नमः ।

ओं अन्तर्हिताय नमः ।

ओं असमानाय नमः ।

ओं देवसिंहासनाधिपाय नमः ।

ओं विवादहन्त्रे नमः ।

ओं सर्वात्मने नमः ।

ओं कालाय नमः ।

ओं कालविवर्जिताय नमः ।

ओं विश्वातीताय नमः ।

ओं विश्वकर्त्रे नमः ।

ओं विश्वेशाय नमः ।

ओं विश्वकारणाय नमः । ६६०

ओं योगिध्येयाय नमः ।

ओं योगनिष्ठाय नमः ।

ओं योगात्मने नमः ।

ओं योगवित्तमाय नमः ।

ओं ओङ्काररूपाय नमः ।

ओं भगवते नमः ।

ओं बिन्दुनादमयाय शिवाय नमः ।

ओं चतुर्मुखादिसंस्तुत्याय नमः ।

ओं चतुर्वर्गफलप्रदाय नमः ।

ओं सह्याचलगुहावासिने नमः ।

ओं साक्षान्मोक्षरसामृताय नमः ।

ओं दक्षाध्वरसमुच्छेत्त्रे नमः ।

ओं पक्षपातविवर्जिताय नमः ।

ओं ओङ्कारवाचकाय नमः ।

ओं शम्भवे नमः ।

ओं शङ्कराय नमः ।

ओं शशिशीतलाय नमः ।

ओं पङ्कजासनसंसेव्याय नमः ।

ओं किङ्करामरवत्सलाय नमः ।

ओं नतदौर्भाग्यतूलाग्नये नमः । ६८०

ओं कृतकौतुकमङ्गलाय नमः ।

ओं त्रिलोकमोहनाय नमः ।

ओं श्रीमत्त्रिपुण्ड्राङ्कितमस्तकाय नमः ।

ओं क्रौञ्चारिजनकाय नमः ।

ओं श्रीमद्गणनाथसुतान्विताय नमः ।

ओं अद्भुतानन्तवरदाय नमः ।

ओं अपरिच्छिनात्मवैभवाय नमः ।

ओं इष्टापूर्तप्रियाय नमः ।

ओं शर्वाय नमः ।

ओं एकवीराय नमः ।

ओं प्रियंवदाय नमः ।

ओं ऊहापोहविनिर्मुक्ताय नमः ।

ओं ओङ्कारेश्वरपूजिताय नमः ।

ओं रुद्राक्षवक्षसे नमः ।

ओं रुद्राक्षरूपाय नमः ।

ओं रुद्राक्षपक्षकाय नमः ।

ओं भुजगेन्द्रलसत्कण्ठाय नमः ।

ओं भुजङ्गाभरणप्रियाय नमः ।

ओं कल्याणरूपाय नमः ।

ओं कल्याणाय नमः । ७००

ओं कल्याणगुणसंश्रयाय नमः ।

ओं सुन्दरभ्रुवे नमः ।

ओं सुनयनाय नमः ।

ओं सुललाटाय नमः ।

ओं सुकन्धराय नमः ।

ओं विद्वज्जनाश्रयाय नमः ।

ओं विद्वज्जनस्तव्यपराक्रमाय नमः ।

ओं विनीतवत्सलाय नमः ।

ओं नीतिस्वरूपाय नमः ।

ओं नीतिसंश्रयाय नमः ।

ओं अतिरागिणे नमः ।

ओं वीतरागिणे नमः ।

ओं रागहेतवे नमः ।

ओं विरागविदे नमः ।

ओं रागघ्ने नमः ।

ओं रागशमनाय नमः ।

ओं रागदाय नमः ।

ओं रागिरागविदे नमः ।

ओं मनोन्मनाय नमः ।

ओं मनोरूपाय नमः । ७२०

ओं बलप्रमथनाय नमः ।

ओं बलाय नमः ।

ओं विद्याकराय नमः ।

ओं महाविद्याय नमः ।

ओं विद्याविद्याविशारदाय नमः ।

ओं वसन्तकृते नमः ।

ओं वसन्तात्मने नमः ।

ओं वसन्तेशाय नमः ।

ओं वसन्तदाय नमः ।

ओं प्रावृट्कृते नमः ।

ओं प्रावृडाकाराय नमः ।

ओं प्रावृट्कालप्रवर्तकाय नमः ।

ओं शरन्नाथाय नमः ।

ओं शरत्कालनाशकाय नमः ।

ओं शरदाश्रयाय नमः ।

ओं कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः ।

ओं दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय नमः ।

ओं देवासुरगुरुस्तव्याय नमः ।

ओं देवासुरनमस्कृताय नमः ।

ओं वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियाय नमः । ७४०

ओं कीर्त्याधाराय नमः ।

ओं कीर्तिकराय नमः ।

