Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड त्रिचत्वारिंशः

॥ द्वन्द्वयुद्धम् ॥

युद्ध्यतां तु ततस्तेषां वानराणां महात्मनाम् ।

रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ॥ १ ॥

ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।

रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ॥ २ ॥

निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।

राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३ ॥

वानराणामपि चमूर्बृहती जयमिच्छताम् ।

अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ॥ ४ ॥

एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।

रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ५ ॥

अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः ।

अयुध्यत महातेजास्त्र्यम्बकेण यथान्तकः ॥ ६ ॥

प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे ।

जम्बुमालिनमारब्धो हनुमानपि वानरः ॥ ७ ॥

सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः ।

समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ॥ ८ ॥

तपनेन गजः सार्धं राक्षसेन महाबलः ।

निकुम्भेन महातेजा नीलोऽपि समयुध्यत ॥ ९ ॥

वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।

सङ्गतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १० ॥

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।

सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः ॥ ११ ॥

वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः ।

राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२ ॥

वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।

समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३ ॥

धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः ।

स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४ ॥

वानराश्चापरे भीमा राक्षसैरपरैः सह ।

द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ॥ १५ ॥

तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् ।

रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६ ॥

हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः ।

शरीरसङ्घाटवहाः प्रसुस्रुः शोणितापगाः ॥ १७ ॥

आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः ।

अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८ ॥

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।

जघान समरे श्रीमानङ्गदो वेगवान्कपिः ॥ १९ ॥

सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।

निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥ २० ॥

जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।

बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१ ॥

तस्य तं रथमास्थाय हनूमान्मारुतात्मजः ।

प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२ ॥

नदन्प्रतपनो घोरो नलं सोऽप्यन्वधावत ।

नलः प्रतपनस्याशु पातयामास चक्षुषी ॥ २३ ॥

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।

ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ॥ २४ ॥

सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ।

[* अधिकपाठः –

प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ।

निजघान विरूपाक्षं शरणैकेन लक्ष्मणः ।

*]

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ॥ २५ ॥

सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ।

तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरै ॥ २६ ॥

क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ।

वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ॥ २७ ॥

पपात सरथः साश्वः सुराट्‍ट इव भूतले । [पुराट्‍ट]

[* अधिकपाठः –

मित्रघ्नमरिदर्पघ्न आपतन्तं विभीषणः ।

आसाद्य गदया गुर्व्या जघान रणमूर्धनि ।

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।

*]

निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।

निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ २८ ॥

पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ।

बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ २९ ॥

तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।

शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ३० ॥

वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् ।

जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ ३१ ॥

द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे ।

शरैरशनिसङ्काशैः स विव्याधाशनिप्रभः ॥ ३२ ॥

स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः ।

सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ ३३ ॥

[* अधिकश्लोकं –

नदन्प्रपतनो घोरो नलं सोऽप्यन्वधावत ।

नलः प्रतपनस्याशु पातयामास चक्षुषी ॥

*]

विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।

सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ३४ ॥

तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।

गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ ३५ ॥

लाघवेन तु सम्युक्तो विद्युन्माली निशाचरः ।

अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ ३६ ॥

ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।

शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३७ ॥

तमापतन्तं गदया विद्युन्माली निशाचरः ।

वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ॥ ३८ ॥

गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः ।

तां शिलां पातयामास तस्योरसि महामृधे ॥ ३९ ॥

शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।

निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ४० ॥

एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।

द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४१ ॥

भग्नैः खड्गैर्गदाभिश्च शक्तितोमरपट्‍टिशैः ।

अपविद्धैश्च भिन्नैश्च रथैः साङ्ग्रामिकैर्हयैः ॥ ४२ ॥

निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।

चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ॥ ४३ ॥

बभूवायोधनं घोरं गोमायुगणसङ्कुलम् ।

कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।

विमर्दे तुमुले तस्मिन्देवासुररणोपमे ॥ ४४ ॥

विदार्यमाणा हरिपुङ्गवैस्तदा

निशाचराः शोणितदिग्धगात्राः ।

पुनः सुयुद्धं तरसा समास्थिता

दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

valmiki ramayan yuddhakand adhyay 43