Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकत्रिंशः

॥ विद्युज्जिह्वमायाप्रयोगः ॥

ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।

सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।

जातोद्वेगोऽभवत्किञ्चित्सचिवानिदमब्रवीत् ॥ २ ॥

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः ।

अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः ॥ ३ ॥

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ।

ततः स मन्त्रयामास सचिवैः राक्षसैः सह ॥ ४ ॥

मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् ।

विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ॥ ५ ॥

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् ।

मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ ६ ॥

विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः ।

मोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥ ७ ॥

शिरो मायामयं गृह्य राघवस्य निशाचर ।

त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ॥ ८ ॥

एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः ।

[* दर्शयामास तां मायां सुप्रयुक्तां स रावणे । *]

तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ॥ ९ ॥

अशोकवनिकायां तु सीतादर्शनलालसः ।

नैरृतानामधिपतिः संविवेश महाबलः ॥ १० ॥

ततो दीनामदैन्यार्हां ददर्श धनदानुजः ।

अधोमुखीं शोकपरामुपविष्टां महीतले ॥ ११ ॥

भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ।

उपास्यमानां घोराभी राक्षसीभिरितस्ततः ॥ १२ ॥

[* अधिकपाठः –

राक्षसीभिर्वृतां सीतां पूर्णचन्द्रनिभाननाम् ।

उत्पातमेघजालाभिश्चन्द्ररेखामिवावृताम् ॥

भूषणैरुत्तमैः कैश्चिन्मङ्गलार्थमलङ्कृताम् ।

चरन्तीं मारुतोद्धूतां क्षिप्तां पुष्पलतामिव ॥

हर्षशोकान्तरे मग्नां विषादस्य विलक्षणाम् ।

स्तिमितामिव गांभीर्यान्नदीं भागीरथीमिव ॥

*]

उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन् ।

इदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ १३ ॥

सान्त्वमाना मया भद्रे यमुपाश्रित्य वल्गसे । [सान्त्व्य]

खरहन्ता स ते भर्ता राघवः समरे हतः ॥ १४ ॥

छिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया ।

व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ १५ ॥

विसृजेमां मतिं मूढे किं मृतेन करिष्यसि ।

भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ॥ १६ ॥

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ।

शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ १७ ॥

समायातः समुद्रान्तं मां हन्तुं किल राघवः ।

वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ १८ ॥

सनिविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ।

बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ १९ ॥

अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् ।

सुखसुप्तं समासाद्य चारितं प्रथमं चरैः ॥ २० ॥

तत्प्रहस्तप्रणीतेन बलेन महता मम ।

बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥ २१ ॥

पट्‍टिशान्परिघांश्चक्रान् दण्डान्खड्गान्महायसान् ।

बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ॥ २२ ॥

यष्टीश्च तोमरान् शक्तीश्चक्राणि मुसलानि च ।

उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ २३ ॥

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ।

असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ २४ ॥

विभीषणः समुत्पत्य निगृहीतो यदृच्छया ।

दिशः प्रव्राजितः सर्वेर्लक्ष्मणः प्लवगैः सह ॥ २५ ॥

सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः ।

निरस्तहनुकः शेते हनुमान्राक्षसैर्हतः ॥ २६ ॥

जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ।

पट्‍टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ २७ ॥

मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ ।

निश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ ॥ २८ ॥

असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ ।

अनुतिष्ठति मेदिन्यां पनसः पनसो यथा ॥ २९ ॥

नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः ।

कुमुदस्तु महातेजा निष्कूजः सायकैः कृतः ॥ ३० ॥

अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः ।

पतितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥ ३१ ॥

हरयो मथिता नागैरथजातैस्तथाऽपरे ।

शायिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ॥ ३२ ॥

प्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः ।

अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ३३ ॥

सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।

ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ ३४ ॥

सागरस्य च तीरेषु शैलेषु च वनेषु च ।

पिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ ३५ ॥

एवं तव हतो भर्ता ससैन्यो मम सेनया ।

क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३६ ॥

ततः परमदुर्धर्षो रावणो राक्षसाधिपः ।

सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ३७ ॥

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय ।

येन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम् ॥ ३८ ॥

विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् ।

प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ३९ ॥

तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् ।

विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥ ४० ॥

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः ।

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।

उप निक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ ४२ ॥

रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् ।

त्रिषु लोकेषु विख्यातं सीतामिदमुवाच च ॥ ४३ ॥

इदं तत्तव रामस्य कार्मुकं ज्यासमायुतम् ।

इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ ४४ ॥

स विद्युज्जिह्वेन सहैव तच्छिरो

धनुश्च भूमौ विनिकीर्य रावणः ।

विदेहराजस्य सुतां यशस्विनीं

ततोऽब्रवीत्तां भव मे वशानुगा ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥

valmiki ramayan yuddhakand adhyay 31