Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड द्वाविंशः

॥ सेतुबन्धः ॥

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः ।

अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ १ ॥

शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।

मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान् ॥ २ ॥

मत्कार्मुकविसृष्टेन शरवर्षेण सागर ।

पारं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥ ३ ॥

विचिन्वन्नाभिजानासि पौरुषं वाऽपि विक्रमम् ।

दानवालय सन्तापं मत्तो नाधिगमिष्यसि ॥ ४ ॥

ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभं शरम् ।

सम्योज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ॥ ५ ॥

तस्मिन्विकृष्टे सहसा राघवेण शरासने ।

रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥ ६ ॥

तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।

परिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥ ७ ॥

तिर्यक्च सह नक्षत्रः सङ्गतौ चन्द्रभास्करौ ।

भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥ ८ ॥

प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।

अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥ ९ ॥

पुस्फुरुश्च घना दिव्या दिवि मारुतपङ्क्तयः ।

बभञ्ज च तदा वृक्षान् जलदानुद्वहन्नपि ॥ १० ॥

अरुजंश्चैव शैलाग्रान् शिखराणि प्रभञ्जनः ।

दिविस्पृशो महामेघाः सङ्गताः समहास्वनाः ॥ ११ ॥

मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा ।

यानि भूतानि दृश्यानि चक्रुशुश्चाशनेः समम् ॥ १२ ॥

अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।

शिश्यरे चापि भूतानि सन्त्रस्तान्युद्विजन्ति च ॥ १३ ॥

सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।

सह भूतैः सतोयोर्मिः सनागः सहराक्षसः ॥ १४ ॥

सहसाऽभूत्ततो वेगाद्भीमवेगो महोदधिः ।

योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥ १५ ॥

तं तदा समतिक्रान्तं नातिचक्राम राघवः ।

समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥ १६ ॥

ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः ।

उदयन्हि महाशैलान्मेरोरिव दिवाकरः ॥ १७ ॥

पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत ।

स्निग्धवैडूर्यसङ्काशो जाम्बूनदविभूषितः ॥ १८ ॥

रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः ।

सर्वपुष्पमयीं दिव्यां शिरसा धारयन्स्रजम् ॥ १९ ॥

जातरूपमयैश्चैव तपनीयविभूषितैः ।

आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥ २० ॥

धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव ।

एकावलीमध्यगतं तरलं पाण्डरप्रभम् ॥ २१ ॥ [पाटल]

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।

आघूर्णिततरङ्गौघः कालिकानिलसङ्कुलः ॥ २२ ॥

[* अधिकश्लोकः –

उद्वर्तितमहाग्राहः संभ्रान्तोरगराक्षसः ।

देवतानां सुरूपाणां नानारूपाभिरीश्वरः ।

*]

गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।

सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् ॥ २३ ॥

अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ।

पृथिवी वायुराकाशमापो ज्योतिश्च राघव ॥ २४ ॥

स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ।

तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः ॥ २५ ॥

विकारस्तु भवेद्गाध एतत्ते वेदयाम्यहम् । [प्रवदामि]

न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज ॥ २६ ॥

ग्राहनक्राकुलजलं स्तम्भयेयं कथञ्चन ।

विधास्ये राम येनापि विषहिष्ये ह्यहं तथा ॥ २७ ॥

ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति ।

हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥ २८ ॥

तमब्रवीत्तदा राम उद्यतो हि नदीपते ।

अमोघोऽयं महाबाणः कस्मिन्देशे निपात्यताम् ॥ २९ ॥

रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम् ।

महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ३० ॥

उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतमो मम ।

द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ॥ ३१ ॥

उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ।

आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥ ३२ ॥

तैस्तु संस्पर्शनं प्राप्तैर्न सहे पापकर्मभिः ।

अमोघः क्रियतां राम तत्र तेषु शरोत्तमः ॥ ३३ ॥

तस्य तद्वचनं श्रुत्वा सागरस्य स राघवः ।

मुमोच तं शरं दीप्तं वीरः सागरदर्शनात् ॥ ३४ ॥

तेन तन्मरुकान्तारं पृथिव्यां खलु विश्रुतम् ।

निपातितः शरो यत्र दीप्ताशनिसमप्रभः ॥ ३५ ॥

ननाद च तदा तत्र वसुधा शल्यपीडिता ।

तस्माद्व्रणमुखात्तोयमुत्पपात रसातलात् ॥ ३६ ॥

स बभूव तदा कूपो व्रण इत्यभिविश्रुतः ।

सततं चोत्थितं तोयं समुद्रस्येव दृश्यते ॥ ३७ ॥

अवदारणशब्दश्च दारुणः समपद्यत ।

तस्मात्तद्बाणपातेन त्वपः कुक्षिष्वशोषयत् ॥ ३८ ॥

विख्यातं त्रिषु लोकेषु मरुकान्तारमेव तत् ।

शोषयित्वा ततः कुक्षिं रामो दशरथात्मजः ॥ ३९ ॥

वरं तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ।

पशव्यश्चाल्परोगश्च फलमूलरसायुतः ॥ ४० ॥

बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधः ।

एवमेतैर्गुणैर्युक्तो बहुभिः सततं मरुः ॥ ४१ ॥

रामस्य वरदानाच्च शिवः पन्था बभूव ह ।

तस्मिन्दग्धे तदा कुक्षौ समुद्रः सरितां पतिः ॥ ४२ ॥

राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ।

अयं सौम्य नलो नाम तनुजो विश्वकर्मणः ॥ ४३ ॥

पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः ।

एष सेतुं महोत्साहः करोतु मयि वानरः ॥ ४४ ॥

तमहं धारयिष्यामि तथा ह्येष यथा पिता ।

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्तदा ॥ ४५ ॥

अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ।

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये ॥ ४६ ॥

पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ।

दण्ड एव वरो लोके पुरुषस्येति मे मतिः ॥ ४७ ॥

धिक् क्षमामकृतज्ञेषु सान्त्वां दानमथापि वा ।

अयं हि सागरो भीमः सेतुकर्मदिदृक्षया ॥ ४८ ॥

ददौ दण्डभयाद्गाधं राघवाय महोदधिः ।

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ॥ ४९ ॥

[* मया तु सदृशः पुत्रस्तव देवि भविष्यति । *]

औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ॥ ५० ॥

[* अधिकपाठः –

पित्रोः प्रासादात्काकुत्स्थ ततः सेतुं करोम्यहम् ।

स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ।

*]

न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ॥ ५१ ॥

समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये ।

काममद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥ ५३ ॥

ततोऽतिसृष्टा रामेण सर्वतो हरियूथपाः ।

अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ॥ ५३ ॥

ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः ।

बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ॥ ५४ ॥

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः ।

कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि ॥ ५५ ॥

बिल्वैश्च सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ।

चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥ ५६ ॥

समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः ।

इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ॥ ५७ ॥

तालान्दाडिमगुल्मांश्च नारिकेलान्विभीतकान् ।

वकुलान्खदिरान्निम्बान्समाजह्रुः समन्ततः ॥ ५८ ॥

हस्तिमात्रान्महाकायाः पाषाणांश्च महाबलाः ।

पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च ॥ ५९ ॥

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् ।

समुत्पतितमाकाशमुपासर्पत्ततस्ततः ॥ ६० ॥

समुद्रं क्षोभयामासुर्वानराश्च समन्ततः ।

सूत्राण्यन्ये प्रगृह्णन्ति व्यायतं शतयोजनम् ॥ ६१ ॥

नलश्चक्रे महासेतुं मध्ये नदनदीपतेः ।

स तथा क्रियते सेतुर्वानरैर्घोरकर्मभिः ॥ ६२ ॥

दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथा परे ।

वानराः शतशस्तत्र रामस्याज्ञापुरः सराः ॥ ६३ ॥

मेघाभैः पर्वताग्रैश्च तृणैः काष्ठैर्बबन्धिरे ।

पुष्पिताग्रैश्च तरुभिः सेतुं बध्नन्ति वानराः ॥ ६४ ॥

पाषाणांश्च गिरिप्रख्यान्गिरीणां शिखराणि च ।

दृश्यन्ते परिधावन्तो गृह्य वारणसन्निभाः ॥ ६५ ॥

शिलानां क्षिप्यमाणानां शैलानां च निपात्यताम् ।

बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ॥ ६६ ॥

कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ।

प्रहृष्टैर्गजसङ्काशैस्त्वरमाणैः प्लवङ्गमैः ॥ ६७ ॥

द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः ।

कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥ ६८ ॥

अह्ना तृतीयेन तथा योजनानि कृतानि तु ।

त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥ ६९ ॥

चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि च ।

योजनानि महावेगैः कृतानि त्वरितैस्तु तैः ॥ ७० ॥

पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ।

योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै ॥ ७१ ॥

स वानरवरः श्रीमान्विश्वकर्मात्मजो बली ।

बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥ ७२ ॥

स नलेन कृतः सेतुः सागरे मकरालये ।

शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ॥ ७३ ॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ॥ ७४ ॥

दशयोजनविस्तीर्णं शतयोजनमायतम् ।

ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥ ७५ ॥

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।

तदचिन्त्यमसह्यं च अद्भुतं रोमहर्षणम् ॥ ७६ ॥

ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ।

तानिकोटिसहस्राणि वानराणां महौजसाम् ॥ ७७ ॥

बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ।

विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः ॥ ७८ ॥

अशोभत महासेतुः सीमन्त इव सागरे ।

ततः पारे समुद्रस्य गदापाणिर्विभीषणः ॥ ७९ ॥

परेषामभिघातार्थमतिष्ठत्सचिवैः सह ।

सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ॥ ८० ॥

हनुमन्तं त्वमारोह अङ्गदं चापि लक्ष्मणः ।

अयं हि विपुलो वीर सागरो मकरालयः ॥ ८१ ॥

वैहायसौ युवामेतौ वानरौ तारयिष्यतः ।

अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः ॥ ८२ ॥

जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ।

अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः ॥ ८३ ॥

सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ।

केचिद्वैहायसगताः सुपर्णा इव पुप्लुवुः ॥ ८४ ॥

घोषेण महता तस्य सिन्धोर्घोषं समुच्छ्रितम् ।

भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥ ८५ ॥

वानराणां हि सा तीर्णा वाहिनी नलसेतुना ।

तीरे निविविशे राज्ञो बहुमूलफलोदके ॥ ८६ ॥

तदद्भुतं राघवकर्म दुष्करं

समीक्ष्य देवाः सह सिद्धचारणैः ।

उपेत्य रामं सहसा महर्षिभिः

समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् ॥ ८७ ॥

जयस्व शत्रून्नरदेव मेदिनीं

ससागरां पालय शाश्वतीः समाः ।

इतीव रामं नरदेवसत्कृतं

शुभैर्वचोभिर्विविधैरपूजयन् ॥ ८८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः ॥ २२ ॥

valmiki ramayan yuddhakand adhyay 22