Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड सप्तमः

॥ सचिवोक्तिः ॥

इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ।

ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ॥ १ ॥

द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।

अविज्ञायात्मपक्षं च राजानं भीषयन्ति हि ॥ २ ॥

राजन् परिघशक्त्यृष्टिशूलपट्‍टिशसङ्कुलम् ।

सुमहन्नो बलं कस्माद्विषादं भजते भवान् ॥ ३ ॥

त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि ।

कैलासशिखरावासी यक्षैर्बहुभिरावृतः ॥ ४ ॥

सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ।

स महेश्वरसख्येन श्लाघमानस्त्वया विभो ॥ ५ ॥

निर्जितः समरे रोषाल्लोकपालो महाबलः ।

विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ॥ ६ ॥

त्वया कैलासशिखराद्विमानमिदमाहृतम् ।

मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता ॥ ७ ॥

दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ।

दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः ॥ ८ ॥

विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ।

निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ॥ ९ ॥

वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ।

अक्षया बलवन्तश्च शूरा लब्धवराः पुरा ॥ १० ॥

त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ।

स्वबलं समुपाश्रित्य नीता वशमरिन्दम ॥ ११ ॥

मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ।

निर्जिताः समरे रोषाल्लोकपाला महाबलाः ॥ १२ ॥

देवलोकमितो गत्वा शक्रश्चापि विनिर्जितः ।

शूराश्च बलवन्तश्च वरुणस्य सुता रणे ॥ १३ ॥

निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ।

मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम् ॥ १४ ॥

कालपाशमहावीचिं यमकिङ्करपन्नगम् ।

अवगाह्य त्वया राजन् यमस्य बलसागरम् ॥ १५ ॥

जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः ।

सुयुद्धेन च ते सर्वे लोकास्तत्र विलोलिताः ॥ १६ ॥ [सुतोषिताः]

क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः ।

आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ १७ ॥

तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे ।

प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः ॥ १८ ॥

तिष्ठ वा किं महाराज श्रमेण तव वानरान् ।

अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति ॥ १९ ॥

अनेन हि महाराज माहेश्वरमनुत्तमम् ।

इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः ॥ २० ॥

शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् ।

गजकच्छपसम्बाधमश्वमण्डूकसङ्कुलम् ॥ २१ ॥

रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम् ।

रथाश्वगजतोयौघं पदातिपुलिनं महत् ॥ २२ ॥

अनेन हि समासाद्य देवानां बलसागरम् ।

गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥ २३ ॥

पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।

गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः ॥ २४ ॥

तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् ।

यावद्वानरसेनां तां सरामां नयति क्षयम् ॥ २५ ॥

राजन्नापदयुक्तेयमागता प्राकृताज्जनात् ।

हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः ॥ ७ ॥

valmiki ramayan yuddhakand adhyay 7