Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड चतुश्चत्वारिंशः

॥ निशायुद्धम् ॥

युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् ।

रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ १ ॥

अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।

सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥ २ ॥

राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः ।

अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥

जहि दारय चैहीति कथं विद्रवसीति च ।

एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ ४ ॥

कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः ।

सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ ५ ॥

तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः ।

परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥ ६ ॥

ते हयान्काञ्चनापीडान्ध्वजांश्चाग्निशिखोपमान् ।

आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥ ७ ॥

वानरा बलिनो युद्धेऽक्षोभयन्राक्षसीं चमूम् ।

कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ॥ ८ ॥

चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः ।

लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ॥ ९ ॥

दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ।

तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ॥ १० ॥

रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः ।

वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे ॥ ११ ॥

रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ।

ततो भेरीमृदङ्गानां पणवानां च निःस्वनः ॥ १२ ॥

शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।

[* विमर्दे तुमुले तस्मिन्देवासुररणोपमे । *]

हतानां स्तनमानानां राक्षसानां च निःस्वनः ॥ १३ ॥

शस्तानां वानराणां च सम्बभूवातिदारुणः ।

हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ॥ १४ ॥

निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ।

शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ॥ १५ ॥

दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ।

सा बभूव निशा घोरा हरिराक्षसहारिणी ॥ १६ ॥

कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ।

ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ॥ १७ ॥

राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ।

तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ॥ १८ ॥

उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ।

तेषां रामः शरैः षड्भिः षड्जघान निशाचरान् ॥ १९ ॥

निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ।

यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ॥ २० ॥

वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ।

ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ॥ २१ ॥

युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ।

तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ॥ २२ ॥

दिशश्चकार विमलाः प्रदिशश्च महाबलः ।

रामनामाङ्कितैर्बाणैर्व्याप्तं तद्रणमण्डलम् ॥ २३ ॥

ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।

तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ॥ २४ ॥

सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः ।

बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ २५ ॥

राक्षसानां च निनदैर्हरीणां चापि निःस्वनैः ।

सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ २६ ॥

तेन शब्देन महता प्रवृद्धेन समन्ततः ।

त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ॥ २७ ॥

गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।

सम्परिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान् ॥ २८ ॥

अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।

रावणिं निजघानाशु सारथिं च हयानपि ॥ २९ ॥

वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे ।

इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ॥ ३० ॥

अङ्गदेन महाकायस्तत्रैवान्तरधीयत ।

तत्कर्म वालिपुत्रस्य सर्वे देवा महर्षिभिः ॥ ३१ ॥

तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ।

प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ॥ ३२ ॥

अदृश्यः सर्वभूतानां योऽभवद्युधि दुर्जयः ।

तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ॥ ३३ ॥

ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।

साधुसाध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ॥ ३४ ॥

इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।

सम्युगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ ३५ ॥

एतस्मिन्नन्तरे रामो वानरान्वाक्यमब्रवीत् ।

सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ॥ ३६ ॥

स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।

भवतामर्थसिद्ध्यर्थं कालेन स समागतः ॥ ३७ ॥

अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ।

सोन्तर्धानगतः पापो रावणी रणकर्कशः ॥ ३८ ॥

अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः ।

स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ॥ ३९ ॥

बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।

मायया संवृतस्तत्र मोहयन्राघवौ युधि ॥ ४० ॥

अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।

बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥ ४१ ॥

तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।

सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः ॥ ४२ ॥

प्रकाशरूपस्तु यदा न शक्तः

तौ बाधितुं राक्षसराजपुत्रः ।

मायां प्रयोक्तुं समुपाजगाम

बबन्ध तौ राजसुतौ महात्मा ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

valmiki ramayan yuddhakand adhyay 44