ओं कीर्तिहेतवे नमः ।

ओं अहेतुकाय नमः ।

ओं शरणागतदीनार्तपरित्राणपरायणाय नमः ।

ओं महाप्रेतासनासीनाय नमः ।

ओं जितसर्वपितामहाय नमः ।

ओं मुक्तादामपरीताङ्गाय नमः ।

ओं नानागानविशारदाय नमः ।

ओं विष्णुब्रह्मादिवन्द्याङ्घ्रये नमः ।

ओं नानादेशैकनायकाय नमः ।

ओं धीरोदात्ताय नमः ।

ओं महाधीराय नमः ।

ओं धैर्यदाय नमः ।

ओं धैर्यवर्धकाय नमः ।

ओं विज्ञानमयाय नमः ।

ओं आनन्दमयाय नमः ।

ओं प्राणमयाय नमः ।

ओं अन्नदाय नमः ।

ओं भवाब्धितरणोपायाय नमः । ७६०

ओं कवये नमः ।

ओं दुःस्वप्ननाशनाय नमः ।

ओं गौरीविलाससदनाय नमः ।

ओं पिशचानुचरावृताय नमः ।

ओं दक्षिणाप्रेमसन्तुष्टाय नमः ।

ओं दारिद्र्यवडवानलाय नमः ।

ओं अद्भुतानन्तसङ्ग्रामाय नमः ।

ओं ढक्कावादनतत्पराय नमः ।

ओं प्राच्यात्मने नमः ।

ओं दक्षिणाकाराय नमः ।

ओं प्रतीच्यात्मने नमः ।

ओं उत्तराकृतये नमः ।

ओं ऊर्ध्वाद्यन्यदिगाकाराय नमः ।

ओं मर्मज्ञाय नमः ।

ओं सर्वशिक्षकाय नमः ।

ओं युगावहाय नमः ।

ओं युगाधीशाय नमः ।

ओं युगात्मने नमः ।

ओं युगनायकाय नमः ।

ओं जङ्गमाय नमः । ७८०

ओं स्थावराकाराय नमः ।

ओं कैलासशिखरप्रियाय नमः ।

ओं हस्तराजत्पुण्डरीकाय नमः ।

ओं पुण्डरीकनिभेक्षणाय नमः ।

ओं लीलाविडम्बितवपुषे नमः ।

ओं भक्तमानसमण्डिताय नमः ।

ओं बृन्दारकप्रियतमाय नमः ।

ओं बृन्दारकवरार्चिताय नमः ।

ओं नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः ।

ओं निःसीममहिम्ने नमः ।

ओं नित्यलीलाविग्रहरूपधृते नमः ।

ओं चन्दनद्रवदिग्धाङ्गाय नमः ।

ओं चाम्पेयकुसुमार्चिताय नमः ।

ओं समस्तभक्तसुखदाय नमः ।

ओं परमाणवे नमः ।

ओं महाह्रदाय नमः ।

ओं अलौकिकाय नमः ।

ओं दुष्प्रधर्षाय नमः ।

ओं कपिलाय नमः ।

ओं कालकन्धराय नमः । ८००

ओं कर्पूरगौराय नमः ।

ओं कुशलाय नमः ।

ओं सत्यसन्धाय नमः ।

ओं जितेन्द्रियाय नमः ।

ओं शाश्वतैश्वर्यविभवाय नमः ।

ओं पोषकाय नमः ।

ओं सुसमाहिताय नमः ।

ओं महर्षिनाथिताय नमः ।

ओं ब्रह्मयोनये नमः ।

ओं सर्वोत्तमोत्तमाय नमः ।

ओं भूमिभारार्तिसंहर्त्रे नमः ।

ओं षडूर्मिरहिताय नमः ।

ओं मृडाय नमः ।

ओं त्रिविष्टपेश्वराय नमः ।

ओं सर्वहृदयाम्बुजमध्यगाय नमः ।

ओं सहस्रदलपद्मस्थाय नमः ।

ओं सर्ववर्णोपशोभिताय नमः ।

ओं पुण्यमूर्तये नमः ।

ओं पुण्यलभ्याय नमः ।

ओं पुण्यश्रवणकीर्तनाय नमः । ८२०

ओं सूर्यमण्डलमध्यस्थाय नमः ।

ओं चन्द्रमण्डलमध्यगाय नमः ।

ओं सद्भक्तध्याननिगलाय नमः ।

ओं शरणागतपालकाय नमः ।

ओं श्वेतातपत्ररुचिराय नमः ।

ओं श्वेतचामरवीजिताय नमः ।

ओं सर्वावयवसम्पूर्णाय नमः ।

ओं सर्वलक्षणलक्षिताय नमः ।

ओं सर्वमङ्गलमाङ्गल्याय नमः ।

ओं सर्वकारणकारणाय नमः ।

ओं आमोदाय नमः ।

ओं मोदजनकाय नमः ।

ओं सर्पराजोत्तरीयकाय नमः ।

ओं कपालिने नमः ।

ओं कोविदाय नमः ।

ओं सिद्धकान्तिसंवलिताननाय नमः ।

