Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड पञ्चाधिकशततमः

॥ दशग्रीवविघूर्णनम् ॥

स तेन तु तथा क्रोधात्काकुत्स्थेनार्दितो रणे ।

रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १ ॥

स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।

अभ्यर्दयत्सुसङ्क्रुद्धो राघवं परमाहवे ॥ २ ॥

बाणधारासहस्रैस्तैः सतोयद इवाम्बरात् ।

राघवं रावणो बाणैस्तटाकमिव पूरयत् ॥ ३ ॥

पूरितः शरजालेन धनुर्मुक्तेन सम्युगे ।

महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥ ४ ॥

स शरैः शरजालानि वारयन्समरे स्थितः ।

गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ ५ ॥

ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।

निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ ६ ॥

स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः ।

दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः ॥ ७ ॥

शराभिघातसंरब्धः सोऽपि जग्राह सायकान् ।

काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ॥ ८ ॥

ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ ।

शरान्धकारे समरे नोपालक्षयतां तदा ॥ ९ ॥

ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।

उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ १० ॥

मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।

हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥ ११ ॥

मया विरहितां दीनां वर्तमानां महावने ।

वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥ १२ ॥

स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।

कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ॥ १३ ॥

भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।

दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ १४ ॥

शूरेण धनदभ्रात्रा बलैः समुदितेन च ।

श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ॥ १५ ॥

उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।

कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् ॥ १६ ॥

शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।

नैव लज्जाऽस्ति ते सीतां चोरवद्व्यपकर्षतः ॥ १७ ॥

यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् ।

भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ १८ ॥

दिष्ट्याऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।

अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ १९ ॥

अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।

क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ २० ॥

निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।

पिबन्तु रुधिरं तर्षाच्छरशय्यान्तरोत्थितम् ॥ २१ ॥

अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।

कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥ २२ ॥

इत्येवं संवदन्वीरो रामः शत्रुनिबर्हणः ।

राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ २३ ॥

बभूव द्विगुणं वीर्यं बलं हर्षश्च सम्युगे ।

रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ॥ २४ ॥

प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।

प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥ २५ ॥

शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।

भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २६ ॥

हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।

हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ २७ ॥

यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।

नास्य प्रत्यकरोद्वीर्यं विक्लेवेनान्तरात्मना ॥ २८ ॥

क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।

न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ॥ २९ ॥

सूतस्तु रथनेताऽस्य तदवस्थं समीक्ष्य तम् ।

शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

valmiki ramayan yuddhakand adhyay 105