Skip to main content
पडताळणी प्रलंबित

श्री विनायक अष्टोत्तरशतनामावली

ओं विनायकाय नमः ।

ओं विघ्नराजाय नमः ।

ओं गौरीपुत्राय नमः ।

ओं गणेश्वराय नमः ।

ओं स्कन्दाग्रजाय नमः ।

ओं अव्ययाय नमः ।

ओं पूताय नमः ।

ओं दक्षाय नमः ।

ओं अध्यक्षाय नमः । ९

ओं द्विजप्रियाय नमः ।

ओं अग्निगर्वच्छिदे नमः ।

ओं इन्द्रश्रीप्रदाय नमः ।

ओं वाणीप्रदायकाय नमः ।

ओं सर्वसिद्धिप्रदाय नमः ।

ओं शर्वतनयाय नमः ।

ओं शर्वरीप्रियाय नमः ।

ओं सर्वात्मकाय नमः ।

ओं सृष्टिकर्त्रे नमः । १८

ओं देवानीकार्चिताय नमः ।

ओं शिवाय नमः ।

ओं सिद्धिबुद्धिप्रदाय नमः ।

ओं शान्ताय नमः ।

ओं ब्रह्मचारिणे नमः ।

ओं गजाननाय नमः ।

ओं द्वैमातुराय नमः ।

ओं मुनिस्तुत्याय नमः ।

ओं भक्तविघ्नविनाशनाय नमः । २७

ओं एकदन्ताय नमः ।

ओं चतुर्बाहवे नमः ।

ओं चतुराय नमः ।

ओं शक्तिसम्युताय नमः ।

ओं लम्बोदराय नमः ।

ओं शूर्पकर्णाय नमः ।

ओं हरये नमः ।

ओं ब्रह्मविदुत्तमाय नमः ।

ओं काव्याय नमः । ३६

ओं ग्रहपतये नमः ।

ओं कामिने नमः ।

ओं सोमसूर्याग्निलोचनाय नमः ।

ओं पाशाङ्कुशधराय नमः ।

ओं चण्डाय नमः ।

ओं गुणातीताय नमः ।

ओं निरञ्जनाय नमः ।

ओं अकल्मषाय नमः ।

ओं स्वयं सिद्धाय नमः । ४५

ओं सिद्धार्चितपदाम्बुजाय नमः ।

ओं बीजापूरफलासक्ताय नमः ।

ओं वरदाय नमः ।

ओं शाश्वताय नमः ।

ओं कृतिने नमः ।

ओं द्विजप्रियाय नमः ।

ओं वीतभयाय नमः ।

ओं गदिने नमः ।

ओं चक्रिणे नमः । ५४

ओं इक्षुचापधृते नमः ।

ओं श्रीदाय नमः ।

ओं अजाय नमः ।

ओं उत्पलकराय नमः ।

ओं श्रीपतिस्तुतिहर्षिताय नमः ।

ओं कुलाद्रिभेत्त्रे नमः ।

ओं जटिलाय नमः ।

ओं चन्द्रचूडाय नमः ।

ओं अमरेश्वराय नमः । ६३

ओं नागयज्ञोपवीतवते नमः ।

ओं कलिकल्मषनाशनाय नमः ।

ओं स्थुलकण्ठाय नमः ।

ओं स्वयङ्कर्त्रे नमः ।

ओं सामघोषप्रियाय नमः ।

ओं पराय नमः ।

ओं स्थूलतुण्डाय नमः ।

ओं अग्रण्याय नमः ।

ओं धीराय नमः । ७२

ओं वागीशाय नमः ।

ओं सिद्धिदायकाय नमः ।

ओं दूर्वाबिल्वप्रियाय नमः ।

ओं कान्ताय नमः ।

ओं पापहारिणे नमः ।

ओं समाहिताय नमः ।

ओं आश्रितश्रीकराय नमः ।

ओं सौम्याय नमः ।

ओं भक्तवाञ्छितदायकाय नमः । ८१

ओं शान्ताय नमः ।

ओं अच्युतार्च्याय नमः ।

ओं कैवल्याय नमः ।

ओं सच्चिदानन्दविग्रहाय नमः ।

ओं ज्ञानिने नमः ।

ओं दयायुताय नमः ।

ओं दान्ताय नमः ।

ओं ब्रह्मद्वेषविवर्जिताय नमः ।

ओं प्रमत्तदैत्यभयदाय नमः । ९०

ओं व्यक्तमूर्तये नमः ।

ओं अमूर्तिमते नमः ।

ओं शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसाय नमः ।

ओं स्वलावण्यसुधासारजितमन्मथविग्रहाय नमः ।

ओं समस्तजगदाधाराय नमः ।

ओं मायिने नमः ।

ओं मूषकवाहनाय नमः ।

ओं रमार्चिताय नमः ।

ओं विधये नमः । ९९

ओं श्रीकण्ठाय नमः ।

ओं विबुधेश्वराय नमः ।

ओं चिन्तामणिद्वीपपतये नमः ।

ओं परमात्मने नमः ।

ओं गजाननाय नमः ।

ओं हृष्टाय नमः ।

ओं तुष्टाय नमः ।

ओं प्रसन्नात्मने नमः ।

ओं सर्वसिद्धिप्रदायकाय नमः । १०८ ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri vighneshwara ashtottara shatanamavali