Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड त्रयोदशाधिकशततमः

॥ रावणान्तःपुरपरिदेवनम् ॥

रावणं निहतं श्रुत्वा राघवेण महात्मना ।

अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ १ ॥

वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु ।

विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ॥ २ ॥

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।

प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ ३ ॥

राजपुत्रेतिवादिन्यो हा नाथेति च सर्वशः ।

परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥ ४ ॥

ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।

करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥ ५ ॥

ददृशुस्तं महावीर्यं महाकायं महाद्युतिम् ।

रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ ६ ॥

ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।

निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥ ७ ॥

बहुमानात्परिष्वज्य काचिदेनं रुरोद ह ।

चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य च ॥ ८ ॥

उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।

हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ९ ॥

काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।

स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ १० ॥

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।

चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥ ११ ॥

येन वित्रासितः शक्रो येन वित्रासितो यमः ।

येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२ ॥

गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।

भयं येन महद्दत्तं सोऽयं शेते रणे हतः ॥ १३ ॥

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा ।

न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥ १४ ॥

अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।

हतः सोऽयं रणे शेते मानुषेण पदातिना ॥ १५ ॥

यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।

सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥ १६ ॥

एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।

भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ॥ १७ ॥

अशृण्वता च सुहृदां सततं हितवादिनाम् ।

मरणायाहृता सीता घातिताश्च निशाचराः ॥ १८ ॥

एताः सममिदानीं ते वयमात्मा च पातिताः ।

ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः ॥ १९ ॥

धृष्टं परुषितो मोहात्त्वयाऽऽत्मवधकाङ्क्षिणा ।

यदि निर्यातिता ते स्यात्सीता रामाय मैथिली ॥ २० ॥

न नः स्याद्व्यसनं घोरमिदं मूलहरं महत् ।

वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ॥ २१ ॥

वयं चाविधवाः सर्वाः सकामा न च शत्रवः ।

त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ॥ २२ ॥

राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ।

न कामकारः कामं वा तव राक्षसपुङ्गव ॥ २३ ॥

दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ।

वानराणां विनाशोऽयं रक्षसां च महाहवे ॥ २४ ॥

तव चैव महाबाहो दैवयोगादुपागतः ।

नैवार्थेन न कामेन विक्रमेण न चाज्ञया ॥ २५ ॥

शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ।

विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।

कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥

valmiki ramayan yuddhakand adhyay 113