Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकोनविंशः

॥ शरतल्पसंवेशः ॥

राघवेणाभये दत्ते सन्नतो रावणानुजः ।

विभीषणो महाप्राज्ञो भूमिं समवलोकयन् ॥ १ ॥

खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ।

स तु रामस्य धर्मात्मा निपपात विभीषणः ॥ २ ॥

पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ।

अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ॥ ३ ॥

धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ।

अनुजो रावणस्याहं तेन चास्म्यवमानितः ॥ ४ ॥

भवन्तं सर्वभूतानां शरण्यं शरणं गतः ।

परित्यक्ता मया लङ्का मित्राणि च धनानि वै ॥ ५ ॥

भवद्गतं मे राज्यं च जीवितं च सुखानि च ।

तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ॥ ६ ॥

वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।

आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ ७ ॥

एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा ।

रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ ८ ॥

अवध्यः सर्वभूतानां देवदानवरक्षसाम् ।

राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥ ९ ॥

रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।

कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥ १० ॥

राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ।

कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ॥ ११ ॥

बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।

धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ १२ ॥

सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् ।

अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ॥ १३ ॥

महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः ।

अनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ १४ ॥

दशकोटिसहस्राणि रक्षसां कामरूपिणाम् ।

मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ॥ १५ ॥

स तैः परिवृतो राजा लोकपालानयोधयत् । [तैस्तु सहितो]

सह देवैस्तु ते भग्ना रावणेन महात्मना ॥ १६ ॥

विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।

अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ १७ ॥

यानि कर्मापदानानि रावणस्य विभीषण ।

आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ १८ ॥

अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् ।

राजानं त्वां करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ १९ ॥

रसातलं वा प्रविशेत्पातालं वाऽपि रावणः ।

पितामहसकाशं वा न मे जीवन्विमोक्ष्यते ॥ २० ॥

अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् ।

अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥ २१ ॥

श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।

शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ॥ २२ ॥

राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे ।

करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ २३ ॥

इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।

अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥ २४ ॥

तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।

राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ २५ ॥

एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् ।

मध्ये वानरमुख्यानां राजानं रामशासनात् ॥ २६ ॥

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः ।

प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ॥ २७ ॥

अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।

कथं सागरमक्षोभ्यं तराम वरुणालयम् ॥ २८ ॥

सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।

उपायं नाधिगच्छामो यथा नदनदीपतिम् ॥ २९ ॥

तराम तरसा सर्वे ससैन्या वरुणालयम् ।

एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ॥ ३० ॥

समुद्रं राघवो राजा शरणं गन्तुमर्हति ।

खानितः सागरेणायमप्रमेयो महोदधिः ॥ ३१ ॥

कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः । [महामतिः]

एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ॥ ३२ ॥

आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ।

ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥ ३३ ॥

सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।

प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥ ३४ ॥

स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ।

सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ॥ ३५ ॥

विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ।

ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ ३६ ॥

सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः ।

उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ॥ ३७ ॥

एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ।

समुदाचारसम्युक्तमिदं वचनमूचतुः ॥ ३८ ॥

किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव ।

विभीषणेन यच्चोक्तमस्मिन्काले सुखावहम् ॥ ३९ ॥

अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये ।

लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ४० ॥

विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।

अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् ॥ ४१ ॥

यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ।

एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।

संविवेश तदा रामो वेद्यामिव हुताशनः ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥ १९ ॥

valmiki ramayan yuddhakand adhyay 19