Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड पञ्चमः

॥ रामविप्रलम्भः ॥

सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता ।

सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ १ ॥

मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ ।

विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ २ ॥

निविष्टायां तु सेनायां तीरे नदनदीपतेः ।

पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ ३ ॥

शोकश्च किल कालेन गच्छता ह्यपगच्छति ।

मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ ४ ॥

न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति वा ।

एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ ५ ॥

वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश ।

त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ ६ ॥

तन्मे दहति गात्राणि विषं पीतमिवाशये ।

हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥ ७ ॥

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा ।

रात्रिं‍दिवं शरीरं मे दह्यते मदनाग्निना ॥ ८ ॥

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना ।

कथञ्चित्प्रज्वलन्कामो स मा सुप्तं जले दहेत् ॥ ९ ॥

बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् ।

यदहं सा च वामोरूरेकां धरणिमाश्रितौ ॥ १० ॥

केदारस्येव केदारः सोदकस्य निरूदकः ।

उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ ११ ॥

कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम् ।

विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ १२ ॥

कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् ।

ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ १३ ॥

तस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ ।

कदा नु खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः ॥ १४ ॥

सा नूनमसितापाङ्गी रक्षोमध्यगता सती ।

मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ १५ ॥

कथं जनकराजस्य दुहिता सा मम प्रिया ।

राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥ १६ ॥

कदाऽविक्षोभ्यरक्षांसि सा विधूयोत्पतिष्यति ।

विधूय जलदान्नीलान् शशिरेखा शरत्स्विव ॥ १७ ॥

स्वभावतनुका नूनं शोकेनानशनेन च ।

भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ १८ ॥

कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् ।

सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम् ॥ १९ ॥

कदा नु खलु मां साध्वी सीता सुरसुतोपमा ।

सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं पयः ॥ २० ॥

कदा शोकमिमं घोरं मैथिली विप्रयोगजम् ।

सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ २१ ॥

एवं विलपतस्तस्य तत्र रामस्य धीमतः ।

दिनक्षयान्मन्दरुचिर्भास्करोऽस्तमुपागमत् ॥ २२ ॥

आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत ।

स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः ॥ ५ ॥

valmiki ramayan yuddhakand adhyay 5