Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड सप्तविंशत्यधिकशततमः

॥ भरद्वाजामन्त्रणम् ॥

पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।

भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥ १ ॥

सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।

शृणोषि कच्चिद्भगवन्सुभिक्षानामयं पुरे ॥ २ ॥

कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ।

एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ॥ ३ ॥

प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ।

पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ॥ ४ ॥

पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ।

त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ॥ ५ ॥

स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ।

पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ॥ ६ ॥

सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ।

दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिञ्जय ॥ ७ ॥

कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ।

साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ॥ ८ ॥

समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ।

सर्वं च सुखदुःखं ते विदितं मम राघव ॥ ९ ॥

यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ।

ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ॥ १० ॥

रावणेन हृता भार्या बभूवेयमनिन्दिता ।

मारीचदर्शनं चैव सीतोन्मथनमेव च ॥ ११ ॥

कबन्धदर्शनं चैव पम्पाभिगमनं तथा ।

सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ॥ १२ ॥

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ।

विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ॥ १३ ॥

यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ।

सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥ १४ ॥

यथा विनिहतः सङ्ख्ये रावणो देवकण्टकः ।

समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ॥ १५ ॥

सर्वं ममैतद्विदितं तपसा धर्मवत्सल ।

अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ॥ १६ ॥

अर्घ्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ।

तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ॥ १७ ॥

बाढमित्येव संहृष्टो धीमान्वरमयाचत ।

अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ॥ १८ ॥ [व्रताः]

फलान्यमृतकल्पानि बहूनि विविधानि च ।

भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ॥ १९ ॥

तथेति च प्रतिज्ञाते वचनात्समनन्तरम् ।

अभवन्पादपास्तत्र स्वर्गपादपसन्निभाः ॥ २० ॥

निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनः ।

शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ।

सर्वतो योजना त्रीणि गच्छतामभवंस्तदा ॥ २१ ॥

ततः प्रहृष्टाः प्लवगर्षभास्ते

बहूनि दिव्यानि फलानि चैव ।

कामादुपाश्नन्ति सहस्रशस्ते

मुदान्विताः स्वर्गजितो यथैव ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ॥ १२७ ॥

valmiki ramayan yuddhakand adhyay 127