Skip to main content
पडताळणी प्रलंबित

श्री अन्नपूर्णा अष्टोत्तरशतनामावलिः

ओं अन्नपूर्णायै नमः ।

ओं शिवायै नमः ।

ओं देव्यै नमः ।

ओं भीमायै नमः ।

ओं पुष्ट्यै नमः ।

ओं सरस्वत्यै नमः ।

ओं सर्वज्ञायै नमः ।

ओं पार्वत्यै नमः ।

ओं दुर्गायै नमः । ९

ओं शर्वाण्यै नमः ।

ओं शिववल्लभायै नमः ।

ओं वेदवेद्यायै नमः ।

ओं महाविद्यायै नमः ।

ओं विद्यादात्रै नमः ।

ओं विशारदायै नमः ।

ओं कुमार्यै नमः ।

ओं त्रिपुरायै नमः ।

ओं बालायै नमः । १८

ओं लक्ष्म्यै नमः ।

ओं श्रियै नमः ।

ओं भयहारिण्यै नमः ।

ओं भवान्यै नमः ।

ओं विष्णुजनन्यै नमः ।

ओं ब्रह्मादिजनन्यै नमः ।

ओं गणेशजनन्यै नमः ।

ओं शक्त्यै नमः ।

ओं कुमारजनन्यै नमः । २७

ओं शुभायै नमः ।

ओं भोगप्रदायै नमः ।

ओं भगवत्यै नमः ।

ओं भक्ताभीष्टप्रदायिन्यै नमः ।

ओं भवरोगहरायै नमः ।

ओं भव्यायै नमः ।

ओं शुभ्रायै नमः ।

ओं परममङ्गलायै नमः ।

ओं भवान्यै नमः । ३६

ओं चञ्चलायै नमः ।

ओं गौर्यै नमः ।

ओं चारुचन्द्रकलाधरायै नमः ।

ओं विशालाक्ष्यै नमः ।

ओं विश्वमात्रे नमः ।

ओं विश्ववन्द्यायै नमः ।

ओं विलासिन्यै नमः ।

ओं आर्यायै नमः ।

ओं कल्याणनिलायायै नमः । ४५

ओं रुद्राण्यै नमः ।

ओं कमलासनायै नमः ।

ओं शुभप्रदायै नमः ।

ओं शुभायै नमः ।

ओं अनन्तायै नमः ।

ओं वृत्तपीनपयोधरायै नमः ।

ओं अम्बायै नमः ।

ओं संहारमथन्यै नमः ।

ओं मृडान्यै नमः । ५४

ओं सर्वमङ्गलायै नमः ।

ओं विष्णुसंसेवितायै नमः ।

ओं सिद्धायै नमः ।

ओं ब्रह्माण्यै नमः ।

ओं सुरसेवितायै नमः ।

ओं परमानन्ददायै नमः ।

ओं शान्त्यै नमः ।

ओं परमानन्दरूपिण्यै नमः ।

ओं परमानन्दजनन्यै नमः । ६३

ओं परायै नमः ।

ओं आनन्दप्रदायिन्यै नमः ।

ओं परोपकारनिरतायै नमः ।

ओं परमायै नमः ।

ओं भक्तवत्सलायै नमः ।

ओं पूर्णचन्द्राभवदनायै नमः ।

ओं पूर्णचन्द्रनिभांशुकायै नमः ।

ओं शुभलक्षणसम्पन्नायै नमः ।

ओं शुभानन्दगुणार्णवायै नमः । ७२

ओं शुभसौभाग्यनिलयायै नमः ।

ओं शुभदायै नमः ।

ओं रतिप्रियायै नमः ।

ओं चण्डिकायै नमः ।

ओं चण्डमथन्यै नमः ।

ओं चण्डदर्पनिवारिण्यै नमः ।

ओं मार्ताण्डनयनायै नमः ।

ओं साध्व्यै नमः ।

ओं चन्द्राग्निनयनायै नमः । ८१

ओं सत्यै नमः ।

ओं पुण्डरीकहरायै नमः ।

ओं पूर्णायै नमः ।

ओं पुण्यदायै नमः ।

ओं पुण्यरूपिण्यै नमः ।

ओं मायातीतायै नमः ।

ओं श्रेष्ठमायायै नमः ।

ओं श्रेष्ठधर्मात्मवन्दितायै नमः ।

ओं असृष्ट्यै नमः । ९०

ओं सङ्गरहितायै नमः ।

ओं सृष्टिहेतवे नमः ।

ओं कपर्दिन्यै नमः ।

ओं वृषारूढायै नमः ।

ओं शूलहस्तायै नमः ।

ओं स्थितिसंहारकारिण्यै नमः ।

ओं मन्दस्मितायै नमः ।

ओं स्कन्दमात्रे नमः ।

ओं शुद्धचित्तायै नमः । ९९

ओं मुनिस्तुतायै नमः ।

ओं महाभगवत्यै नमः ।

ओं दक्षायै नमः ।

ओं दक्षाध्वरविनाशिन्यै नमः ।

ओं सर्वार्थदात्र्यै नमः ।

ओं सावित्र्यै नमः ।

ओं सदाशिवकुटुम्बिन्यै नमः ।

ओं नित्यसुन्दरसर्वाङ्ग्यै नमः ।

ओं सच्चिदानन्दलक्षणायै नमः । १०८

sri annapurna ashtottara satanamavali