Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड अष्टाशीतितमः

॥ सौमित्रिरावणियुद्धम् ॥

विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्छितः ।

अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह ॥ १ ॥

उद्यतायुधनिस्त्रिंशो रथे सुसमलङ्कृते ।

कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥ २ ॥

महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् ।

धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ॥ ३ ॥

तं ददर्श महेष्वासो रथे सुसमलङ्कृतः ।

अलङ्कृतममित्रघ्नं राघवस्यानुजं बली ॥ ४ ॥

हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ।

उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ॥ ५ ॥

तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् ।

अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ॥ ६ ॥

मुक्तं वर्षमिवाकाशे वारयिष्यथ सम्युगे ।

अद्य वो मामका बाणा महाकार्मुकनिःसृताः ॥ ७ ॥

विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ।

तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यष्टितोमरैः ॥ ८ ॥

अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ।

क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि ॥ ९ ॥

जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ।

रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः ॥ १० ॥

शायितौ स्थो मया भूमौ विसञ्ज्ञौ सपुरःसरौ ।

स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं वा यमसादनम् ॥ ११ ॥

आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः ।

तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा ॥ १२ ॥

अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ।

उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ॥ १३ ॥

कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।

स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् ॥ १४ ॥

वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ।

अन्तर्धानगतेनाजौ यस्त्वयाऽऽचरितस्तदा ॥ १५ ॥

तस्कराचरितो मार्गो नैष वीरनिषेवितः ।

यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस ॥ १६ ॥

दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ।

एवमुक्तो धनुर्भीमं परामृश्य महाबलः ॥ १७ ॥

ससर्ज निशितान्बाणानिन्द्रजित्समितिञ्जयः ।

ते निसृष्टा महावेगाः शराः सर्पविषोपमाः ॥ १८ ॥

सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ।

शरैरतिमहावेगैर्वेगवान्रावणात्मजः ॥ १९ ॥

सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ।

स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ॥ २० ॥

शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः ।

इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च ॥ २१ ॥

विनद्य सुमहानादमिदं वचनमब्रवीत् ।

पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः ॥ २२ ॥

आदास्यन्तेऽद्य सौमित्रे जिवितं जीवितान्तगाः ।

अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण ॥ २३ ॥

गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ।

[* अधिकपाठः –

अद्य यास्यति सौमित्रे कर्णगोचरतां तव ।

तर्जनं यमदूतानां सर्वभूतभयावहम् ।

*]

क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः ॥ २४ ॥

भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ।

विशस्तकवचं भूमौ व्यपविद्धशरासनम् ॥ २५ ॥

हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ।

इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ॥ २६ ॥

हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ।

वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मासि राक्षस ॥ २७ ॥

अथ कस्माद्वदस्येतत्सम्पादय सुकर्मणा ।

अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस ॥ २८ ॥

कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ।

अनुक्त्वा परुषं वाक्यं किञ्चिदप्यनवक्षिपन् ॥ २९ ॥

अविकत्थन्वधिष्यामि त्वां पश्य पुरुषाधम ।

इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शितान् ॥ ३० ॥

निजघान महावेगाँल्लक्ष्मणो राक्षसोरसि ।

सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः ॥ ३१ ॥

नैरृतोरस्यभासन्त सवितू रश्मयो यथा ।

स शरैराहतस्तेन सरोषो रावणात्मजः ॥ ३२ ॥

सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ।

स बभूव तदा भीमो नरराक्षससिंहयोः ॥ ३३ ॥

विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ।

उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ ॥ ३४ ॥

उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ ।

उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥ ३५ ॥

युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ।

बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ ॥ ३६ ॥

युयुधाते महात्मानौ तदा केसरिणाविव ।

बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ ।

नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ ३७ ॥

सुसम्प्रहृष्टौ नरराक्षसोत्तमौ

जयैषिणौ मार्गणचापधारिणौ ।

परस्परं तौ प्रववर्षतुर्भृशं

शरौघवर्षेण बलाहकाविव ॥ ३८ ॥

अभिप्रवृद्धौ युधि युद्धकोविदौ

शरासिचण्डौ शितशस्त्रधारिणौ ।

अभीक्ष्णमाविव्यधतुर्महाबलौ

महाहवे शम्बरवासवाविव ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥

valmiki ramayan yuddhakand adhyay 88