Skip to main content
पडताळणी प्रलंबित

श्री गायत्र्यष्टोत्तरशतनामावली २

ओं तरुणादित्यसङ्काशायै नमः ।

ओं सहस्रनयनोज्ज्वलायै नमः ।

ओं स्यन्दनोपरिसंस्थानायै नमः ।

ओं धीरायै नमः ।

ओं जीमूतनिस्स्वनायै नमः ।

ओं मत्तमातङ्गगमनायै नमः ।

ओं हिरण्यकमलासनायै नमः ।

ओं धीजनोद्धारनिरतायै नमः ।

ओं योगिन्यै नमः । ९

ओं योगधारिण्यै नमः ।

ओं नटनाट्यैकनिरतायै नमः ।

ओं प्रणवाद्यक्षरात्मिकायै नमः ।

ओं घोराचारक्रियासक्तायै नमः ।

ओं दारिद्र्यच्छेदकारिण्यै नमः ।

ओं यादवेन्द्रकुलोद्भूतायै नमः ।

ओं तुरीयपदगामिन्यै नमः ।

ओं गायत्र्यै नमः ।

ओं गोमत्यै नमः । १८

ओं गङ्गायै नमः ।

ओं गौतम्यै नमः ।

ओं गरुडासनायै नमः ।

ओं गेयायै नमः ।

ओं गानप्रियायै नमः ।

ओं गौर्यै नमः ।

ओं गोविन्दपरिपूजितायै नमः ।

ओं गन्धर्वनगराकारायै नमः ।

ओं गौरवर्णायै नमः । २७

ओं गणेश्वर्यै नमः ।

ओं गुणाश्रयायै नमः ।

ओं गुणवत्यै नमः ।

ओं गुह्यकायै नमः ।

ओं गणपूजितायै नमः ।

ओं गुणत्रयसमायुक्तायै नमः ।

ओं गुणत्रयविवर्जितायै नमः ।

ओं गुहावासायै नमः ।

ओं गुहाचारायै नमः । ३६

ओं गुह्यायै नमः ।

ओं गन्धर्वरूपिण्यै नमः ।

ओं गार्ग्यप्रियायै नमः ।

ओं गुरुपथायै नमः ।

ओं गुह्यलिङ्गाङ्कधारिण्यै नमः ।

ओं सावित्र्यै नमः ।

ओं सूर्यतनयायै नमः ।

ओं सुषुम्णानाडिभेदिन्यै नमः ।

ओं सुप्रकाशायै नमः । ४५

ओं सुखासीनायै नमः ।

ओं सुव्रतायै नमः ।

ओं सुरपूजितायै नमः ।

ओं सुषुप्त्यवस्थायै नमः ।

ओं सुदत्यै नमः ।

ओं सुन्दर्यै नमः ।

ओं सागराम्बरायै नमः ।

ओं सुधांशुबिम्बवदनायै नमः ।

ओं सुस्तन्यै नमः । ५४

ओं सुविलोचनायै नमः ।

ओं शुभ्रांशुनासायै नमः ।

ओं सुश्रोण्यै नमः ।

ओं संसारार्णवतारिण्यै नमः ।

ओं सामगानप्रियायै नमः ।

ओं साध्व्यै नमः ।

ओं सर्वाभरणभूषितायै नमः ।

ओं सीतायै नमः ।

ओं सर्वाश्रयायै नमः । ६३

ओं सन्ध्यायै नमः ।

ओं सफलायै नमः ।

ओं सुखदायिन्यै नमः ।

ओं वैष्णव्यै नमः ।

ओं विमलाकारायै नमः ।

ओं माहेन्द्र्यै नमः ।

ओं मातृरूपिण्यै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं महासिद्ध्यै नमः । ७२

ओं महामायायै नमः ।

ओं महेश्वर्यै नमः ।

ओं मोहिन्यै नमः ।

ओं मदनाकारायै नमः ।

ओं मधुसूदनसोदर्यै नमः ।

ओं मीनाक्ष्यै नमः ।

ओं क्षेमसम्युक्तायै नमः ।

ओं नगेन्द्रतनयायै नमः ।

ओं रमायै नमः । ८१

ओं त्रिविक्रमपदाक्रान्तायै नमः ।

ओं त्रिसर्वायै नमः ।

ओं त्रिविलोचनायै नमः ।

ओं सूर्यमण्डलमध्यस्थायै नमः ।

ओं चन्द्रमण्डलसंस्थितायै नमः ।

ओं वह्निमण्डलमध्यस्थायै नमः ।

ओं वायुमण्डलसंस्थितायै नमः ।

ओं व्योममण्डलमध्यस्थायै नमः ।

ओं चक्रस्थायै नमः । ९०

ओं चक्ररूपिण्यै नमः ।

ओं कालचक्रविधानज्ञायै नमः ।

ओं चन्द्रमण्डलदर्पणायै नमः ।

ओं ज्योत्स्नातपेनलिप्ताङ्ग्यै नमः ।

ओं महामारुतवीजितायै नमः ।

ओं सर्वमन्त्राश्रितायै नमः ।

ओं धेनवे नमः ।

ओं पापघ्न्यै नमः ।

ओं परमेश्वर्यै नमः । ९९

ओं चतुर्विंशतिवर्णाढ्यायै नमः ।

ओं चतुर्वर्गफलप्रदायै नमः ।

ओं मन्देहराक्षसघ्न्यै नमः ।

ओं षट्कुक्ष्यै नमः ।

ओं त्रिपदायै नमः ।

ओं शिवायै नमः ।

ओं जपपारायणप्रीतायै नमः ।

ओं ब्राह्मण्यफलदायिन्यै नमः ।

ओं महालक्ष्म्यै नमः । १०८

ओं महासम्पत्तिदायिन्यै नमः ।

ओं करुणामूर्त्यै नमः ।

ओं भक्तवत्सलायै नमः । १११

इति श्री गायत्र्यष्टोत्तरशतनामावली ।

sri gayathri ashtottara satanamavali in hindi