Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड चतुस्त्रिंशः

॥ रावणनिश्चयकथनम् ॥

अथ तां जातसन्तापां तेन वाक्येन मोहिताम् ।

सरमा ह्लादयामास पृथिवीं द्यौरिवाम्भसा ॥ १ ॥

ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखीवचः ।

उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २ ॥

उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे ।

निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३ ॥

न हि मे क्रममाणाया निरालम्बे विहायसि ।

समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ ४ ॥

एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् ।

मधुरं श्लक्ष्णया वाचा पूर्वं शोकाभिपन्नया ॥ ५ ॥

समर्था गगनं गन्तुमपि वा त्वं रसातलम् ।

अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ ६ ॥

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ।

ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ७ ॥

स हि मायाबलः क्रूरो रावणः शत्रुरावणः ।

मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८ ॥

तर्जापयति मां नित्यं भर्त्सापयति चासकृत् ।

राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ ९ ॥

उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम ।

तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥ १० ॥

यदि नाम कथा तस्य निश्चितं वाऽपि यद्भवेत् ।

निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ॥ ११ ॥

सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी ।

उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ १२ ॥

एष ते यद्यभिप्रायस्तदा गच्छामि जानकि ।

गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३ ॥

एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः ।

शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४ ॥

सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः ।

पुनरेवागमत् क्षिप्रमशोकवनिकां तदा ॥ १५ ॥

सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् ।

प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ १६ ॥

तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् ।

परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७ ॥

इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः ।

क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥

एवमुक्ता तु सरमा सीतया वेपमानया ।

कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ १९ ॥

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः ।

अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ २० ॥

दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली ।

निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१ ॥

लङ्घनं च समुद्रस्य दर्शनं च हनूमतः ।

वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ २२ ॥

एवं स मन्त्रिवृद्धैश्चाविद्धेन बहु भाषितः ।

न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥ २३ ॥

नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि ।

सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ २४ ॥

तदेषा निश्चिता बुद्धिर्मृत्युलोभादुपस्थिता ।

भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु सम्युगे ॥ २५ ॥

राक्षसानां च सर्वेषामात्मनश्च वधेन हि ।

निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः ॥ २६ ॥

प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ।

एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ।

श्रुतो वानरसैन्यानां कम्पयन्धरणीतलम् ॥ २७ ॥

श्रुत्वा तु तद्वानरसैन्यशब्दं

लङ्कागता राक्षसराजभृत्याः ।

नष्टौजसो दैन्यपरीतचेष्टाः

श्रेयो न पश्यन्ति नृपस्य दोषैः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥

valmiki ramayan yuddhakand adhyay 34