Skip to main content
पडताळणी प्रलंबित

श्री दुर्गाष्टोत्तरशतनामावली २

ओं दुर्गायै नमः ।

ओं शिवायै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं महागौर्यै नमः ।

ओं चण्डिकायै नमः ।

ओं सर्वज्ञायै नमः ।

ओं सर्वलोकेश्यै नमः ।

ओं सर्वकर्मफलप्रदायै नमः ।

ओं सर्वतीर्थमय्यै नमः । ९

ओं पुण्यायै नमः ।

ओं देवयोनये नमः ।

ओं अयोनिजायै नमः ।

ओं भूमिजायै नमः ।

ओं निर्गुणायै नमः ।

ओं आधारशक्त्यै नमः ।

ओं अनीश्वर्यै नमः ।

ओं निर्गुणायै नमः ।

ओं निरहङ्कारायै नमः । १८

ओं सर्वगर्वविमर्दिन्यै नमः ।

ओं सर्वलोकप्रियायै नमः ।

ओं वाण्यै नमः ।

ओं सर्वविद्याधिदेवतायै नमः ।

ओं पार्वत्यै नमः ।

ओं देवमात्रे नमः ।

ओं वनीशायै नमः ।

ओं विन्ध्यवासिन्यै नमः ।

ओं तेजोवत्यै नमः । २७

ओं महामात्रे नमः ।

ओं कोटिसूर्यसमप्रभायै नमः ।

ओं देवतायै नमः ।

ओं वह्निरूपायै नमः ।

ओं सदौजसे नमः ।

ओं वर्णरूपिण्यै नमः ।

ओं गुणाश्रयायै नमः ।

ओं गुणमय्यै नमः ।

ओं गुणत्रयविवर्जितायै नमः । ३६

ओं कर्मज्ञानप्रदायै नमः ।

ओं कान्तायै नमः ।

ओं सर्वसंहारकारिण्यै नमः ।

ओं धर्मज्ञानायै नमः ।

ओं धर्मनिष्ठायै नमः ।

ओं सर्वकर्मविवर्जितायै नमः ।

ओं कामाक्ष्यै नमः ।

ओं कामसंहर्त्र्यै नमः ।

ओं कामक्रोधविवर्जितायै नमः । ४५

ओं शाङ्कर्यै नमः ।

ओं शाम्भव्यै नमः ।

ओं शान्तायै नमः ।

ओं चन्द्रसूर्याग्निलोचनायै नमः ।

ओं सुजयायै नमः ।

ओं जयभूमिष्ठायै नमः ।

ओं जाह्नव्यै नमः ।

ओं जनपूजितायै नमः ।

ओं शास्त्रायै नमः । ५४

ओं शास्त्रमयायै नमः ।

ओं नित्यायै नमः ।

ओं शुभायै नमः ।

ओं चन्द्रार्धमस्तकायै नमः ।

ओं भारत्यै नमः ।

ओं भ्रामर्यै नमः ।

ओं कल्पायै नमः ।

ओं कराल्यै नमः ।

ओं कृष्णपिङ्गलायै नमः । ६३

ओं ब्राह्म्यै नमः ।

ओं नारायण्यै नमः ।

ओं रौद्र्यै नमः ।

ओं चन्द्रामृतपरिश्रुतायै नमः ।

ओं ज्येष्ठायै नमः ।

ओं इन्दिरायै नमः ।

ओं महामायायै नमः ।

ओं जगत्सृष्ट्यादिकारिण्यै नमः ।

ओं ब्रह्माण्डकोटिसंस्थानायै नमः । ७२

ओं कामिन्यै नमः ।

ओं कमलालयायै नमः ।

ओं कात्यायन्यै नमः ।

ओं कलातीतायै नमः ।

ओं कालसंहारकारिण्यै नमः ।

ओं योगनिष्ठायै नमः ।

ओं योगिगम्यायै नमः ।

ओं योगिध्येयायै नमः ।

ओं तपस्विन्यै नमः । ८१

ओं ज्ञानरूपायै नमः ।

ओं निराकारायै नमः ।

ओं भक्ताभीष्टफलप्रदायै नमः ।

ओं भूतात्मिकायै नमः ।

ओं भूतमात्रे नमः ।

ओं भूतेशायै नमः ।

ओं भूतधारिण्यै नमः ।

ओं स्वधानारीमध्यगतायै नमः ।

ओं षडाधारादिवर्तिन्यै नमः । ९०

ओं मोहदायै नमः ।

ओं अंशुभवायै नमः ।

ओं शुभ्रायै नमः ।

ओं सूक्ष्मायै नमः ।

ओं मात्रायै नमः ।

ओं निरालसायै नमः ।

ओं निम्नगायै नमः ।

ओं नीलसङ्काशायै नमः ।

ओं नित्यानन्दायै नमः । ९९

ओं हरायै नमः ।

ओं परायै नमः ।

ओं सर्वज्ञानप्रदायै नमः ।

ओं अनन्तायै नमः ।

ओं सत्यायै नमः ।

ओं दुर्लभरूपिण्यै नमः ।

ओं सरस्वत्यै नमः ।

ओं सर्वगतायै नमः ।

ओं सर्वाभीष्टप्रदायिन्यै नमः । १०८

इति श्री दुर्गाष्टोत्तरशतनामावली ।

sri durga ashttotara satanamavali 2