Skip to main content
पडताळणी प्रलंबित

श्रीसूक्त अष्टोत्तरशतनामावली

ओं हिरण्यवर्णायै नमः ।

ओं हरिण्यै नमः ।

ओं सुवर्णस्रजायै नमः ।

ओं रजतस्रजायै नमः ।

ओं हिरण्मय्यै नमः ।

ओं अनपगामिन्यै नमः ।

ओं अश्वपूर्वायै नमः ।

ओं रथमध्यायै नमः ।

ओं हस्तिनादप्रबोधिन्यै नमः । ९

ओं श्रियै नमः ।

ओं देव्यै नमः ।

ओं हिरण्यप्राकारायै नमः ।

ओं आर्द्रायै नमः ।

ओं ज्वलन्त्यै नमः ।

ओं तृप्तायै नमः ।

ओं तर्पयन्त्यै नमः ।

ओं पद्मे स्थितायै नमः ।

ओं पद्मवर्णायै नमः । १८

ओं चन्द्रां प्रभासायै नमः ।

ओं यशसा ज्वलन्त्यै नमः ।

ओं लोके श्रियै नमः ।

ओं देवजुष्टायै नमः ।

ओं उदारायै नमः ।

ओं पद्मिन्यै नमः ।

ओं आदित्यवर्णायै नमः ।

ओं बिल्वायै नमः ।

ओं कीर्तिप्रदायै नमः । २७

ओं ऋद्धिप्रदायै नमः ।

ओं गन्धद्वारायै नमः ।

ओं दुराधर्षायै नमः ।

ओं नित्यपुष्टायै नमः ।

ओं करीषिण्यै नमः ।

ओं सर्वभूतानां ईश्वर्यै नमः ।

ओं मनसः कामायै नमः ।

ओं वाच आकूत्यै नमः ।

ओं सत्यायै नमः । ३६

ओं पशूनां रूपायै नमः ।

ओं अन्नस्य यशसे नमः ।

ओं मात्रे नमः ।

ओं आर्द्रां पुष्करिण्यै नमः ।

ओं पुष्ट्यै नमः ।

ओं पिङ्गलायै नमः ।

ओं पद्ममालिन्यै नमः ।

ओं चन्द्रां हिरण्मय्यै नमः ।

ओं आर्द्रां करिण्यै नमः । ४५

ओं यष्ट्यै नमः ।

ओं सुवर्णायै नमः ।

ओं हेममालिन्यै नमः ।

ओं सूर्यां हिरण्मय्यै नमः ।

ओं आनन्दमात्रे नमः ।

ओं कर्दममात्रे नमः ।

ओं चिक्लीतमात्रे नमः ।

ओं श्रीदेव्यै नमः ।

ओं पद्मासन्यै नमः । ५४

ओं पद्मोरवे नमः ।

ओं पद्माक्ष्यै नमः ।

ओं पद्मसम्भवायै नमः ।

ओं अश्वदाय्यै नमः ।

ओं गोदाय्यै नमः ।

ओं धनदाय्यै नमः ।

ओं महाधन्यै नमः ।

ओं पद्मप्रियायै नमः ।

ओं पद्मिन्यै नमः । ६३

ओं पद्महस्तायै नमः ।

ओं पद्मालयायै नमः ।

ओं पद्मदलायताक्ष्यै नमः ।

ओं विश्वप्रियायै नमः ।

ओं विष्णुमनोनुकूलायै नमः ।

ओं पद्मासनस्थायै नमः ।

ओं विपुलकटितट्यै नमः ।

ओं पद्मपत्रायताक्ष्यै नमः ।

ओं गम्भीरावर्त नाभ्यै नमः । ७२

ओं स्तनभरनमितायै नमः ।

ओं शुभ्रवस्त्रोत्तरीयायै नमः ।

ओं हेमकुम्भैः स्नापितायै नमः ।

ओं सर्वमाङ्गल्ययुक्तायै नमः ।

ओं क्षीरसमुद्रराजतनयायै नमः ।

ओं श्रीरङ्गधामेश्वर्यै नमः ।

ओं दासीभूतसमस्तदेववनितायै नमः ।

ओं लोकैकदीपाङ्कुरायै नमः ।

ओं श्रीमन्मन्दकटाक्षलब्धायै नमः । ८१

ओं विभवद्ब्रह्मेन्द्रगङ्गाधरायै नमः ।

ओं त्रैलोक्यकुटुम्बिन्यै नमः ।

ओं सरसिजायै नमः ।

ओं मुकुन्दप्रियायै नमः ।

ओं सिद्धलक्ष्म्यै नमः ।

ओं मोक्षलक्ष्म्यै नमः ।

ओं जयलक्ष्म्यै नमः ।

ओं सरस्वत्यै नमः ।

ओं श्रीलक्ष्म्यै नमः । ९०

ओं वरलक्ष्म्यै नमः ।

ओं वरमुद्रां वहन्त्यै नमः ।

ओं अङ्कुशं वहन्त्यै नमः ।

ओं पाशं वहन्त्यै नमः ।

ओं अभीतिमुद्रां वहन्त्यै नमः ।

ओं कमलासनस्थायै नमः ।

ओं बालार्ककोटिप्रतिभायै नमः ।

ओं त्रिनेत्रायै नमः ।

ओं आद्यायै नमः । ९९

ओं जगदीश्वर्यै नमः ।

ओं सर्वमङ्गलमाङ्गल्यै नमः ।

ओं शिवायै नमः ।

ओं सर्वार्थ साधिकायै नमः ।

ओं त्र्यम्बकायै नमः ।

ओं नारायण्यै नमः ।

ओं महादेव्यै नमः ।

ओं विष्णुपत्न्यै नमः ।

ओं लक्ष्म्यै नमः । १०८

sri suktha ashtottara shatanamavali