Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड अष्टाविंशः

॥ मैन्दादिपराक्रमाख्यानम् ॥

सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् ।

बलमादिष्य तत्सर्वं शुको वाक्यमथाब्रवीत् ॥ १ ॥

स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् ।

न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतानिव ॥ २ ॥

एते दुष्प्रसहा राजन्बलिनः कामरूपिणः ।

दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ॥ ३ ॥

एषां कोटिसहस्राणि नव पञ्च च सप्त च ।

तथा शङ्खसहस्राणि तथा वृन्दशतानि च ॥ ४ ॥

एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ।

हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥ ५ ॥

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ ।

मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥ ६ ॥

ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ।

आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ॥ ७ ॥

यावेतावेतयोः पार्श्वे स्थितौ पर्वतसन्निभौ ।

सुमुखोऽसुमुखश्चैव मृत्युपुत्रौ पितुःसमौ ॥ ८ ॥

प्रेक्षन्तौ नगरीं लङ्कां कोटिभिर्दशभिर्वृतौ ।

यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ॥ ९ ॥

यो बलात् क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ।

एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो ॥ १० ॥

एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ।

ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ॥ ११ ॥

हनुमानिति विख्यातो लङ्घितो येन सागरः ।

कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः ॥ १२ ॥

अनिवार्यगतिश्चैव यथा सततगः प्रभुः ।

उद्यन्तं भास्करं दृष्ट्वा बालः किल बुभुक्षितः ॥ १३ ॥ [पिपासितः]

त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ।

आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ॥ १४ ॥

इति सञ्चिन्त्य मनसा पुरैष बलदर्पितः ।

अनाधृष्यतमं देवमपि देवर्षिदानवैः ॥ १५ ॥

अनासाद्यैव पतितो भास्करोदयने गिरौ ।

पतितस्य कपेरस्य हनुरेका शिलातले ॥ १६ ॥

किञ्चिद्भिन्ना दृढहनोर्हनुमानेष तेन वै ।

सत्यमागमयोगेन ममैष विदितो हरिः ॥ १७ ॥

नास्य शक्यं बलं रूपं प्रभावो वाऽपि भाषितुम् ।

एष आशंसते लङ्कामेको मर्दितुमोजसा ॥ १८ ॥

[* अधिकश्लोकः –

येन जाज्वल्यते सौम्य धूमकेतुस्तवाद्य वै ।

लङ्कायां निहितश्चापि कथं न स्मरसे कपिम् ॥ १९ ॥

*]

यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः ।

इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः ॥ २० ॥

यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते ।

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ २१ ॥

यो भिन्द्याद्गगनं बाणैः पर्वतानपि दारयेत् ।

यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥ २२ ॥

यस्य भार्या जनस्थानात्सीता चापहृता त्वया ।

स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ॥ २३ ॥

यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः ।

विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ २४ ॥

एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः ।

नये युद्धे च कुशलः सर्वशस्त्रभृतां वरः ॥ २५ ॥ [सर्वशास्त्रविशारदः]

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली ।

रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ २६ ॥

न ह्येष राघवस्यार्थे जीवितं परिरक्षति ।

एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ २७ ॥

यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति ।

रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥ २८ ॥

श्रीमता राजराजेन लङ्कायामभिषेचितः ।

त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥ २९ ॥

यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् ।

सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ॥ ३० ॥

तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च ।

यः कपीनतिबभ्राज हिमवानिव पर्वतान् ॥ ३१ ॥

किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् ।

दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ ३२ ॥

यस्यैषा काञ्चनी माला शोभते शतपुष्करा ।

कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥ ३३ ॥

एतां च मालां तारां च कपिराज्यं च शाश्वतम् ।

सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ ३४ ॥

शतं शतसहस्राणां कोटिमाहुर्मनीषिणः ।

शतं कोटिसहस्राणां शङ्ख इत्यभिधीयते ॥ ३५ ॥

शतं शङ्खसहस्राणां महाशङ्ख इति स्मृतः ।

महाशङ्खसहस्राणां शतं वृन्दमिति स्मृतम् ॥ ३६ ॥

शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् ।

महावृन्दसहस्राणां शतं पद्ममिति स्मृतम् ॥ ३७ ॥

शतं पद्मसहस्राणां महापद्ममिति स्मृतम् ।

महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥ ३८ ॥

शतं खर्वसहस्राणां महाखर्वमिति स्मृतम् ।

महाखर्वसहस्राणां समुद्रमभिधीयते ॥ ३९ ॥

शतं समुद्रसाहस्रमोघ इत्यभिधीयते ।

शतमोघसहस्राणां महौघ इति विश्रुतः ॥ ४० ॥

एवं कोटिसहस्रेण शङ्खानां च शतेन च ।

महाशङ्खसहस्रेण तथा वृन्दशतेन च ॥ ४१ ॥

महावृन्दसहस्रेण तथा पद्मशतेन च ।

महापद्मसहस्रेण तथा खर्वशतेन च ॥ ४२ ॥

समुद्रेण शतेनैव महौघेन तथैव च ।

एष कोटिमहौघेन समुद्रसदृशेन च ॥ ४३ ॥

विभीषणेन सचिवै राक्षसैः परिवारितः ।

सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते ।

महाबलवृतो नित्यं महाबलपराक्रमः ॥ ४४ ॥

इमां महाराज समीक्ष्य वाहिनी-

-मुपस्थितां प्रज्वलितग्रहोपमाम् ।

ततः प्रयत्नः परमो विधीयतां

यथा जयः स्यान्न परैः पराजयः ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥

valmiki ramayan yuddhakand adhyay 28