श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली
ओं भैरव्यै नमः ।
ओं भैरवाराध्यायै नमः ।
ओं भूतिदायै नमः ।
ओं भूतभावनायै नमः ।
ओं आर्यायै नमः ।
ओं ब्राह्म्यै नमः ।
ओं कामधेनवे नमः ।
ओं सर्वसम्पत्प्रदायिन्यै नमः ।
ओं त्रैलोक्यवन्दितदेव्यै नमः । ९
ओं देव्यै नमः ।
ओं महिषासुरमर्दिन्यै नमः ।
ओं मोहघ्न्यै नमः ।
ओं मालत्यै नमः ।
ओं मालायै नमः ।
ओं महापातकनाशिन्यै नमः ।
ओं क्रोधिन्यै नमः ।
ओं क्रोधनिलयायै नमः ।
ओं क्रोधरक्तेक्षणायै नमः । १८
ओं कुह्वे नमः ।
ओं त्रिपुरायै नमः ।
ओं त्रिपुराधारायै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं भीमभैरव्यै नमः ।
ओं देवक्यै नमः ।
ओं देवमात्रे नमः ।
ओं देवदुष्टविनाशिन्यै नमः ।
ओं दामोदरप्रियायै नमः । २७
ओं दीर्घायै नमः ।
ओं दु र्गायै नमः ।
ओं दुर्गतिनाशिन्यै नमः ।
ओं लम्बोदर्यै नमः ।
ओं लम्बकर्णायै नमः ।
ओं प्रलम्बितपयोधरायै नमः ।
ओं प्रत्यङ्गिरायै नमः ।
ओं प्रतिपदायै नमः ।
ओं प्रणतक्लेशनाशिन्यै नमः । ३६
ओं प्रभावत्यै नमः ।
ओं गुणवत्यै नमः ।
ओं गणमात्रे नमः ।
ओं गुह्येश्वर्यै नमः ।
ओं क्षीराब्धितनयायै नमः ।
ओं क्षेम्यायै नमः ।
ओं जगत्त्राणविधायिन्यै नमः ।
ओं महामार्यै नमः ।
ओं महामोहायै नमः । ४५
ओं महाक्रोधायै नमः ।
ओं महानद्यै नमः ।
ओं महापातकसंहर्त्र्यै नमः ।
ओं महामोहप्रदायिन्यै नमः ।
ओं विकरालायै नमः ।
ओं महाकालायै नमः ।
ओं कालरूपायै नमः ।
ओं कलावत्यै नमः ।
ओं कपालखट्वाङ्गधरायै नमः । ५४
ओं खड्गखर्परधारिण्यै नमः ।
ओं कुमार्यै नमः ।
ओं कुङ्कुमप्रीतायै नमः ।
ओं कुङ्कुमारुणरञ्जितायै नमः ।
ओं कौमोदक्यै नमः ।