Skip to main content
पडताळणी प्रलंबित

श्री चामुण्डेश्वरी अष्टोत्तरशतनामावली

ओं श्रीचामुण्डायै नमः ।

ओं माहामायायै नमः ।

ओं श्रीमत्सिंहासनेश्वर्यै नमः ।

ओं श्रीविद्यावेद्यमहिमायै नमः ।

ओं श्रीचक्रपुरवासिन्यै नमः ।

ओं श्रीकण्ठदयितायै नमः ।

ओं गौर्यै नमः ।

ओं गिरिजायै नमः ।

ओं भुवनेश्वर्यै नमः । ९

ओं महाकाल्यै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं महावाण्यै नमः ।

ओं मनोन्मन्यै नमः ।

ओं सहस्रशीर्षसम्युक्तायै नमः ।

ओं सहस्रकरमण्डितायै नमः ।

ओं कौसुम्भवसनोपेतायै नमः ।

ओं रत्नकञ्चुकधारिण्यै नमः ।

ओं गणेशस्कन्दजनन्यै नमः । १८

ओं जपाकुसुमभासुरायै नमः ।

ओं उमायै नमः ।

ओं कात्यायन्यै नमः ।

ओं दुर्गायै नमः ।

ओं मन्त्रिण्यै नमः ।

ओं दण्डिन्यै नमः ।

ओं जयायै नमः ।

ओं कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः ।

ओं सचामररमावाणीसव्यदक्षिणसेवितायै नमः । २७

ओं इन्द्राक्ष्यै नमः ।

ओं बगलायै नमः ।

ओं बालायै नमः ।

ओं चक्रेश्यै नमः ।

ओं विजयाम्बिकायै नमः ।

ओं पञ्चप्रेतासनारूढायै नमः ।

ओं हरिद्राकुङ्कुमप्रियायै नमः ।

ओं महाबलाद्रिनिलयायै नमः ।

ओं महिषासुरमर्दिन्यै नमः । ३६

ओं मधुकैटभसंहर्त्र्यै नमः ।

ओं मथुरापुरनायिकायै नमः ।

ओं कामेश्वर्यै नमः ।

ओं योगनिद्रायै नमः ।

ओं भवान्यै नमः ।

ओं चण्डिकायै नमः ।

ओं सत्यै नमः ।

ओं चक्रराजरथारूढायै नमः ।

ओं सृष्टिस्थित्यन्तकारिण्यै नमः । ४५

ओं अन्नपूर्णायै नमः ।

ओं ज्वलज्जिह्वायै नमः ।

ओं कालरात्रिस्वरूपिण्यै नमः ।

ओं निशुम्भशुम्भदमन्यै नमः ।

ओं रक्तबीजनिषूदिन्यै नमः ।

ओं ब्राह्म्यादिमातृकारूपायै नमः ।

ओं शुभायै नमः ।

ओं षट्चक्रदेवतायै नमः ।

ओं मूलप्रकृतिरूपायै नमः । ५४

ओं आर्यायै नमः ।

ओं पार्वत्यै नमः ।

ओं परमेश्वर्यै नमः ।

ओं बिन्दुपीठकृतावासायै नमः ।

ओं चन्द्रमण्डलमध्यगायै नमः ।

ओं चिदग्निकुण्डसम्भूतायै नमः ।

ओं विन्ध्याचलनिवासिन्यै नमः ।

ओं हयग्रीवागस्त्यपूज्यायै नमः ।

ओं सूर्यचन्द्राग्निलोचनायै नमः । ६३

ओं जालन्धरसुपीठस्थायै नमः ।

ओं शिवायै नमः ।

ओं दाक्षायण्यै नमः ।

ओं ईश्वर्यै नमः ।

ओं नवावरणसम्पूज्यायै नमः ।

ओं नवाक्षरमनुस्तुतायै नमः ।

ओं नवलावण्यरूपाढ्यायै नमः ।

ओं ज्वलद्द्वात्रिंशतायुधायै नमः ।

ओं कामेशबद्धमाङ्गल्यायै नमः । ७२

ओं चन्द्ररेखाविभूषितायै नमः ।

ओं चराचरजगद्रूपायै नमः ।

ओं नित्यक्लिन्नायै नमः ।

ओं अपराजितायै नमः ।

ओं ओड्याणपीठनिलयायै नमः ।

ओं ललितायै नमः ।

ओं विष्णुसोदर्यै नमः ।

ओं दंष्ट्राकरालवदनायै नमः ।

ओं वज्रेश्यै नमः । ८१

ओं वह्निवासिन्यै नमः ।

ओं सर्वमङ्गलरूपाढ्यायै नमः ।

ओं सच्चिदानन्दविग्रहायै नमः ।

ओं अष्टादशसुपीठस्थायै नमः ।

ओं भेरुण्डायै नमः ।

ओं भैरव्यै नमः ।

ओं परायै नमः ।

ओं रुण्डमालालसत्कण्ठायै नमः ।

ओं भण्डासुरविमर्दिन्यै नमः । ९०

ओं पुण्ड्रेक्षुकाण्डकोदण्डायै नमः ।

ओं पुष्पबाणलसत्करायै नमः ।

ओं शिवदूत्यै नमः ।

ओं वेदमात्रे नमः ।

ओं शाङ्कर्यै नमः ।

ओं सिंहवाहनायै नमः ।

ओं चतुःषष्ट्युपचाराढ्यायै नमः ।

ओं योगिनीगणसेवितायै नमः ।

ओं वनदुर्गायै नमः । ९९

ओं भद्रकाल्यै नमः ।

ओं कदम्बवनवासिन्यै नमः ।

ओं चण्डमुण्डशिरश्छेत्र्यै नमः ।

ओं महाराज्ञ्यै नमः ।

ओं सुधामय्यै नमः ।

ओं श्रीचक्रवरताटङ्कायै नमः ।

ओं श्रीशैलभ्रमराम्बिकायै नमः ।

ओं श्रीराजराजवरदायै नमः ।

ओं श्रीमत्त्रिपुरसुन्दर्यै नमः । १०८

sri chamundeshwari ashtottara shatanamavali