Skip to main content
पडताळणी प्रलंबित

श्री बुद्धिदेवी अष्टोत्तरशतनामावली

ओं मूलवह्निसमुद्भूतायै नमः ।

ओं मूलाज्ञानविनाशिन्यै नमः ।

ओं निरुपाधिमहामायायै नमः ।

ओं शारदायै नमः ।

ओं प्रणवात्मिकायै नमः ।

ओं सुषुम्नामुखमध्यस्थायै नमः ।

ओं चिन्मय्यै नमः ।

ओं नादरूपिण्यै नमः ।

ओं नादातीतायै नमः । ९

ओं ब्रह्मविद्यायै नमः ।

ओं मूलविद्यायै नमः ।

ओं परात्परायै नमः ।

ओं सकामदायिनीपीठमध्यस्थायै नमः ।

ओं बोधरूपिण्यै नमः ।

ओं मूलाधारस्थगणपदक्षिणाङ्कनिवासिन्यै नमः ।

ओं विश्वाधारायै नमः ।

ओं ब्रह्मरूपायै नमः ।

ओं निराधारायै नमः । १८

ओं निरामयायै नमः ।

ओं सर्वाधारायै नमः ।

ओं साक्षिभूतायै नमः ।

ओं ब्रह्ममूलायै नमः ।

ओं सदाश्रयायै नमः ।

ओं विवेकलभ्यवेदान्तगोचरायै नमः ।

ओं मननातिगायै नमः ।

ओं स्वानन्दयोगसंलभ्यायै नमः ।

ओं निदिध्यासस्वरूपिण्यै नमः । २७

ओं विवेकादिभृत्ययुतायै नमः ।

ओं शमादिकिङ्करान्वितायै नमः ।

ओं भक्त्यादिकिङ्करीजुष्टायै नमः ।

ओं स्वानन्देशसमन्वितायै नमः ।

ओं महावाक्यार्थसंलभ्यायै नमः ।

ओं गणेशप्राणवल्लभायै नमः ।

ओं तमस्तिरोधानकर्यै नमः ।

ओं स्वानन्देशप्रदर्शिन्यै नमः ।

ओं स्वाधिष्ठानगतायै नमः । ३६

ओं वाण्यै नमः ।

ओं रजोगुणविनाशिन्यै नमः ।

ओं रागादिदोषशमन्यै नमः ।

ओं कर्मज्ञानप्रदायिन्यै नमः ।

ओं मणिपूराब्जनिलयायै नमः ।

ओं तमोगुणविनाशिन्यै नमः ।

ओं अनाहतैकनिलयायै नमः ।

ओं गुणसत्त्वप्रकाशिन्यै नमः ।

ओं अष्टाङ्गयोगफलदायै नमः । ४५

ओं तपोमार्गप्रकाशिन्यै नमः ।

ओं विशुद्धिस्थाननिलयायै नमः ।

ओं हृदयग्रन्धिभेदिन्यै नमः ।

ओं विवेकजनन्यै नमः ।

ओं प्रज्ञायै नमः ।

ओं ध्यानयोगप्रबोधिन्यै नमः ।

ओं आज्ञाचक्रसमासीनायै नमः ।

ओं निर्गुणब्रह्मसम्युतायै नमः ।

ओं ब्रह्मरन्ध्रपद्मगतायै नमः । ५४

ओं जगद्भावप्रणाशिन्यै नमः ।

ओं द्वादशान्तैकनिलयायै नमः ।

ओं स्वस्वानन्दप्रदायिन्यै नमः ।

ओं पीयूषवर्षिण्यै नमः ।

ओं बुद्ध्यै नमः ।

ओं स्वानन्देशप्रकाशिन्यै नमः ।

ओं इक्षुसागरमध्यस्थायै नमः ।

ओं निजलोकनिवासिन्यै नमः ।

ओं वैनायक्यै नमः । ६३

ओं विघ्नहन्त्र्यै नमः ।

ओं स्वानन्दब्रह्मरूपिण्यै नमः ।

ओं सुधामूर्त्यै नमः ।

ओं सुधावर्णायै नमः ।

ओं केवलायै नमः ।

ओं हृद्गुहामय्यै नमः ।

ओं शुभ्रवस्त्रायै नमः ।

ओं पीनकुचायै नमः ।

ओं कल्याण्यै नमः । ७२

ओं हेमकञ्चुकायै नमः ।

ओं विकचाम्भोरुहदललोचनायै नमः ।

ओं ज्ञानरूपिण्यै नमः ।

ओं रत्नताटङ्कयुगलायै नमः ।

ओं भद्रायै नमः ।

ओं चम्पकनासिकायै नमः ।

ओं रत्नदर्पणसङ्काशकपोलायै नमः ।

ओं निर्गुणात्मिकायै नमः ।

ओं ताम्बूलपूरितस्मेरवदनायै नमः । ८१

ओं सत्यरूपिण्यै नमः ।

ओं कम्बुकण्ठ्यै नमः ।

ओं सुबिम्बोष्ठ्यै नमः ।

ओं वीणापुस्तकधारिण्यै नमः ।

ओं गणेशज्ञातसौभाग्य-मार्दवोरुद्वयान्वितायै नमः ।

ओं कैवल्यज्ञानसुखदपदाब्जायै नमः ।

ओं भारत्यै नमः ।

ओं मतिः नमः ।

ओं वज्रमाणिक्यकटककिरीटायै नमः । ९०

ओं मञ्जुभाषिण्यै नमः ।

ओं विघ्नेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः ।

ओं अनेककोटिकेशार्कयुग्मसेवितपादुकायै नमः ।

ओं वागीश्वर्यै नमः ।

ओं लोकमात्रे नमः ।

ओं महाबुद्ध्यै नमः ।

ओं सरस्वत्यै नमः ।

ओं चतुष्षष्टिकोटिविद्याकलालक्ष्मीनिषेवितायै नमः ।

ओं कटाक्षकिङ्करीभूतकेशबृन्दसमन्वितायै नमः । ९९

ओं ब्रह्मविष्ण्वीशशक्तीनां दृशा शासनकारिण्यै नमः ।

ओं पञ्चचित्तवृत्तिमय्यै नमः ।

ओं तारमन्त्रस्वरूपिण्यै नमः ।

ओं वरदायै नमः ।

ओं भक्तिवशगायै नमः ।

ओं भक्ताभीष्टप्रदायिन्यै नमः ।

ओं ब्रह्मशक्त्यै नमः ।

ओं महामायायै नमः ।

ओं जगद्ब्रह्मस्वरूपिण्यै नमः । १०८

इति श्री बुद्धिदेवी अष्टोत्तरशतनामावली सम्पूर्णम् ।

sri buddhi devi ashtottara shatanamavali