ओं सर्वसद्गुरुसंसेव्याय नमः ।

ओं दिव्यचन्दनचर्चिताय नमः ।

ओं विलासिनीकृतोल्लासाय नमः ।

ओं इच्छाशक्तिनिषेविताय नमः । ८४०

ओं अनन्तानन्दसुखदाय नमः ।

ओं नन्दनाय नमः ।

ओं श्रीनिकेतनाय नमः ।

ओं अमृताब्धिकृतावासाय नमः ।

ओं नित्यक्लीबाय नमः ।

ओं निरामयाय नमः ।

ओं अनपायाय नमः ।

ओं अनन्तदृष्टये नमः ।

ओं अप्रमेयाय नमः ।

ओं अजराय नमः ।

ओं अमराय नमः ।

ओं तमोमोहप्रतिहतये नमः ।

ओं अप्रतर्क्याय नमः ।

ओं अमृताय नमः ।

ओं अक्षराय नमः ।

ओं अमोघबुद्धये नमः ।

ओं आधाराय नमः ।

ओं आधाराधेयवर्जिताय नमः ।

ओं ईषणात्रयनिर्मुक्ताय नमः ।

ओं इहामुत्रविवर्जिताय नमः । ८६०

ओं ऋग्यजुःसामनयनाय नमः ।

ओं बुद्धिसिद्धिसमृद्धिदाय नमः ।

ओं औदार्यनिधये नमः ।

ओं आपूर्णाय नमः ।

ओं ऐहिकामुष्मिकप्रदाय नमः ।

ओं शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहाय नमः ।

ओं दर्शनप्रथमाभासाय नमः ।

ओं दृष्टिदृश्यविवर्जिताय नमः ।

ओं अग्रगण्याय नमः ।

ओं अचिन्त्यरूपाय नमः ।

ओं कलिकल्मषनाशनाय नमः ।

ओं विमर्शरूपाय नमः ।

ओं विमलाय नमः ।

ओं नित्यरूपाय नमः ।

ओं निराश्रयाय नमः ।

ओं नित्यशुद्धाय नमः ।

ओं नित्यबुद्धाय नमः ।

ओं नित्यमुक्ताय नमः ।

ओं अपराकृताय नमः ।

ओं मैत्र्यादिवासनालभ्याय नमः । ८८०

ओं महाप्रलयसंस्थिताय नमः ।

ओं महाकैलासनिलयाय नमः ।

ओं प्रज्ञानघनविग्रहाय नमः ।

ओं श्रीमते नमः ।

ओं व्याघ्रपुरावासाय नमः ।

ओं भुक्तिमुक्तिप्रदायकाय नमः ।

ओं जगद्योनये नमः ।

ओं जगत्साक्षिणे नमः ।

ओं जगदीशाय नमः ।

ओं जगन्मयाय नमः ।

ओं जपाय नमः ।

ओं जपपराय नमः ।

ओं जप्याय नमः ।

ओं विद्यासिंहासनप्रभवे नमः ।

ओं तत्त्वानां प्रकृतये नमः ।

ओं तत्त्वाय नमः ।

ओं तत्त्वम्पदनिरूपिताय नमः ।

ओं दिक्कालाद्यनवच्छिन्नाय नमः ।

ओं सहजानन्दसागराय नमः ।

ओं प्रकृतये नमः । ९००

ओं प्राकृतातीताय नमः ।

ओं विज्ञानैकरसाकृतये नमः ।

ओं निःशङ्कमतिदूरस्थाय नमः ।

ओं चैत्यचेतनचिन्तनाय नमः ।

ओं तारकानां हृदन्तस्थाय नमः ।

ओं तारकाय नमः ।

ओं तारकान्तकाय नमः ।

ओं ध्यानैकप्रकटाय नमः ।

ओं ध्येयाय नमः ।

ओं ध्यानिने नमः ।

ओं ध्यानविभूषणाय नमः ।

ओं परस्मै व्योम्ने नमः ।

ओं परस्मै धाम्ने नमः ।

ओं परमात्मने नमः ।

ओं परस्मै पदाय नमः ।

ओं पूर्णानन्दाय नमः ।

ओं सदानन्दाय नमः ।

ओं नादमध्यप्रतिष्ठिताय नमः ।

ओं प्रमाविपर्ययातीताय नमः ।

ओं प्रणताज्ञाननाशकाय नमः । ९२०

ओं बाणार्चिताङ्घ्रये नमः ।

ओं बहुदाय नमः ।

ओं बालकेलिकुतूहलिने नमः ।

ओं ब्रह्मरूपिणे नमः ।

ओं ब्रह्मपदाय नमः ।

ओं ब्रह्मविदे नमः ।

ओं ब्राह्मणप्रियाय नमः ।

ओं भूक्षेपदत्तलक्ष्मीकाय नमः ।

ओं भ्रूमध्यध्यानलक्षिताय नमः ।

ओं यशस्कराय नमः ।

ओं रत्नगर्भाय नमः ।

ओं महाराज्यसुखप्रदाय नमः ।

