Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड सप्तषष्टितमः

॥ कुम्भकर्णवधः ॥

ते निवृत्ता महाकायाः श्रुत्वाऽङ्गदवचस्तदा ।

नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ॥ १ ॥

समुदीरितवीर्याश्च समारोपितविक्रमाः ।

पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ २ ॥

प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः ।

चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ३ ॥

अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च ।

वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ॥ ४ ॥

स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान् ।

अर्दयन्सुमहाकायः समन्ताद्व्यक्षिपद्रिपून् ॥ ५ ॥

शतानि सप्त चाष्टौ च सहस्राणि च वानराः ।

प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥ ६ ॥

षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च ।

परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति ॥ ७ ॥

भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव ।

कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः ॥ ८ ॥

वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि ।

ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः ॥ ९ ॥

दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ।

तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः ॥ १० ॥

तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा ।

ममर्दाश्वान्गजांश्चापि रथांश्चैव नगोत्तमः ॥ ११ ॥

तानि चान्यानि रक्षांसि पुनश्चान्यद्गिरेः शिरः ।

तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि ॥ १२ ॥

रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ।

रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः ॥ १३ ॥

शिरांसि नदतां जह्रुः सहसा भीमनिःस्वनाः ।

वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् ॥ १४ ॥

रथानश्वान्गजानुष्ट्रान्राक्षसानभ्यसूदयन् ।

हनुमान् शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् ॥ १५ ॥

ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ।

तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह ।

बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ १६ ॥

ततो हरीणां तदनीकमुग्रं

दुद्राव शूलं निशितं प्रगृह्य ।

तस्थौ ततोऽस्यापततः पुरस्ता-

-न्महीधराग्रं हनुमान्प्रगृह्य ॥ १७ ॥

स कुम्भकर्णं कुपितो जघान

वेगेन शैलोत्तमभीमकायम् ।

स चुक्षुभे तेन तदाऽभिभूतो

मेदार्द्रगात्रो रुधिरावसिक्तः ॥ १८ ॥

स शूलमाविध्य तडित्प्रकाशं

गिरिं यथा प्रज्वलिताग्रशृङ्गम् ।

बाह्वन्तरे मारुतिमाजघान

गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ १९ ॥

स शूलनिर्भिन्नमहाभुजान्तरः

प्रविह्वलः शोणितमुद्वमन्मुखात् ।

ननाद भीमं हनुमान्महाहवे

युगान्तमेघस्तनितस्वनोपमम् ॥ २० ॥

ततो विनेदुः सहसा प्रहृष्टा

रक्षोगणास्तं व्यथितं समीक्ष्य ।

प्लवङ्गमास्तु व्यथिता भयार्ताः

प्रदुद्रुवुः सम्यति कुम्भकर्णात् ॥ २१ ॥

ततस्तु नीलो बलवान्पर्यवस्थापयन्बलम् ।

प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ २२ ॥

तमापतन्तं सम्प्रेक्ष्य मुष्टिनाऽभिजघान ह ।

मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥ २३ ॥

सविस्फुलिङ्गं सज्वालं निपपात महीतले ।

ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ॥ २४ ॥

पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ।

शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ॥ २५ ॥

कुम्भकर्णं महाकायं सर्वतोऽभिप्रदुद्रुवुः ।

स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे ॥ २६ ॥

ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ।

कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ॥ २७ ॥

निपपातर्षभो भीमः प्रमुखाद्वान्तशोणितः ।

मुष्टिना शरभं हत्वा जानुना नीलमाहवे ॥ २८ ॥

आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ।

पादेनाभ्यहनत्क्रुद्धस्तरसा गन्धमादनम् ॥ २९ ॥

दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ।

निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥ ३० ॥

तेषु वानरमुख्येषु पतितेषु महात्मसु ।

वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ ३१ ॥

तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः ।

समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ ३२ ॥

तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ।

कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥ ३३ ॥

स वानरसहस्रैस्तैराचितः पर्वतोपमः ।

रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ ३४ ॥

बाहुभ्यां वानरान्सर्वान्प्रगृह्य सुमहाबलः ।

भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ॥ ३५ ॥

प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे ।

नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ ३६ ॥

भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसन्निभः ।

बभञ्ज वानरान्सर्वान्सङ्क्रुद्धो राक्षसोत्तमः ॥ ३७ ॥

मांसशोणितसङ्क्लेदां भूमिं कुर्वन्स राक्षसः ।

चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ॥ ३८ ॥

वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ।

शूलहस्तो बभौ सङ्ख्ये कुम्भकर्णो महाबलः ॥ ३९ ॥

यथा शुष्कान्यरण्यानि ग्रीष्मे दहति पावकः ।

तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥ ४० ॥

ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।

वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥ ४१ ॥

अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ।

राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ ४२ ॥

प्रभग्नान्वानरान्दृष्ट्वा वज्रहस्तसुतात्मजः ।

अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ ४३ ॥

शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः ।

त्रासयन्राक्षसान्सर्वान्कुम्भकर्णपदानुगान् ॥ ४४ ॥

चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि ॥ ४५ ॥

स तेनाभिहतोऽत्यर्थं गिरिशृङ्गेण मूर्धनि ।

कुम्भकर्णः प्रजज्वाल कोपेन महता तदा ।

सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः ॥ ४६ ॥

कुम्भकर्णो महानादस्त्रासयन्सर्ववानरान् ।

शूलं ससर्ज वै रोषादङ्गदे स महाबलः ॥ ४७ ॥

तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः ।

लाघवान्मोचयामास बलवान्वानरर्षभः ॥ ४८ ॥

उत्पत्य चैनं सहसा तलेनोरस्यताडयत् ।

स तेनाभिहतः कोपात्प्रमुमोहाचलोपमः ॥ ४९ ॥

स लब्धसञ्ज्ञो बलवान्मुष्टिमावर्त्य राक्षसः ।

अपहासेन चिक्षेप विसञ्ज्ञः स पपात ह ॥ ५० ॥

तस्मिन् प्लवगशार्दूले विसञ्ज्ञे पतिते भुवि ।

तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ ५१ ॥

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् ।

उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ ५२ ॥

पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः ।

अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ ५३ ॥

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् ।

तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ॥ ५४ ॥

कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान् ।

कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ५५ ॥

पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् ।

भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ ५६ ॥

त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ।

सहस्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥ ५७ ॥

तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ।

श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥ ५८ ॥

प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः ।

श्रुतपौरुषसम्पन्नः कस्माद्गर्जसि वानर ॥ ५९ ॥

स कुम्भकर्णस्य वचो निशम्य

व्याविध्य शैलं सहसा मुमोच ।

तेनाजघानोरसि कुम्भकर्णं

शैलेन वज्राशनिसन्निभेन ॥ ६० ॥

तच्छैलशृङ्गं सहसा विशीर्णं

भुजान्तरे तस्य तदा विशाले ।

ततो विषेदुः सहसा प्लवङ्गा

रक्षोगणाश्चापि मुदा विनेदुः ॥ ६१ ॥

स शैलशृङ्गाभिहतश्चुकोप

ननाद कोपाच्च विवृत्य वक्त्रम् ।

व्याविध्य शूलं च तडित्प्रकाशं

चिक्षेप हर्यृक्षपतेर्वधाय ॥ ६२ ॥

तत्कुम्भकर्णस्य भुजप्रविद्धं

शूलं शितं काञ्चनधामजुष्टम् ।

क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां

बभञ्ज वेगेन सुतोऽनिलस्य ॥ ६३ ॥

कृतं भारसहस्रस्य शूलं कालायसं महत् ।

बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥ ६४ ॥

शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी ।

हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥ ६५ ॥

सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः ।

मारुतिं पूजयाञ्चक्रुर्दृष्ट्वा शूलं तथागतम् ॥ ६६ ॥

स तत्तदा भग्नमवेक्ष्य शूलं

चुकोप रक्षोधिपतिर्महात्मा ।

उत्पाट्य लङ्कामलयात्स शृङ्गं

जघान सुग्रीवमुपेत्य तेन ॥ ६७ ॥

स शैलशृङ्गाभिहतो विसञ्ज्ञः

पपात भूमौ युधि वानरेन्द्रः ।

तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं

नेदुः प्रहृष्टास्त्वथ यातुधानाः ॥ ६८ ॥

तमभ्युपेत्याद्भुतघोरवीर्यं

स कुम्भकर्णो युधि वानरेन्द्रम् ।

जहार सुग्रीवमभिप्रगृह्य

यथाऽनिलो मेघमतिप्रचण्डः ॥ ६९ ॥

स तं महामेघनिकाशरूपम्

उत्पाट्य गच्छन्युधि कुम्भकर्णः ।

रराज मेरुप्रतिमानरूपो

मेरुर्यथाभ्युच्छ्रितघोरशृङ्गः ॥ ७० ॥

ततस्तमुत्पाट्य जगाम वीरः

संस्तूयमानो युधि राक्षसेन्द्रैः ।

शृण्वन्निनादं त्रिदशालयानां

प्लवङ्गराजग्रहविस्मितानाम् ॥ ७१ ॥

ततस्तमादाय तदा स मेने

हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।

अस्मिन्हृते सर्वमिदं हृतं स्यात्-

सराघवं सैन्यमितीन्द्रशत्रुः ॥ ७२ ॥

विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ।

कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ ७३ ॥

हनुमांश्चिन्तयामास मतिमान्मारुतात्मजः ।

एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ ७४ ॥

यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा ।

भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम् ॥ ७५ ॥

मया हते सम्यति कुम्भकर्णे

महाबले मुष्टिविकीर्णदेहे ।

विमोचिते वानरपार्थिवे च

भवन्तु हृष्टाः प्लवगाः समस्ताः ॥ ७६ ॥

अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः ।

गृहीतोऽयं यदि भवेत्रिदशैः सासुरोरगैः ॥ ७७ ॥

मन्ये न तावदात्मानं बुध्यते वानराधिपः ।

शैलप्रहाराभिहतः कुम्भकर्णेन सम्युगे ॥ ७८ ॥

अयं मुहूर्तात्सुग्रीवो लब्धसञ्ज्ञो महाहवे ।

आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ ७९ ॥

मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।

अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ ८० ॥

तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु ।

भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ ८१ ॥

इत्येवं चिन्तयित्वा तु हनुमान्मारुतात्मजः ।

भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ ८२ ॥

स कुम्भकर्णोऽथ विवेश लङ्कां

स्फुरन्तमादाय महाकपिं तम् ।

विमानचर्यागृहगोपुरस्थैः

पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥ ८३ ॥

लाजगन्धोदवर्षैस्तु सिच्यमानः शनैः शनैः ।

राजमार्गस्य शीतत्वात्सञ्ज्ञामाप महाबलः ॥ ८४ ॥

ततः स सञ्ज्ञामुपलभ्य कृच्छ्रा-

-द्बलीयसस्तस्य भुजान्तरस्थः ।

अवेक्षमाणः पुरराजमार्गं

विचिन्तयामास मुहुर्महात्मा ॥ ८५ ॥

एवं गृहीतेन कथं नु नाम

शक्यं मया सम्प्रतिकर्तुमद्य ।

तथा करिष्यामि यथा हरीणां

भविष्यतीष्टं च हितं च कार्यम् ॥ ८६ ॥

ततः कराग्रैः सहसा समेत्य

राजा हरीणाममरेन्द्रशत्रुम् ।

खरैश्च कर्णौ दशनैश्च नासां

ददंश पार्श्वेषु च कुम्भकर्णम् ॥ ८७ ॥

स कुम्भकर्णो हृतकर्णनासो

विदारितस्तेन विमर्दितश्च ।

रोषाभिभूतः क्षतजार्द्रगात्रः

सुग्रीवमाविध्य पिपेष भूमौ ॥ ८८ ॥

स भूतले भीमबलाभिपिष्टः

सुरारिभिस्तैरभिहन्यमानः ।

जगाम खं वेगवदभ्युपेत्य

पुनश्च रामेण समाजगाम ॥ ८९ ॥

कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः ।

रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ॥ ९० ॥

शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः ।

युद्धायाभिमुखो भूयो मनश्चक्रे महाबलः ॥ ९१ ॥

अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः ।

नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः ॥ ९२ ॥

गते तु तस्मिन्सुरराजशत्रुः

क्रोधात्प्रदुद्राव रणाय भूयः ।

अनायुधोऽस्मीति विचिन्त्य रौद्रो

घोरं तदा मुद्गरमाससाद ॥ ९३ ॥

ततः स पुर्याः सहसा महौजा

निष्क्रम्य तद्वानरसैन्यमुग्रम् ।

[* तेनैव रूपेण बभञ्ज रुष्टः ।

प्रहारमुष्ट्या च पदेन सद्यः *]। ९४ ॥

बभक्ष रक्षो युधि कुम्भकर्णः

प्रजा युगान्ताग्निरिव प्रदीप्तः ।

बुभुक्षितः शोणितमांसगृध्नुः

प्रविश्य तद्वानरसैन्यमुग्रम् ॥ ९५ ॥

चखाद रक्षांसि हरीन्पिशाचान्-

ऋक्षांश्च मोहाद्युधि कुम्भकर्णः ।

यथैव मृत्युर्हरते युगान्ते

स भक्षयामास हरींश्च मुख्यान् ॥ ९६ ॥

एकं द्वे त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः ।

समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ॥ ९७ ॥

सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः ।

वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥ ९८ ॥

ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ।

कुम्भकर्णो भृशं क्रुद्धः कपीन्खादन्प्रधावति ॥ ९९ ॥

शतानि सप्त चाष्टौ च विंशत्त्रिंशत्तथैव च ।

सम्परिष्वज्य बाहुभ्यां खादन्विपरिधावति ॥ १०० ॥

[* अधिकश्लोकं –

मेदोवसाशोणितदिग्धगात्रः

कर्णावसक्तप्रथितान्त्रमालः ।

ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः

कालो युगान्ताग्निरिव प्रवृद्धः ॥ १०१ ॥

*]

तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः ।

चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ॥ १०२ ॥

स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान् ।

निचखानाददे बाणान्विससर्ज च लक्ष्मणः ॥ १०३ ॥

[* अधिकपाठः –

पीड्यमानस्तदस्त्रं तु वीशेषं तत्स राक्षसः ।

ततश्चुकोप बलवान्सुमित्रानन्दवर्धनः ॥ १०४ ॥

अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम् ।

प्रच्छादयामास शैरः सन्ध्याभ्रैरिव मारुतः ॥ १०५ ॥

नीलाञ्जनचयप्रख्यैः शरैः काञ्चनभूषणैः ।

आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुभान् ॥ १०६ ॥

ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् ।

सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनम् ॥ १०७ ॥

अन्तकस्यापि क्रुद्धस्य भयदातारमाहवे ।

युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ १०८ ॥

प्रगृहीतायुधस्येव मृत्योरिव महामृधे ।

तिष्ठन्नप्यग्रतः पूज्यः को मे युद्धप्रदायकः ॥ १०९ ॥

ऐरावत गजारूढो वृतः सर्वामरैः प्रभुः ।

नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ॥ ११० ॥

अद्य त्वयाऽहं सौमित्रे बालेनापि पराक्रमैः ।

तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् ॥ १११ ॥

सत्वधैर्यबलोत्साहैस्तोषितोऽहं रणे त्वया ।

राममेवैकमिच्छामि हन्तुं यस्मिन्हते हतम् ॥ ११२ ॥

रामे मया चेन्निहते येऽन्ये स्थास्यन्ति सम्युगे ।

तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥ ११३ ॥

इत्युक्तवाक्यं तद्रक्षः प्रोवाच स्तुतिसंहितम् ।

मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥ ११४ ॥

यस्त्वं शक्रादिभिर्देवैरसह्यं प्राह पौरुषम् ।

तत्सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥ ११५ ॥

एष दाशरथी रामस्तिष्ठत्यद्रिरिवापरः ।

मनोरथो रात्रिचर तत्समीपे भविष्यति ।

इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः ॥ ११६ ॥

*]

अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः ।

राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ ११७ ॥

अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।

कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥ ११८ ॥

तस्य रामेण विद्धस्य सहसाभिप्रधावतः ।

अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ ११९ ॥

रामास्त्रविद्धो घोरं वै नदन्राक्षसपुङ्गवः ।

अभ्यधावत सङ्क्रुद्धो हरीन्विद्रावयन्रणे ॥ १२० ॥

तस्योरसि निमग्नाश्च शरा बर्हिणवाससः ।

रेजुर्नीलाद्रिकटके नृत्यन्त इव बर्हिणः ॥ १२१ ॥

हस्ताच्चापि परिभ्रष्टा पपातोर्व्यां महागदा ।

आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले ॥ १२२ ॥

स निरायुधमात्मानं यदा मेने महाबलः ।

मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥ १२३ ॥

स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ।

रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ॥ १२४ ॥

स तीव्रेण च कोपेन रुधिरेण च मूर्छितः ।

वानरान्राक्षसानृक्षान्खादन्विपरिधावति ॥ १२५ ॥

अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः ।

चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥ १२६ ॥

अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः ।

शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ॥ १२७ ॥

तन्मेरुशिखराकारं द्योतमानमिव श्रिया ।

द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥ १२८ ॥

तस्मिन्काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत् ।

कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ॥ १२९ ॥

नैवायं वानरान्राजन्नापि जानाति राक्षसान् ।

मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ॥ १३० ॥

साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः ।

यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ १३१ ॥

अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः ।

प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवङ्गमान् ॥ १३२ ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।

ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ॥ १३३ ॥

कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः ।

व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ १३४ ॥

तान्दृष्ट्वा निर्धुतान्रामो दुष्टोऽयमिति राक्षसः ।

समुत्पपात वेगेन धनुरुत्तममाददे ॥ १३५ ॥

क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा ।

राघवो राक्षसं रोषादभिदुद्राव वेगितः ।

यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान् ॥ १३६ ॥

स चापमादाय भुजङ्गकल्पं

दृढज्यमुग्रं तपनीयचित्रम् ।

हरीन्समाश्वास्य समुत्पपात

रामो निबद्धोत्तमतूणबाणः ॥ १३७ ॥

स वानरगणैस्तैस्तु वृतः परमदुर्जयः ।

लक्ष्मणानुचरो रामः सम्प्रतस्थे महावलः ॥ १३८ ॥

स ददर्श महात्मानं किरीटिनमरिन्दमम् ।

शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥ १३९ ॥

सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् ।

मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ॥ १४० ॥

विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम् ।

स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥ १४१ ॥

जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम् ।

मृद्गन्तं वानरानीकं कालान्तकयमोपमम् ॥ १४२ ॥

तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् ।

विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ १४३ ॥

स तस्य चापनिर्घोषात्कुपितो राक्षसर्षभः ।

अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ १४४ ॥

ततस्तु वातोद्धतमेघकल्पं

भुजङ्गराजोत्तमभोगबाहुम् ।

तमापतन्तं धरणीधराभ-

-मुवाच रामो युधि कुम्भकर्णम् ॥ १४५ ॥

आगच्छ रक्षोधिप मा विषाद-

-मवस्थितोऽहं प्रगृहीतचापः ।

अवेहि मां शक्रसपत्न रामम्

मया मुहूर्ताद्भविता विचेताः ॥ १४६ ॥

रामोऽयमिति विज्ञाय जहास विकृतस्वनम् ।

अभ्यधावत सङ्क्रुद्धो हरीन्विद्रावयन्रणे ॥ १४७ ॥

पातयन्निव सर्वेषां हृदयानि वनौकसाम् ।

प्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ॥ १४८ ॥

कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।

नाहं विराधो विज्ञेयो न कबन्धः खरो न च ॥ १४९ ॥

न वाली न च मारीचः कुम्भकर्णोऽहमागतः ।

पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ॥ १५० ॥

अनेन निर्जिता देवा दानवाश्च पुरा मया ।

विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ॥ १५१ ॥

स्वल्पाऽपि हि न मे पीडा कर्णनासाविनाशनात् ।

दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु ।

ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ १५२ ॥

स कुम्भकर्णस्य वचो निशम्य

रामः सुपुङ्खान्विससर्ज बाणान् ।

तैराहतो वज्रसमग्रवेगैः

न चुक्षुभे न व्यथते सुरारिः ॥ १५३ ॥

यैः सायकैः सालवरा निकृत्ता

वाली हतो वानरपुङ्गवश्च ।

ते कुम्भकर्णस्य तदा शरीरे

वज्रोपमा न व्यथयां‍प्रचक्रुः ॥ १५४ ॥

स वारिधारा इव सायकांस्तान्

पिबन् शरीरेण महेन्द्रशत्रुः ।

जघान रामस्य शरप्रवेगं

व्याविध्य तं मुद्गरमुग्रवेगम् ॥ १५५ ॥

ततस्तु रक्षः क्षतजानुलिप्तं

वित्रासनं देवमहाचमूनाम् ।

विव्याध तं मुद्गरमुग्रवेगं

विद्रावयामास चमूं हरीणाम् ॥ १५६ ॥

वायव्यमादाय ततो वरास्त्रं

रामः प्रचिक्षेप निशाचराय ।

समुद्गरं तेन जघान बाहुं

स कृत्तबाहुस्तुमुलं ननाद ॥ १५७ ॥

स तस्य बाहुर्गिरिशृङ्गकल्पः

समुद्गरो राघवबाणकृत्तः ।

