Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड तृतीयः

॥ लङ्कादुर्गादिकथनम् ॥

सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ।

प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ १ ॥

तपसा सेतुबन्धेन सागरोच्छोषणेन वा ।

सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥ २ ॥

कति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे ।

ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ ३ ॥

बलस्य परिमाणं च द्वारदुर्गक्रियामपि ।

गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥

यथासुखं यथावच्च लङ्कायामसि दृष्टवान् ।

सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥

श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः ।

वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ ६ ॥

श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः ।

गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ७ ॥

राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।

परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ॥ ८ ॥

विभागं च बलौघस्य निर्देशं वाहनस्य च ।

एवमुक्त्वा हरिश्रेष्ठः कथयामास तत्त्वतः ॥ ९ ॥ [कपि]

हृष्टा प्रमुदिता लङ्का मत्तद्विपसमाकुला ।

महती रथसम्पूर्णा रक्षोगणसमाकुला ॥ १० ॥

वाजिभिश्च सुसम्पूर्णा सा पुरी दुर्गमा परैः ।

दृढबद्धकवाटानि महापरिघवन्ति च ॥ ११ ॥

द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ।

तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च ॥ १२ ॥

आगतं परसैन्यं तु तत्र तैः प्रतिहन्यते । [प्रतिसैन्यं]

द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ॥ १३ ॥

शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ।

सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ॥ १४ ॥

मणिविद्रुमवैडूर्यमुक्ताविरचितान्तरः ।

सर्वतश्च महाभीमाः शीततोयवहाः शुभाः ॥ १५ ॥

अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ।

द्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः ॥ १६ ॥

यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ।

त्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति ॥ १७ ॥

यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ।

एकस्त्वकम्प्यो बलवान् सङ्क्रमः सुमहादृढः ॥ १८ ॥

काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ।

स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः ॥ १९ ॥

उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ।

लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा ॥ २० ॥

नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ।

स्थिता पारे समुद्रस्य दूरपारस्य राघव ॥ २१ ॥

नौपथोऽपि च नास्त्यत्र निरादेशश्च सर्वतः ।

शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा ॥ २२ ॥

वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ।

परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च ॥ २३ ॥

शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ।

अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् ॥ २४ ॥

शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ।

नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ॥ २५ ॥

चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ।

प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ॥ २६ ॥

चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ।

न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ॥ २७ ॥

रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ।

शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः ॥ २८ ॥

यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ।

ते मया सङ्क्रमा भग्नाः परिखाश्चावपूरिताः ॥ २९ ॥

दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ।

बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ३० ॥

येन केन च मार्गेण तराम वरुणालयम् ।

हतेति नगरी लङ्का वानरैरवधार्यताम् ॥ ३१ ॥

अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ।

नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३२ ॥

प्लवमाना हि गत्वा तां रावणस्य महापुरीम् ।

सपर्वतवनां भित्त्वा सखातां सप्रतोरणाम् ॥ ३३ ॥

सप्राकारां सभवनामानयिष्यन्ति राघव ।

एवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम् ।

मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः ॥ ३ ॥

valmiki ramayan yuddhakand adhyay 3