ओं शब्दब्रह्मणे नमः ।

ओं शमप्राप्याय नमः ।

ओं लाभकृते नमः ।

ओं लोकविश्रुताय नमः ।

ओं शास्त्रे नमः ।

ओं शिवाद्रिनिलयाय नमः ।

ओं शरण्याय नमः ।

ओं याजकप्रियाय नमः । ९४०

ओं संसारवैद्याय नमः ।

ओं सर्वज्ञाय नमः ।

ओं सभेषजविभेषजाय नमः ।

ओं मनोवचोभिरग्राह्याय नमः ।

ओं पञ्चकोशविलक्षणाय नमः ।

ओं अवस्थात्रयनिर्मुक्ताय नमः ।

ओं अवस्थासाक्षितुर्यकाय नमः ।

ओं पञ्चभूतादिदूरस्थाय नमः ।

ओं प्रत्यगेकरसाय नमः ।

ओं अव्ययाय नमः ।

ओं षट्चक्रान्तर्गतोल्लासिने नमः ।

ओं षड्विकारविवर्जिताय नमः ।

ओं विज्ञानघनसम्पूर्णाय नमः ।

ओं वीणावादनतत्पराय नमः ।

ओं नीहाराकारगौराङ्गाय नमः ।

ओं महालावण्यवारिधये नमः ।

ओं पराभिचारशमनाय नमः ।

ओं षडध्वोपरिसंस्थिताय नमः ।

ओं सुषुम्नामार्गसञ्चारिणे नमः ।

ओं बिसतन्तुनिभाकृतये नमः । ९६०

ओं पिनाकिने नमः ।

ओं लिङ्गरूपश्रिये नमः ।

ओं मङ्गलावयवोज्ज्वलाय नमः ।

ओं क्षेत्राधिपाय नमः ।

ओं सुसंवेद्याय नमः ।

ओं श्रीप्रदाय नमः ।

ओं विभवप्रदाय नमः ।

ओं सर्ववश्यकराय नमः ।

ओं सर्वदोषघ्ने नमः ।

ओं पुत्रपौत्रदाय नमः ।

ओं तैलदीपप्रियाय नमः ।

ओं तैलपक्वान्नप्रीतमानसाय नमः ।

ओं तैलाभिषेकसन्तुष्टाय नमः ।

ओं तिलभक्षणतत्पराय नमः ।

ओं आपादकणिकामुक्ताभूषाशतमनोहराय नमः ।

ओं शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय नमः ।

ओं मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजाय नमः ।

ओं अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः ।

ओं कन्दर्पतूणाभजङ्घाय नमः ।

ओं गुल्फोदञ्चितनूपुराय नमः । ९८०

ओं करिहस्तोपमेयोरवे नमः ।

ओं आदर्शोज्ज्वलजानुभृते नमः ।

ओं विशङ्कटकटिन्यस्तवाचालमणिमेखलाय नमः ।

ओं आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः ।

ओं मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जिताय नमः ।

ओं वीरासनसमासीनाय नमः ।

ओं वीणापुस्तोल्लसत्कराय नमः ।

ओं अक्षमालालसत्पाणये नमः ।

ओं चिन्मुद्रितकराम्बुजाय नमः ।

ओं माणिक्यकङ्कणोल्लासिकराम्बुजविराजिताय नमः ।

ओं अनर्घरत्नग्रैवेयविलसत्कम्बुकन्धराय नमः ।

ओं अनाकलितसादृश्यचिबुकश्रीविराजिताय नमः ।

ओं मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः ।

ओं चारुचाम्पेयपुष्पाभनासिकापुटरञ्जिताय नमः ।

ओं वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः ।

ओं कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डिताय नमः ।

ओं करुणालहरीपूर्णकर्णान्तायतलोचनाय नमः ।

ओं अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः ।

ओं चारुचामीकराकारजटाचर्चितचन्दनाय नमः ।

ओं कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः । १०००

इति श्री दक्षिणामूर्ति सहस्रनामावली ॥

sri dakshinamurthy sahasranamavali