Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड षड्विंशः

॥ कपिबलावेक्षणम् ॥

तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् ।

निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥ १ ॥

यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः ।

नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ २ ॥

त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् ।

प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ॥ ३ ॥

को हि नाम सपत्नो मां समरे जेतुमर्हति ।

इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ॥ ४ ॥

आरुरोह ततः श्रीमान्प्रसादं हिमपाण्डुरम् ।

बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥ ५ ॥

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः ।

पश्यमानः समुद्रं च पर्वतांश्च वनानि च ॥ ६ ॥

ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः ।

तदपारमसङ्ख्येयं वानराणां महद्बलम् ॥ ७ ॥

आलोक्य रावणो राजा परिपप्रच्छ सारणम् ।

एषां वानरमुख्यानां के शूराः के महाबलाः ॥ ८ ॥

के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः ।

केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ॥ ९ ॥

सारणाचक्ष्व तत्त्वेन के प्रधानाः प्लवङ्गमाः ।

सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ॥ १० ॥

आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः ।

एष योभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ॥ ११ ॥

यूथपानां सहस्राणां शतेन परिवारितः ।

यस्य घोषेण महता सप्राकारा सतोरणा ॥ १२ ॥

लङ्का प्रवेपते सर्वा सशैलवनकानना ।

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ॥ १३ ॥

बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ।

बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ॥ १४ ॥

लङ्कामभिमुखः क्रोधादभीक्ष्णं च विजृम्भते ।

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः ॥ १५ ॥

स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः ।

यस्य लाङ्गूलशब्देन स्वनन्ति प्रदिशो दश ॥ १६ ॥

एष वानरराजेन सुग्रीवेणाभिषेचितः ।

यौवराज्येङ्गदो नाम त्वामाह्वयति सम्युगे ॥ १७ ॥

वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।

राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥ १८ ॥

एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।

हनूमता वेगवता राघवस्य हितैषिणा ॥ १९ ॥

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।

परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः ॥ २० ॥

अनु वालिसुतस्यापि बलेन महतावृतः ।

वीरस्तिष्ठति सङ्ग्रामे सेतुहेतुरयं नलः ॥ २१ ॥

ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च ।

उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ॥ २२ ॥

एते दुष्प्रसहा घोरश्चण्डाश्चण्डपराक्रमाः ।

अष्टौ शतसहस्राणि दशकोटिशतानि च ॥ २३ ॥

य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ।

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥

श्वेतो रजतसङ्काशश्चपलो भीमविक्रमः ।

बुद्धिमान्वानरो वीरस्त्रिषु लोकेषु विश्रुतः ॥ २५ ॥

तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः ।

विभजन्वानरीं सेनामनीकानि प्रहर्षयन् ॥ २६ ॥

यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ।

नाम्नां सङ्कोचनो नाम नानानगयुतो गिरिः ॥ २७ ॥

तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ।

योऽसौ शतसहस्राणां सहस्रं परिकर्षति ॥ २८ ॥

यस्य वाला बहुव्यामा दीर्घा लाङ्गूलमाश्रिताः ।

ताम्राः पीताः सिताः श्वेताः प्रकीर्णाघोरकर्मणः ॥ २९ ॥

अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति ।

एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ३० ॥

यस्त्वेष सिंहसङ्काशः कपिलो दीर्घलोचनः ।

निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ ३१ ॥

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् ।

राजन्सततमध्यास्ते रम्भो नामैष यूथपः ॥ ३२ ॥

शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः ।

यमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः ॥ ३३ ॥

परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ।

यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥ ३४ ॥

न च संविजते मृत्योर्न च युद्धाद्विधावति ।

प्रकम्पते च रोषेण तिर्यक्च पुनरीक्षते ॥ ३५ ॥

पश्यँल्लाङ्गूलमपि च क्ष्वेलते च महाबलः ।

महाजवो वीतभयो रम्यं साल्वेयपर्वतम् ॥ ३६ ॥

राजन्सततमध्यास्ते शरभो नाम यूथपः ।

एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥ ३८ ॥

राजन् शतसहस्राणि चत्वारिंशत्तथैव च ।

यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति ॥ ३८ ॥

मध्ये वानरवीराणां सुराणामिव वासवः ।

भेरीणामिव सन्नादो यस्यैष श्रूयते महान् ॥ ३९ ॥

घोषः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम् ।

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ॥ ४० ॥

युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ।

एनं शतसहस्राणां शतार्धं पर्युपासते ॥ ४१ ॥

यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ।

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ॥ ४२ ॥

स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ।

एष दर्दरसङ्काशो विनतो नाम यूथपः ॥ ४३ ॥

पिबंश्चरति पर्णासां नदीनामुत्तमां नदीम् ।

षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः ॥ ४४ ॥

त्वामाह्वयति युद्धाय क्रोधनो नाम यूथपः ।

विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥ ४५ ॥

यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ।

अवमत्य सदा सर्वान्वानरान्बलदर्पितान् ॥ ४६ ॥

गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ।

एनं शतसहस्राणि सप्ततिः पर्युपासते ॥ ४७ ॥

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः ।

यूथपा यूथपश्रेष्ठा येषां युथानि भागशः ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः ॥ २६ ॥

valmiki ramayan yuddhakand adhyay 26