पपात तस्मिन्हरिराजसैन्ये

जघान तां वानरवाहनीं च ॥ १५८ ॥

ते वानरा भग्नहतावशेषाः

पर्यन्तमाश्रित्य तदा विषण्णाः ।

प्रवेपिताङ्गं ददृशुः सुघोरं

नरेन्द्ररक्षोधिपसन्निपातम् ॥ १५९ ॥

स कुम्भकर्णोस्त्रनिकृत्तबाहु-

-र्महान्निकृत्ताग्र इवाचलेन्द्रः ।

उत्पाटयामास करेण वृक्षं

ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ १६० ॥

स तस्य बाहुं सहसालवृक्षं

समुद्यतं पन्नगभोगकल्पम् ।

ऐन्द्रास्त्रयुक्तेन जघान रामो

बाणेन जाम्बूनदचित्रितेन ॥ १६१ ॥

स कुम्भकर्णस्य भुजो निकृत्तः

पपात भूमौ गिरिसन्निकाशः ।

विवेष्टमानोऽभिजघान वृक्षान्

शैलान् शिला वानरराक्षसांश्च ॥ १६२ ॥

तं छिन्नबाहुं समवेक्ष्य रामः

समापतन्तं सहसा नदन्तम् ।

द्वावर्धचन्द्रौ निशितौ प्रगृह्य

चिच्छेद पादौ युधि राक्षसस्य ॥ १६३ ॥

तौ तस्य पादौ प्रदिशो दिशश्च

गिरीन्गुहाश्चैव महार्णवं च ।

लङ्कां च सेनां कपिराक्षसानां

विनादयन्तौ विनिपेततुश्च ॥ १६४ ॥

निकृत्तबाहुर्विनिकृत्तपादो

विदार्य वक्त्रं वडवामुखाभम् ।

दुद्राव रामं सहसाऽभिगर्जन्

राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ १६५ ॥

अपूरयत्तस्य मुखं शिताग्रै

रामः शरैर्हेमपिनद्धपुङ्खैः ।

स पूर्णवक्त्रो न शशाक वक्तुं

चुकूज कृच्छ्रेण मुमोह चापि ॥ १६६ ॥

अथाददे सूर्यमरीचिकल्पं

स ब्रह्मदण्डान्तककालकल्पम् ।

अरिष्टमैन्द्रं निशितं सुपुङ्खं

रामः शरं मारुततुल्यवेगम् ॥ १६७ ॥

तं वज्रजाम्बूनदचारुपुङ्खं

प्रदीप्तसूर्यज्वलनप्रकाशम् ।

महेन्द्रवज्राशनितुल्यवेगं

रामः प्रचिक्षेप निशाचराय ॥ १६८ ॥

स सायको राघवबाहुचोदितो

दिशः स्वभासा दश सम्प्रकाशयन् ।

सधूमवैश्वानरदीप्तदर्शनो

जगाम शक्राशनिवीर्यविक्रमः ॥ १६९ ॥

स तन्महापर्वतकूटसन्निभं

विवृत्तदंष्ट्रं चलचारुकुण्डलम् ।

चकर्त रक्षोधिपतेः शिरस्तथा

यथैव वृत्रस्य पुरा पुरन्दरः ॥ १७० ॥

कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् ।

आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥ १७१ ॥

तद्रामबाणाभिहतं पपात

रक्षःशिरः पर्वतसन्निकाशम् ।

बभञ्ज चर्यागृहगोपुराणि

प्राकारमुच्चं तमपातयच्च ॥ १७२ ॥

न्यपतत्कुम्भकर्णोऽथ स्वकायेन निपातयन् ।

प्लवङ्गमानां कोट्यश्च परितः सम्प्रधावताम् ॥ १७३ ॥

तच्चातिकायं हिमवत्प्रकाशं

रक्षस्ततस्तोयनिधौ पपात ।

ग्राहान्वरान्मीनवरान्भुजङ्गान्

ममर्द भूमिं च तदा विवेश ॥ १७४ ॥

तस्मिन्हते ब्राह्मणदेवशत्रौ

महाबले सम्यति कुम्भकर्णे ।

चचाल भूर्भूमिधराश्च सर्वे

हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ १७५ ॥

ततस्तु देवर्षिमहर्षिपन्नगाः

सुराश्च भूतानि सुपर्णगुह्यकाः ।

सयक्षगन्धर्वगणा नभोगताः

प्रहर्षिता रामपराक्रमेण ॥ १७६ ॥

ततस्तु ते तस्य वधेन भूरिणा

मनस्विनो नैरृतराजबान्धवाः ।

विनेदुरुच्चैर्व्यथिता रघूत्तमं

हरिं समीक्ष्यैव यथा सुरार्दिताः ॥ १७७ ॥

स देवलोकस्य तमो निहत्य

सूर्यो यथा राहुमुखाद्विमुक्तः ।

तथा व्यभासीद्भुवि वानरौघे

निहत्य रामो युधि कुम्भकर्णम् ॥ १७८ ॥

प्रहर्षमीयुर्बहवस्तु वानराः

प्रबुद्धपद्मप्रतिमैरिवाननैः ।

अपूजयन्राघवमिष्टभागिनं

हते रिपौ भीमबले दुरासदे ॥ १७९ ॥

स कुम्भकर्णं सुरसङ्घमर्दनं

महत्सु युद्धेषु पराजितश्रमम् ।

ननन्द हत्वा भरताग्रजो रणे

महासुरं वृत्रमिवामराधिपः ॥ १८० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥

valmiki ramayan yuddhakand adhyay 67