Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड द्विषष्टितमः

॥ रावणाभ्यर्थना ॥

स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।

राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥

राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।

गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥

स हेमजालविततं भानुभास्वरदर्शनम् ।

ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३ ॥

स तत्तदा सूर्य इवाभ्रजालं

प्रविश्य रक्षोऽधिपतेर्निवेशम् ।

ददर्श दूरेऽग्रजमासनस्थं

स्वयम्भुवं शक्र इवासनस्थम् ॥ ४ ॥

भ्रातुः स भवनं गच्छन्रक्षोगणसमन्वितम् ।

कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ५ ॥

सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।

ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ६ ॥

अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ।

तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥ ७ ॥

अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।

भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ ८ ॥

उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।

स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ॥ ९ ॥

कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।

स तदासनमाश्रित्य कुम्भकर्णो महाबलः ॥ १० ॥

संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ।

किमर्थमहमादृत्य त्वया राजन्विबोधितः ॥ ११ ॥

शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ।

भ्रातरं रावणः कुद्धं कुम्भकर्णमवस्थितम् ॥ १२ ॥

ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ।

अद्य ते सुमहान्कालः शयानस्य महाबल ॥ १३ ॥

सुखितस्त्वं न जानीषे मम रामकृतं भयम् ।

एष दाशरथी रामः सुग्रीवसहितो बली ॥ १४ ॥

समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ।

हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ॥ १५ ॥

सेतुना सुखमागम्य वानरैकार्णवीकृतम् ।

ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ॥ १६ ॥

वानराणां क्षयं युद्धे न पश्यामि कदाचन ।

न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७ ॥

तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल ।

नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ १८ ॥

सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।

त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ १९ ॥

भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।

मयैवं नोक्तपूर्वो हि कच्चिद्भ्रातः परन्तप ॥ २० ॥

त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे ।

दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ॥ २१ ॥

त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ।

तदेतत्सर्वमातिष्ठ वीर्यं भीमपराक्रम ।

न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ २२ ॥

कुरुष्व मे प्रियहितमेतदुत्तमं

यथाप्रियं प्रियरण बान्धवप्रिय ।

स्वतेजसा विधम सपत्नवाहिनीं

शरद्घनं पवन इवोद्यतो महान् ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥

valmiki ramayan yuddhakand adhyay 62