Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड सप्तविंशः

॥ हरादिवानरपराक्रमाख्यानम् ॥

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् ।

राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ १ ॥

स्निग्धा यस्य बहुव्यामा वाला लाङ्गूलमाश्रिताः ।

ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ २ ॥

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः ।

पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ॥ ३ ॥

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः ।

द्रुमानुद्यम्य सहसा लङ्कारोहणतत्पराः ॥ ४ ॥

एष कोटिसहस्रेण वानराणां महौजसाम् ।

आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय ॥ ५ ॥

यूथपा हरिराजस्य किङ्कराः समुपस्थिताः ।

नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ ६ ॥

असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् ।

असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ ७ ॥

पर्वतेषु च ये केचिद्विषमेषु नदीषु च ।

एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ॥ ८ ॥

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः ।

पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ ९ ॥

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् ।

सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ १० ॥

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् ।

भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमैः ॥ ११ ॥

स एष जाम्बवान्नाम महायूथपयूथपः ।

प्रक्रान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥ १२ ॥

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता ।

दैवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ १३ ॥

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः ।

मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ १४ ॥

राक्षसानां च सदृशाः पिशाचानां च लोमशाः ।

एतस्य सैन्या बहवो विचरन्त्यग्नितेजसः ॥ १५ ॥

यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् ।

प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥ १६ ॥

एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः ।

बलेन बलसम्पन्नो दम्भो नामैष यूथपः ॥ १७ ॥

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते ।

ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ १८ ॥

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते ।

श्रुतः सन्नादनो नाम वानराणां पितामहः ॥ १९ ॥

येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता ।

पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ २० ॥

यस्य विक्रममाणस्य शक्रस्येव पराक्रमः ।

एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः ॥ २१ ॥

तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ।

यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ॥ २२ ॥

यो राजा पर्वतेन्द्राणां बहुकिन्नरसेविनाम् ।

विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥ २३ ॥

तत्रैव वसति श्रीमान्बलवान्वानरर्षभः ।

युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ २४ ॥

वृतः कोटिसहस्रेण हरीणां समुपस्थितः ।

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २५ ॥

यो गङ्गामनुपर्येति त्रासयन्हस्तियूथपान् ।

हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ २६ ॥

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः ।

गजान्योधयते वन्याग्निरींश्चैव महीरुहान् ॥ २७ ॥

हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु ।

उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम् ॥ २८ ॥

रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् ।

एनं शतसहस्राणां सहस्रमनुवर्तते ॥ २९ ॥

वीर्यविक्रमदृप्तानां नर्दतां बलशालिनाम् ।

स एष नेता चैतेषां वानराणां महात्मनाम् ॥ ३० ॥

स एष दुर्धरो राजन्प्रमाथी नाम यूथपः ।

वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ ३१ ॥

अनीकमपि संरब्धं वानराणां तरस्विनाम् ।

उद्धूतमरुणाभासं पवनेन समन्ततः ॥ ३२ ॥

विवर्तमानं बहुधा यत्रैतद्बहुलं रजः ।

एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ॥ ३३ ॥

शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ।

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ॥ ३४ ॥

परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ।

भ्रमराचरिता यत्र सर्वकालफलद्रुमाः ॥ ३५ ॥

यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम् ।

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ॥ ३६ ॥

यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ।

सर्वकामफला वृक्षाः सदा फलसमन्विताः ॥ ३७ ॥

मधूनि च महार्हाणि यस्मिन्पर्वतसत्तमे ।

तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ॥ ३८ ॥

मुख्यो वानरमुख्यानां केसरी नाम यूथपः ।

षष्ठिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ॥ ३९ ॥

तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ।

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ॥ ४० ॥

निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः ।

सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ॥ ४१ ॥

सर्वे वैश्वानरसमा ज्वलिताशीविषोपमाः ।

सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसन्निभाः ॥ ४२ ॥

महापर्वतसङ्काशा महाजीमूतनिःस्वनाः ।

वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः ॥ ४३ ॥

मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते ।

एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥ ४४ ॥

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।

नाम्ना पृथिव्यां विख्यातो राजन् शतवलीति यः ॥ ४५ ॥

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।

विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥ ४६ ॥

रामप्रियार्थं प्राणानां दयां न कुरुते हरिः ।

गजो गवाक्षो गवयो नलो नीलश्च वानरः ॥ ४७ ॥

एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ।

तथाऽन्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः ।

न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः ॥ ४८ ॥

सर्वे महाराज महाप्रभावाः

सर्वे महाशैलनिकाशकायाः ।

सर्वे समर्थाः पृथिवीं क्षणेन

कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ ४९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

valmiki ramayan yuddhakand adhyay 27