Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड सप्तसप्ततितमः

॥ निकुम्भवधः ॥

निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ।

प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ १ ॥

ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम् ।

आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २ ॥

हेमपट्‍टपरिक्षिप्तं वज्रविद्रुमभूषितम् ।

यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥

तमाविध्य महातेजाः शक्रध्वजसमं तदा ।

विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥ ४ ॥

उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ।

कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥ ५ ॥

निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ।

यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ॥ ६ ॥

परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ।

प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ ७ ॥

नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ।

सह चैवामरावत्या सर्वैश्च भवनैः सह ॥ ८ ॥

सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम् ।

निकुम्भपरिघाघूर्णं भ्रमतीव नभः स्थलम् ॥ ९ ॥

दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः ।

कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥ १० ॥

राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ।

हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ ११ ॥

परिघोपमबाहुस्तु परिघं भास्करप्रभम् ।

बली बलवतस्तस्य पातयामास वक्षसि ॥ १२ ॥

स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ।

विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥ १३ ॥

स तु तेन प्रहारेण विचचाल महाकपिः ।

परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ १४ ॥

स तदाऽभिहतस्तेन हनुमान् प्लवगोत्तमः ।

मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ १५ ॥

तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ।

अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ॥ १६ ॥

ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् ।

मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ॥ १७ ॥

स तु तेन प्रहारेण निकुम्भो विचचाल ह ।

स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ॥ १८ ॥

विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः ।

निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥ १९ ॥

स तदा ह्रियमाणोऽपि कुम्भकर्णात्मजेन ह ।

आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥ २० ॥

आत्मानं मोचयित्वाऽथ क्षितावभ्यवपद्यत ।

हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥ २१ ॥

निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह ।

उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ॥ २२ ॥

परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ।

उत्पाटयामास शिरो भैरवं नदतो महत् ॥ २३ ॥

अथ विनदति सादिते निकुम्भे

पवनसुतेन रणे बभूव युद्धम् ।

दशरथसुतराक्षसेन्द्रसून्वो-

-र्भृशतरमागतरोषयोः सुभीमम् ॥ २४ ॥

व्यपेते तु जीवे निकुम्भस्य हृष्टा

विनेदुः प्लवङ्गा दिशः सस्वनुश्च ।

चचालेव चोर्वी पफालेव च द्यौ-

-र्भयं राक्षसानां बलं चाविवेश ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥

valmiki ramayan yuddhakand adhyay 77