Skip to main content
पडताळणी प्रलंबित

श्री प्रत्यङ्गिरा अष्टोत्तरशतनामावली

ओं प्रत्यङ्गिरायै नमः ।

ओं ओङ्काररूपिण्यै नमः ।

ओं क्षं ह्रां बीजप्रेरितायै नमः ।

ओं विश्वरूपायै नमः ।

ओं विरूपाक्षप्रियायै नमः ।

ओं ऋङ्मन्त्रपारायणप्रीतायै नमः ।

ओं कपालमालालङ्कृतायै नमः ।

ओं नागेन्द्रभूषणायै नमः ।

ओं नागयज्ञोपवीतधारिण्यै नमः । ९

ओं कुञ्चितकेशिन्यै नमः ।

ओं कपालखट्वाङ्गधारिण्यै नमः ।

ओं शूलिन्यै नमः ।

ओं रक्तनेत्रज्वालिन्यै नमः ।

ओं चतुर्भुजायै नमः ।

ओं डमरुकधारिण्यै नमः ।

ओं ज्वालाकरालवदनायै नमः ।

ओं ज्वालाजिह्वायै नमः ।

ओं करालदंष्ट्रायै नमः । १८

ओं आभिचारिकहोमाग्निसमुत्थितायै नमः ।

ओं सिंहमुखायै नमः ।

ओं महिषासुरमर्दिन्यै नमः ।

ओं धूम्रलोचनायै नमः ।

ओं कृष्णाङ्गायै नमः ।

ओं प्रेतवाहनायै नमः ।

ओं प्रेतासनायै नमः ।

ओं प्रेतभोजिन्यै नमः ।

ओं रक्तप्रियायै नमः । २७

ओं शाकमांसप्रियायै नमः ।

ओं अष्टभैरवसेवितायै नमः ।

ओं डाकिनीपरिसेवितायै नमः ।

ओं मधुपानप्रियायै नमः ।

ओं बलिप्रियायै नमः ।

ओं सिंहवाहनायै नमः ।

ओं सिंहगर्जिन्यै नमः ।

ओं परमन्त्रविदारिण्यै नमः ।

ओं परयन्त्रविनाशिन्यै नमः । ३६

ओं परकृत्या विध्वंसिन्यै नमः ।

ओं गुह्यविद्यायै नमः ।

ओं सिद्धविद्यायै नमः ।

ओं योनिरूपिण्यै नमः ।

ओं नवयोनिचक्रात्मिकायै नमः ।

ओं वीररूपायै नमः ।

ओं दुर्गारूपायै नमः ।

ओं महाभीषणायै नमः ।

ओं घोररूपिण्यै नमः । ४५

ओं महाक्रूरायै नमः ।

ओं हिमाचलनिवासिन्यै नमः ।

ओं वराभयप्रदायै नमः ।

ओं विषुरूपायै नमः ।

ओं शत्रुभयङ्कर्यै नमः ।

ओं विद्युद्घातायै नमः ।

ओं शत्रुमूर्धस्फोटनायै नमः ।

ओं विधूमाग्निसमप्रभायै नमः ।

ओं महामायायै नमः । ५४

ओं माहेश्वरप्रियायै नमः ।

ओं शत्रुकार्यहानिकर्यै नमः ।

ओं ममकार्यसिद्धिकर्यै नमः ।

ओं शत्रूणां उद्योगविघ्नकर्यै नमः ।

ओं मम सर्वोद्योगवश्यकर्यै नमः ।

ओं शत्रुपशुपुत्रविनाशिन्यै नमः ।

ओं त्रिनेत्रायै नमः ।

ओं सुरासुरनिषेवितायै नमः ।

ओं तीव्रसाधकपूजितायै नमः । ६३

ओं नवग्रहशासिन्यै नमः ।

ओं आश्रितकल्पवृक्षायै नमः ।

ओं भक्तप्रसन्नरूपिण्यै नमः ।

ओं अनन्तकल्याणगुणाभिरामायै नमः ।

ओं कामरूपिण्यै नमः ।

ओं क्रोधरूपिण्यै नमः ।

ओं मोहरूपिण्यै नमः ।

ओं मदरूपिण्यै नमः ।

ओं उग्रायै नमः । ७२

ओं नारसिंह्यै नमः ।

ओं मृत्युमृत्युस्वरूपिण्यै नमः ।

ओं अणिमादिसिद्धिप्रदायै नमः ।

ओं अन्तश्शत्रुविदारिण्यै नमः ।

ओं सकलदुरितविनाशिन्यै नमः ।

ओं सर्वोपद्रवनिवारिण्यै नमः ।

ओं दुर्जनकालरात्र्यै नमः ।

ओं महाप्राज्ञायै नमः ।

ओं महाबलायै नमः । ८१

ओं कालीरूपिण्यै नमः ।

ओं वज्राङ्गायै नमः ।

ओं दुष्टप्रयोगनिवारिण्यै नमः ।

ओं सर्वशापविमोचन्यै नमः ।

ओं निग्रहानुग्रह क्रियानिपुणायै नमः ।

ओं इच्छाज्ञानक्रियाशक्तिरूपिण्यै नमः ।

ओं ब्रह्मविष्णुशिवात्मिकायै नमः ।

ओं हिरण्यसटाच्छटायै नमः ।

ओं इन्द्रादिदिक्पालकसेवितायै नमः । ९०

ओं परप्रयोग प्रत्यक् प्रचोदिन्यै नमः ।

ओं चराचराकर्षिण्यै नमः ।

ओं खड्गमालारूपिण्यै नमः ।

ओं नृसिंहसालग्रामनिवासिन्यै नमः ।

ओं भक्तशत्रुभक्षिण्यै नमः ।

ओं ब्रह्मास्त्रस्वरूपायै नमः ।

ओं सहस्रारशक्त्यै नमः ।

ओं सिद्धेश्वर्यै नमः ।

ओं योगीश्वर्यै नमः । ९९

ओं आत्मरक्षणशक्तिदायिन्यै नमः ।

ओं सर्वविघ्नविनाशिन्यै नमः ।

ओं सर्वान्तकनिवारिण्यै नमः ।

ओं सर्वदुष्टप्रदुष्टशिरश्छेदिन्यै नमः ।

ओं अथर्वणवेदभासितायै नमः ।

ओं श्मशानवासिन्यै नमः ।

ओं भूतभेतालसेवितायै नमः ।

ओं सिद्धमण्डलपूजितायै नमः ।

ओं प्रत्यङ्गिरा भद्रकाली देवतायै नमः । १०८

इति श्री प्रत्यङ्गिरा अष्टोत्तरशतनामावली ॥

sri pratyangira ashtottara shatanamavali