Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड पञ्चदशः

॥ इन्द्रजिद्विभीषणविवादः ॥

बृहस्पतेस्तुल्यमतेर्वचस्त-

-न्निशम्य यत्नेन विभीषणस्य ।

ततो महात्मा वचनं बभाषे

तत्रेन्द्रजिन्नैरृतयोधमुख्यः ॥ १ ॥

किं नाम ते तात कनिष्ठवाक्य-

-मनर्थकं चैव सुभीतवच्च ।

अस्मिन्कुले योऽपि भवेन्न जातः

सोऽपीदृशं नैव वदेन्न कुर्यात् ॥ २ ॥

सत्त्वेन वीर्येण पराक्रमेण

शौर्येण धैर्येण च तेजसा च ।

एकः कुलेऽस्मिन्पुरुषो विमुक्तो

विभीषणस्तात कनिष्ठ एषः ॥ ३ ॥

किं नाम तौ राक्षस राजपुत्रा-

-वस्माकमेकेन हि राक्षसेन ।

सुप्राकृतेनापि रणे निहन्तुं

शक्यौ कुतो भीषयसे स्म भीरो ॥ ४ ॥

त्रिलोकनाथो ननु देवराजः

शक्रो मया भूमितले निविष्टः ।

भयार्दिताश्चापि दिशः प्रपन्नाः

सर्वे तथा देवगणाः समग्राः ॥ ५ ॥

ऐरावतो विस्वरमुन्नदन्स

निपातितो भूमितले मया तु ।

निकृष्य दन्तौ तु मया प्रसह्य

वित्रासिता देवगणाः समग्राः ॥ ६ ॥

सोऽहं सुराणामपि दर्पहन्ता

दैत्योत्तमानामपि शोकदाता ।

कथं नरेन्द्रात्मजयोर्न शक्तो

मनुष्ययोः प्राकृतयोः सुवीर्यः ॥ ७ ॥

अथेन्द्रकल्पस्य दुरासदस्य

महौजसस्तद्वचनं निशम्य ।

ततो महार्थं वचनं बभाषे

विभीषणः शस्त्रभृतां वरिष्ठः ॥ ८ ॥

न तात मन्त्रे तव निश्चयोऽस्ति

बालस्त्वमद्याप्यविपक्वबुद्धिः ।

तस्मात्त्वया ह्यात्मविनाशनाय

वचोऽर्थहीनं बहु विप्रलप्तम् ॥ ९ ॥

पुत्रप्रवादेन तु रावणस्य

त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।

यस्येदृशं राघवतो विनाशं

निशम्य मोहादनुमन्यसे त्वम् ॥ १० ॥

त्वमेव वध्यश्च सुदुर्मतिश्च

स चापि वध्यो य इहानयत्त्वाम् ।

बालं दृढं साहसिकं च योऽद्य

प्रावेशयन्मन्त्रकृतां समीपम् ॥ ११ ॥

मूढः प्रगल्भोऽविनयोपपन्न-

-स्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा ।

मूर्खस्त्वमत्यन्तसुदुर्मतिश्च

त्वमिन्द्रजिद्बालतया ब्रवीषि ॥ १२ ॥

को ब्रह्मदण्डप्रतिमप्रकाशा-

-नर्चिष्मतः कालनिकाशरूपान् ।

सहेत बाणान्यमदण्डकल्पान्

समक्ष मुक्तान्युधि राघवेण ॥ १३ ॥

धनानि रत्नानि विभूषणानि

वासांसि दिव्यानि मणींश्च चित्रान् ।

सीतां च रामाय निवेद्य देवीं

वसेम राजन्निह वीतशोकाः ॥ १४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः ॥ १५ ॥

valmiki ramayan yuddhakand adhyay 15