Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकषष्टितमः

॥ कुम्भकर्णवृत्तकथनम् ॥

ततो रामो महातेजा धनुरादाय वीर्यवान् ।

किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥

तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।

क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ॥ २ ॥

सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ।

दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३ ॥

विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।

सविस्मयमिदं रामो विभीषणमुवाच ह ॥ ४ ॥

कोऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः ।

लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ॥ ५ ॥

पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते ।

यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६ ॥

आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वाऽसुरः ।

न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ७ ॥

स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।

विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८ ॥

येन वैवस्वतो युद्धे वासवश्च पराजितः ।

सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।

अस्य प्रमाणात्सदृशो राक्षसोऽन्यो न विद्यते ॥ ९ ॥

एतेन देवा युधि दानवाश्च

यक्षा भुजङ्गाः पिशिताशनाश्च ।

गन्धर्वविद्याधरकिन्नराश्च

सहस्रशो राघव सम्प्रभग्नाः ॥ १० ॥

शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।

हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११ ॥

प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।

अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२ ॥

एतेन जातमात्रेण क्षुधार्तेन महात्मना ।

भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ १३ ॥

तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः ।

यान्तिस्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४ ॥

स कुम्भकर्णं कुपितो महेन्द्रो

जघान वज्रेण शितेन वज्री ।

स शक्रवज्राभिहतो महात्मा

चचाल कोपाच्च भृशं ननाद ॥ १५ ॥

तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।

श्रुत्वाऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ १६ ॥

तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।

विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥ १७ ॥

कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः ।

ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ १८ ॥

प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।

कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ १९ ॥

प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।

आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ २० ॥

एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।

अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ २१ ॥

वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।

रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ २२ ॥

कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।

दृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥ २३ ॥

ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।

तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ २४ ॥

ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ।

ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥ २५ ॥

विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।

न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥ २६ ॥

न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।

कालस्तु क्रियतामस्य शयने जागरे तथा ॥ २७ ॥

रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ॥ २८ ॥

शयिता ह्येष षण्मासानेकाहं जागरिष्यति ।

एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः ।

व्यात्तास्यो भक्षयेल्लोकान्सङ्क्रुद्ध इव पावकः ॥ २९ ॥

सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।

त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ ३० ॥

स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।

वानरान्भृशसङ्क्रुद्धो भक्षयन्परिधावति ॥ ३१ ॥

कुम्भकर्णं समीक्ष्यैव हरयोऽद्य प्रविद्रुताः ।

कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३२ ॥

उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् ।

इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ ३३ ॥

विभीषणवचः श्रुत्वा हेतुमत्सुमुखेरितम् ।

उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३४ ॥

गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।

द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ॥ ३५ ॥

शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर ।

तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३६ ॥

राघवेण समादिष्टो नीलो हरिचमूपतिः ।

शशास वानरानीकं यथावत्कपिकुञ्जरः ॥ ३७ ॥

ततो गवाक्षः शरभो हनुमानङ्गदस्तदा ।

शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३८ ॥

रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।

पादपैरर्दयन्वीरा वानराः परवाहिनीम् ॥ ३९ ॥

ततो हरीणां तदनीकमुग्रं

रराज शैलोद्यतदीप्तहस्तम् ।

गिरेः समीपानुगतं यथैव

महन्महाम्भोधरजालमुग्रम् ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥

valmiki ramayan yuddhakand adhyay 61