Skip to main content
पडताळणी प्रलंबित

श्री षोडशी अष्टोत्तरशतनामावली

ओं त्रिपुरायै नमः ।

ओं षोडश्यै नमः ।

ओं मात्रे नमः ।

ओं त्र्यक्षरायै नमः ।

ओं त्रितयायै नमः ।

ओं त्रय्यै नमः ।

ओं सुन्दर्यै नमः ।

ओं सुमुख्यै नमः ।

ओं सेव्यायै नमः । ९

ओं सामवेदपरायणायै नमः ।

ओं शारदायै नमः ।

ओं शब्दनिलयायै नमः ।

ओं सागरायै नमः ।

ओं सरिदम्बरायै नमः ।

ओं शुद्धायै नमः ।

ओं शुद्धतनवे नमः ।

ओं साध्व्यै नमः ।

ओं शिवध्यानपरायणायै नमः । १८

ओं स्वामिन्यै नमः ।

ओं शम्भुवनितायै नमः ।

ओं शाम्भव्यै नमः ।

ओं सरस्वत्यै नमः ।

ओं समुद्रमथिन्यै नमः ।

ओं शीघ्रगामिन्यै नमः ।

ओं शीघ्रसिद्धिदायै नमः ।

ओं साधुसेव्यायै नमः ।

ओं साधुगम्यायै नमः । २७

ओं साधुसन्तुष्टमानसायै नमः ।

ओं खट्वाङ्गधारिण्यै नमः ।

ओं खर्वायै नमः ।

ओं खड्गखर्परधारिण्यै नमः ।

ओं षड्वर्गभावरहितायै नमः ।

ओं षड्वर्गपरिचारिकायै नमः ।

ओं षड्वर्गायै नमः ।

ओं षडङ्गायै नमः ।

ओं षोढायै नमः । ३६

ओं षोडशवार्षिक्यै नमः ।

ओं क्रतुरूपायै नमः ।

ओं क्रतुमत्यै नमः ।

ओं ऋभुक्षक्रतुमण्डितायै नमः ।

ओं कवर्गादिपवर्गान्तायै नमः ।

ओं अन्तःस्थायै नमः ।

ओं अनन्तरूपिण्यै नमः ।

ओं अकाराकाररहितायै नमः ।

ओं कालमृत्युजरापहायै नमः । ४५

ओं तन्व्यै नमः ।

ओं तत्त्वेश्वर्यै नमः ।

ओं तारायै नमः ।

ओं त्रिवर्षायै नमः ।

ओं ज्ञानरूपिण्यै नमः ।

ओं काल्यै नमः ।

ओं कराल्यै नमः ।

ओं कामेश्यै नमः ।

ओं छायायै नमः । ५४

ओं सञ्ज्ञायै नमः ।

ओं अरुन्धत्यै नमः ।

ओं निर्विकल्पायै नमः ।

ओं महावेगायै नमः ।

ओं महोत्साहायै नमः ।

ओं महोदर्यै नमः ।

ओं मेघायै नमः ।

ओं बलाकायै नमः ।

ओं विमलायै नमः । ६३

ओं विमलज्ञानदायिन्यै नमः ।

ओं गौर्यै नमः ।

ओं वसुन्धरायै नमः ।

ओं गोप्त्र्यै नमः ।

ओं गवां पतिनिषेवितायै नमः ।

ओं भगाङ्गायै नमः ।

ओं भगरूपायै नमः ।

ओं भक्तिपरायणायै नमः ।

ओं भावपरायणायै नमः । ७२

ओं छिन्नमस्तायै नमः ।

ओं महाधूमायै नमः ।

ओं धूम्रविभूषणायै नमः ।

ओं धर्मकर्मादिरहितायै नमः ।

ओं धर्मकर्मपरायणायै नमः ।

ओं सीतायै नमः ।

ओं मातङ्गिन्यै नमः ।

ओं मेधायै नमः ।

ओं मधुदैत्यविनाशिन्यै नमः । ८१

ओं भैरव्यै नमः ।

ओं भुवनायै नमः ।

ओं मात्रे नमः ।

ओं अभयदायै नमः ।

ओं भवसुन्दर्यै नमः ।

ओं भावुकायै नमः ।

ओं बगलायै नमः ।

ओं कृत्यायै नमः ।

ओं बालायै नमः । ९०

ओं त्रिपुरसुन्दर्यै नमः ।

ओं रोहिण्यै नमः ।

ओं रेवत्यै नमः ।

ओं रम्यायै नमः ।

ओं रम्भायै नमः ।

ओं रावणवन्दितायै नमः ।

ओं शतयज्ञमय्यै नमः ।

ओं सत्त्वायै नमः ।

ओं शतक्रतुवरप्रदायै नमः । ९९

ओं शतचन्द्राननायै नमः ।

ओं देव्यै नमः ।

ओं सहस्रादित्यसन्निभायै नमः ।

ओं सोमसूर्याग्निनयनायै नमः ।

ओं व्याघ्रचर्माम्बरावृतायै नमः ।

ओं अर्धेन्दुधारिण्यै नमः ।

ओं मत्तायै नमः ।

ओं मदिरायै नमः ।

ओं मदिरेक्षणायै नमः । १०८

sri shodashi ashtottara shatanamavali